HOME

ISSN 0976-8645

 

Jahnavi Sanskrit E-Journal

[A First International Electronic Peer-reviewed Quarterly Refreed UGC Approved Sanskrit Tri-lingual Journal]

A portal of Sarasvatniketanam

द्वात्रिंशे ङ्के भवतां सर्वेषां मङ्गलाभिनन्दनम्।

 

 

 

www.sarasvatniketanam.org , www.jahnavisanskritejournal.in

                                                                                                     

 

मुख्यसम्पादकः

विद्यावाचस्पति-डा.सदानन्दझा

पुनर्वीक्षकाः

प्रो. पीयूषकान्त दीक्षित, डा. त्रिलोकझा, डा. अनिलप्रतापगिरि

विशिष्टपुनर्वीक्षकाः

Dr. PK Wendabona, Department of Basic Principles, Institute of Indigenous Medicine University of Colombo, Rajagiriya Sri Lanka

सम्पादकाः

डा. रामसेवकझाः, डा. राधावल्लभशर्मा, डा. श्रीनाथधरद्विवेदी,  श्रीश्यामबाबू,   डा. राजनमिश्रः, डा. दिनेशन्द्रपाण्डेयः डा. बिपिनकुमारझाः ।

प्रकाशकः

डा. बिपिनकुमारझाः ।

प्रकाशन-सम्पादनसहायकाः

डा. मीनाक्षीजोशी,  सुश्रीगायत्रीशर्मा, डा. सुमनदीक्षित, डा. सरिताश्रीवास्तव,  श्री सुमित-आनन्दः, ह्युमेशः, रोहितस्याण्टा, पुष्पराजः।

प्रतिनिधयः  (लोकार्पणसन्दर्भे)

डा. रामसेवक झा

तकनीकिप्रवन्धनसहायकः

रित्ज़ वेब होस्टिंग, बंगलोर, अंकुशः।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझावर्य्यैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्य्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिसहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते तेषु रूपेषु एवायं प्रबन्धः जाह्नवी संस्कृत ई जर्नलनाम्ना विश्वेऽस्मिन् प्रथितः।                 

 

 

 

 

 

 

 

 

 


JAHNAVI-A First International Electronic Peer-reviewed Quarterly Refreed UGC Approved   Sanskrit Tri-lingual (Sanskrit, Hindi & English) Journal.

 

 


======================================

सम्पादकीयम्

  

  विद्यावाचस्पति . सदानन्द झा[1]

शिवशिरसि वसन्ती संविदानन्दनीरा

हृदय कलुषपुञ्जं प्रक्षिपन्ती विदूरे

सघन तमसि दिव्यं ज्योतिरालोकयन्ती

प्रसरतु भुवि भव्या जाह्नवी काऽपिधन्या॥

अये विविधविद्याविद्योतितान्तःकरणा नानाविद्यार्थिवृन्दसमुपास्यमानचरणा-ज्ञानप्रभाध्वस्ताऽज्ञानाऽऽवरणनिर्मलमनसः पाण्डित्यपराजितसंस्कृतबद्धरतयः विद्वन्मणयः महाकवयः सुरसरस्वतीकमलानुरागिणः पाठकाश्च

 

 विश्वस्य प्रथमान्तर्जालीयसंस्कृतत्रैमासिकजान्हव्याः द्वात्रिंशदङ्कमिमं तत्र भवतां श्रीमतां सुरभारतीसततसमुपासकानां पण्डितमार्तण्डानां करकमलयोः समुपस्थापयन् नितरां प्रमोदमनुभवामि।

 

प्रारंभकालादेव प्रस्तुतपत्रिकायाः लोकार्पणकार्यक्रमः देशे-विदेशे च तत्रस्थितैः प्रख्यातविद्वद्भिः कृतः। एतत्परम्परायां मधबनीनगरे अपरसमाहर्ताश्रीदुर्गानन्दझामहोदयद्वारा विविधकार्यक्रमव्यस्तेनापि पत्रिकालोकार्पणकृते कृपानुमतिः प्रदत्तास्ति। एतदर्थं तान् प्रति श्रद्धया स्तवीमि।

जान्हव्याः संकलनसम्पादनमुद्रणाधिभारः प्रारंभकालादेव विभिन्नराज्यस्थितानां कतिपयसारस्वतसाधकेषु न्यस्तः तेषां विशेषानुरोधादहं धुरिनियोजितः सोत्साहं सानन्दं तमङ्गीकृतवान्। यतोहि आशैशवादेवसंस्कृतप्रचारप्रसारकार्ये बद्धपरिकरोहम्।

 

वस्तुतः राष्ट्रियान्ताराष्ट्रियानां शतशो ख्यातिलब्धविदुषां साहाय्येनेयं पत्रिका विश्वविद्यालयानुदायोगेन अन्ताराष्ट्रियमानकपत्रिकारूपेणोररीकृतेति मोमुद्यते मे मनःप्रस्तुताङ्के यद्यपि विभिन्न प्रान्तेभ्यः कृतभूरिपरिश्रमाणां पण्डितानां शोधपूर्णाः नानाशास्त्रीयनिबन्धा सम्प्राप्ताः परमोपादेयास्तथापि संस्कृतसाहित्ये चम्पूकाव्यानां परिचयः, उपमालङ्कारस्य सामान्यपरिचयः, कालिदासीयकाव्येषु वक्रोक्तिचिन्तनमित्यादयः विदुषामानन्ददायकाः वर्तन्ते। येषां सारस्वतयज्ञपुरुषाणां शास्त्रीयाः शोधपूर्णाऽऽलेखाः प्रकाशनाय सम्प्रेषिताः अतस्तेभ्यः हार्दिकी कृतज्ञतां प्रकटयति समस्तजाह्नवीपरिवारः

 

जानन्त्येव श्रीमन्तः संस्कृतपत्रिकासंचालनकार्यं तथैव कठिनं यथैव मणिमण्डितव्यालस्य परिष्करणम्। किन्तु कतिपयबद्धपरिकराणामाचार्यणामवलम्बमासाद्य पत्रिका शुक्लपक्षीयाकलेव वर्धते वर्द्धिष्यते चेति मे दृढ़ीयान् विश्वासः। यथा भगवतो पार्वतीजानेः महेश्वरस्य जटातः प्रवहन्ती भगवती जन्हुतनया जाह्नवी त्रेलोक्यं पुनाति मज्जतां मनोनिर्मलं प्रसादयति मुक्तिपथं तथैवेयं जान्हव्यपि पत्रिका सुरभारती समुपासकानां संस्कृतानुरागिणां च मनसि दिव्यसौरभप्रसादं निधत्तामिति वयं कामयामहे।

 

आशासे अवश्यमेव शास्त्ररसिकाः गवेषकाः संस्कृतप्रचार-प्रसारबद्धपरिकराश्च लाभान्विताः भविष्यन्ति अन्ते सकलजाह्नवी परिवारः बद्धकराञ्जलिः समेषां प्राणिनां दीर्घायुष्ट्वलपुष्टिनैरुज्यप्राप्तिकामाय, सुभद्रासहितं साग्रजमनाथनाथं जगन्नाथं प्रार्थयते।

 

श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी

स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा।

निषेव्यपदपङ्कजा विवुधवृन्दमान्याऽमला

समस्तजगतीतले प्रवहतादियं जाह्नवी

विद्वच्चरणचञ्चरीकः

झोपाख्यः सदानन्दः

लखनौरम्, विहारः

महाशिवरात्रिः

 


======================================

प्रकाशकीयम्

डा. बिपिनकुमारझा[2]

यस्याः प्रभावमतुलं भगवाननन्तो,

ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।

सा चण्डिकाऽखिलजगत्परिपालनाय,

नाशाय चाशुभभयस्य मतिं करोतु॥

 

अत्र नास्ति काचिद्विचिकित्सा यत् ज्ञानं समाजविकासार्थं विविधाधिव्याधिनिवारणाय एकं महनीयं साधनमस्ति। तत्र यत्र इह विचित्रचित्रहेत्वाभासादिचाञ्चल्यावस्थापूर्णप्रपंचे मनुजपुत्राः ऐहिकभोगेषु संलिप्ताः सन्दृश्यन्ते, अस्य महत्वमितोऽपि वर्धितं साम्प्रतिके युगे। कालैः सह विकाससोपानानि वर्धितानि। नूतनं दृष्टिकोणमपि समापतत् । अत्र विचारणीयः भवति यत् विकासस्य स्वरूपं सर्वांगीणमस्ति न वा ? यथा- विषसम्पृक्तमधु अपि प्राणघातकं भवति न तु तदमृतम् । अतः रचनात्मकविकासः भवेत्। येन सर्वे आनन्दिताः भवेयुः। विकासार्थमावश्यकं यत् ये नियमाः सन्ति ते आचरणे भवेयुः। आचरणे यावत् न भवति तावत् समाजस्य समुन्नतिः नैव भवितुमर्हति। सन्दर्भेस्मिन् विभिन्न पत्र-पत्रिकादिमाध्यमेन प्रजानां विचारः प्रस्फ़ुटितो जायते। तदाधारीकृत्यैव नूतनदिशा-निर्देशः प्रचष्टे। पत्रिकेयमपि व्यावहारिकी शिक्षा यथा स्यात् तथा प्रयतमाना अस्ति। प्रयत्नः तावत् त्रिविधः-

 

प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।

एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम्।

 

  अस्यां श्रृङ्खलायामेव नूतनाङ्कोऽयं सम्प्रकाशितः। ईश्वरकृपया कार्यमिदं साफ़ल्यं संजायते इति मन्ये। सम्प्रति UGC द्वारा प्रकाशितप्रामाणिकशोधपत्रिकाया: सूची इत्यत्र 41039 क्रमे जाह्नवीपत्रिकाया: क्रम: वर्तते। तत्रापि Impact Factor अपि इयं पत्रिका प्राप्तवतीति एतदर्थमनारतं ये सहायकाः तेभ्यो हार्दान् धन्यवादान् प्रकटीकरोमि| सारस्वतकर्मण्येऽस्मिन् ये महामान्या: सुविज्ञाः पण्डिताः साहाय्येन सनाथीकृतवन्तः तेभ्यः महानुभावेभ्यः प्रणतिपूर्वकं प्रणामाञ्जलिमर्पयामि । अन्येभ्यस्सहायकेभ्यः वाग्व्यापारैः भूयोभूयः धन्यवादान् व्याहृत्य भगवन्तमुपास्यदेवं सम्प्रार्थ्य विस्तरात् विरमामि ।

दुर्जनः सज्जनो भूयात् सज्जनः शान्तिमाप्नुयात्

शान्तो मुच्येत बन्धेभ्यो मुक्तश्चान्यान् विमोचयेत्।

भवदीयः

 

बिपिनकुमारझा

मातृभाषादिवसः

बलाहरस्थ-वेदव्यासपरिसरः, हिमाचलप्रदेशः                                         


======================================

 

 

 

साहित्यानुरागः

======================================


 

Paper Received-   19/01/2018

Paper Published- 22/02/2018

 

Thoughts for Right to Equality in Vedic Tradition

Dhananjay Vasudeo Dwivedi

Assistant Professor, Department of Sanskrit,

[Ranchi College, Ranchi, Jharkhand, Pincode-834008]

 

Key word - Shrimad Bhagvad Gita, Human Rights, United Nations

 

Abstract

The General Assembly of the United Nations (UN) adopted Declaration of Human Rights in 1948. Though the declaration deals with many aspects of rights, special focus was given to the Right to Equality. This type of right might be new concept for the entire world, but by going through Sanskrit Literature, it is loud and clear that Right to Equality is an age old concept for us. Vedas have established the fact that all human being should be treated equally. They direct that all people should share the means of happiness equally. Vedic seers have made it clear that all human beings are son of Mother Earth. If this is the fact, we are left with no other option but to develop the feeling of universal brotherhood. Shrimad Bhagvad Gita directs to seek refuge in the evenness of mind. The Riga Veda asks human beings to move together, speak together, make minds of one accord. It also asks to live together with harmony and fellow feeling. Manu Smriti says that rulers should support all without any discrimination.

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 


Paper Received-   20/01/2018

Paper Published- 22/02/2018

संस्कृतकाव्येषु वक्रोक्तिसौन्दर्यम्

नीलमाधवः प्रधानः

शोधछात्रः, राष्ट्रियसंस्कृतसंस्थानम्, गुरवायूरपरिसरः, केरलम्

*************************************************************************************

प्रमुखशब्दाः-साहित्यशास्त्र, कुन्तकः, षड्सम्प्रदायाः, वक्रोक्तिः

शोधसारः- संस्कृतवाङ्मये विद्यमानेषु सर्वेषु शास्त्रेषु साहित्यशास्त्रस्य अतीवमहत्त्वं वर्तते। साहित्यशास्त्रे तावत् स्वनामधन्याः प्रतिभासम्पन्नाः कवयः  सन्ति। ते सर्वेऽपि साहित्यशास्त्रस्य उत्कर्षता प्रतिपादितवन्तः। साहित्यशास्त्रे षड्सम्प्रदायाः सन्ति। तेषु षड्सम्प्रदायेषु अन्यतमः सम्प्रदायः भवति वक्रोक्तिसम्प्रदायः। वक्रोक्तिसम्प्रदायस्य प्रवक्ता भवति कौन्तकाचार्यः। कुन्तकाचार्येन स्वस्य वक्तोक्तिजीवितमिति पुस्तके वक्रोक्तिविषये सुविस्तारेण चर्चितम्। वक्रोक्तिः इत्यस्य साहित्यशास्त्रे अतीव गूढ़रूपेण प्रयोगः दृश्यते। साहित्यशास्त्रे ये ये कवयः सञ्जाताः ते तावत् स्वस्य काव्ये महाकाव्ये च वक्रोक्तिः इत्यस्य सुस्पष्टरूपेण चर्चां कृतवन्तः। तदेव मया मम शोधपत्रेऽस्मिन् प्रतिपादितम्।

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 

 

 


Paper Received-   07/02/2018

Paper Published- 22/02/2018

ज्योतिषे आजीविकाविचारः

हरिनारायणधरद्विवेदी

सहायकाचार्य,  राष्ट्रियसंस्कृतसंस्थान वेदव्यासपरिसरः (हि.प्र)

 

“ब्रह्मनारदवशिष्ठकश्यपमनुसूर्यशौनकव्यासान् ।

यवनं च्यवनं गर्गं नौमि मुनीन् पराशरप्रमुखान्” ।।

 

अस्मिन् जगति यदा जातकः आगच्छति जन्म वा प्राप्नोति तदा तस्य जीवने कापि चिन्ता न भवति धर्मार्थादि विषयेषु। तत्र धर्मार्थादि विषयाः वर्तन्ते धर्मः,अर्थः,कामः,मोक्षश्चेति। धर्मादिविषये तस्य पितरौ एव चिन्तयन्ति, तस्मात् सः बालकः स्वबाल्यवस्थायां स्वतन्त्रः भवति। शनैः शनैः यदा सः बालः प्रौढतां प्राप्नोति तदा एते विषयाः समक्षं समागच्छन्ति। तदा तस्य चिन्तने व्यहारे च चिन्ताः दृश्यते। एतासु चिन्तासु तस्य मुख्यचिन्ता भवति “आजीविका” इति। 

ज्योतिषमाध्यमेन उद्य़ोगचयने जन्मकुण्डल्याः लग्नस्य महत्वपूर्णं योगदानं भवति। लग्नस्य बलत्वं परमावश्यकं भवति। आत्मकारकः ग्रहः यदा बली भवति तदा जातकः यत्र तत्र भ्रमति , सः उत्तमदिशि कार्यं कृत्वा सफलतां प्राप्नोति। लग्नः,लग्नेशः, सूर्यः, सूर्यराशीशः, चन्द्रः, चन्ग्रराशीशेषु, यावन्ताः ग्रहाः शुभयुक्ताः,शुभदृष्टाः, उच्चस्थाः, स्वक्षेत्री मित्रक्षेत्री वा भवति, जातकस्य कार्यक्षेत्रे तावदाधिक्येन सफलता प्राप्तिः भवति।

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 


 


Paper Received-   19/01/2018

Paper Published- 22/02/2018

ऋतूनां कुसुमाकरः

रामसेवकझाः

प्राध्यापकः,संस्कृत-विभागः, वाटसन+2विद्यालयः,मधुबनी

       भारतवर्षं ऋतुप्रधानं राष्ट्रम् अस्ति सम्पूर्णवर्षे अत्र षड्-ऋतवः भवन्ति तद्यथा- 1.वसन्तः2.ग्रीष्मः3.वर्षा 4.शरदः5.हेमन्तः6.शिशिरश्च। एषु सर्वेषु सर्वे एव ऋतवः रमणीयाः सन्ति किन्तु वसन्तः ऋतुः सर्वोत्कृष्टत्वं भजते तदर्थं ऋतुः अयं ऋतुराजः कथ्यते वसन्तस्य इदं वैशिष्ट्यं दृष्ट्वा भगवता कृष्णेन गीतायां वसन्तः स्वकीयरूपत्वेन वर्णितम्

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः1  ।।

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 

         

 


Paper Received-   27/01/2018

Paper Published- 22/02/2018

 

संस्‍कृतसाहित्‍ये मानवीयमूल्‍यानि

श्रीकृष्ण शर्मा

 शोधछात्रः शिक्षाशास्त्रम्,   राष्ट्रिय-संस्कृत- संस्थानम् , जयपुरपरिसरः|

 

          मूल्‍यानि मानवव्‍यवहारस्‍य निर्धारकतत्‍वानि भवन्ति। मानवजीवनस्‍याधारो तस्‍य मूल्‍यान्‍येव सन्ति। मानवीयमूल्‍यानमाधारे एव मानव: स्‍वप्रगते: सोपानानि प्राप्‍नोति अन्‍ते च पूर्णतां प्राप्‍नोति। मानव: स्‍वानुभवानामाधारे केषाञ्चि‍त् सामान्‍यसिद्धान्‍तानां निर्माणं करोति। ये तस्‍य व्‍यवहारस्‍य पथप्रदर्शका: भवन्ति व्‍यवहारञ्च निर्दिशन्ति। इमे सामान्‍यसिद्धान्‍ता एव 'मानवीयमूल्‍यानि' इत्‍यभिधीयन्‍ते। मूल्‍यानि मानवस्‍य कृते दर्पणस्‍वरूपाणि भवन्ति।

          मूल्‍यमिति पदम् आंग्‍लभाषाया: Value इत्‍याख्‍यस्‍य अनुवादरूपम्। Value इति आंग्‍लेयं पदं लेटिन्भाषाया: Valeri इति धातो: निष्‍पन्‍नम्। यस्‍यार्थ: बलवत्‍वं, शक्तिमत्‍वं च। भारतीयधर्मग्रन्‍थेषु मूल्‍यशब्‍दस्‍य प्रयोग: 'शीलम्' शब्‍दार्थे कृतोऽस्ति। शब्‍दोऽयं न मूल्‍यशब्‍दस्‍य पर्यायोऽपितु तत्‍समवाची शब्‍द:। दर्शनशास्‍त्रे मनुष्‍यस्‍य जीवनं प्रति दृष्टिकोण: 'मूल्‍यम्' इत्‍यभिधीयते। भारतीयदार्श‍निकानां दृष्‍ट्या मोक्ष: भोगश्‍चेति द्वे मूल्‍ये स्‍त:। भोगार्थिनां व्‍यवहार: स्‍वार्थकेन्द्रितो भवति चेत् मोक्षार्थिनां व्‍यवहार: परमार्थकेन्द्रितो भवति।

            धर्मशास्त्रे नैतिकनियमा: मूल्‍यत्‍वेन परिगण्‍यन्ते। संस्‍कृतसाहित्‍ये मानवीयमूल्‍यानि सम्‍यग् रूपेण उपलभ्‍यन्ते। किं बहुना संस्‍कृतसाहित्‍यं मानवीयमूल्‍यानामुपरि एव आधारितं दृश्‍यते।

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 

 

 [                                                                                          

Paper Received-   25/01/2018

Paper Published- 22/02/2018

कालिकापुराण में ब्रह्मपुत्र की उत्पत्ति, ऐतिहासिकता का वर्णन

विवेकशर्मा

सहायकाचार्यः, संस्कृतविभागः हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः,

 धर्मशाला, जिला कांगड़ा, हिमाचलप्रदेशः

 

मुख्य शब्द (KEY WORDS) - पौराणिक ग्रन्थ, भौगोलिकता, प्रामाणिक, कालिका पुराण, ब्रह्मपुत्र, रेणुका माता, परशुराम, पुनर्जीवित, वृषोदक तीर्थ, तिब्बत, कैलाश, लोहित नदी, कोरी कल्पनायें, ऐतिहासिकता, अनुसन्धान ।

सार – भारत की भौगोलिकता का प्रामाणिकता से वर्णन करना पौराणिक वाङ्मय की विशेषता रही है । पुराणों की इसी परम्परा का निर्वाह कालिका पुराण नामक उपपुराण में पूर्ण रूप से किया गया है । कालिका पुराण में परशुराम आख्यान द्वारा ब्रह्मपुत्र की भौगोलिकता का उत्कृष्ट वर्णन प्राप्त होता है । कालिका पुराण में तिब्बत तक ब्रह्मपुत्र की भौगोलिकता का वर्णन किया गया है, जिससे यह बात भी प्रमाणित होती है कि तिब्बत तक हमारे सांस्कृतिक सम्बन्ध थे । भारत में प्रवेश के उपरान्त ब्रह्मपुत्र के सटीक मार्ग को कालिकापुराण में दर्शाया गया है । साथ ही दिवांग और लौहित नदी की भूमिका का प्रतिपदान इसी सन्दर्भ में कालिका पुराण में किया गया है । अतः कालिकापुराण में जो ब्रह्मपुत्र नदी का प्रामाणिक वर्णन किया गया है, उससे उस दुष्प्रचार का निवारण भी स्वयं ही हो जाता है, जिसमें कहा जाता है कि पुराणों में केवल कोरी कल्पनायें की गयी हैं । कई भुगोलविद् ब्रह्मपुत्र के पुरातन मार्ग के ज्ञान हेतु या इतिहास के विद्वान् ब्रह्मपुत्र के सम्बद्ध ऐतिहासिकता को जानने हेतु कालिकापुराण को आदरपूर्ण स्वीकार करते हैं । यह तो स्पष्ट ही है कि जैसी भौगौलिकता का वर्णन कालिकापुराण में हुआ है वह अनुसन्धान के बिना सम्भव ही नहीं है ।

======================================

सम्पूर्णं शोधपत्रं पठतु >>>>>

 

 


Paper Received-   03/01/2018

Paper Published- 22/02/2018

jllw+=&O;k[;k dk rqyukRed v/;;u

मीनाक्षी