ISSN 0976-8645

 

Jahnavi.jpg

वाल्मीकेः समयः

 

कमलेश कमल, गवेषक

स्नातकोत्तर संस्कृत विभाग

पटना विश्वविद्यालय, पटना, बिहार।

 

महर्षिवाल्मीकिः स्वकीयसत्यनिष्ठत्वप्रमाणे प्रचेतसोऽहं दशमः पुत्रो राघावनन्दन1 इति- प्रचेतसत्वेन आत्मानं पर्यचाययत्। अध्यात्मरामायणम्2, स्कन्दपुराणम्, उत्तररामचरितं च एवं प्राचेतसरूपेणैव प्रतिपादयन्ति। स्कन्दपुराणनुसारम्3 प्राक्तने जन्मनि वाल्मीकिस्तम्बनामा वत्सगोत्रो ब्राह्मण आसीत्। कुसङ्गात् परजन्मनि व्याधोऽभवत्। शङ्खमुनेः संसर्गात् रामनामजपेन जन्मान्तरे अग्निशर्मा प्रसिद्धरत्नाकरनामा ब्राह्मणो बभूव। किन्तु व्याधजन्मसंस्कारप्रवाहाद् दुराचारः त्यज्यवत्। तत्पश्चात् एकदा सप्तर्षिसङ्गात् तदुपदेयेन व्यत्यस्ताक्षरपूर्वकम्4 मराइति एकाभ्रमनसाजपन्, ब्रह्म विस्मरन् वाल्मीकान्तर्गतो बभूव। बहोेः कालात् परम् पुनः करुणावरुणालयेषु सप्तर्षिषु समागतेषु तदनुग्रहात् नीहाराद् भास्कर इव, वाल्मीकान् निर्गतः सन् वाल्मीक सम्भवात् वाल्मीकि नामा5 विश्वविश्रुतोऽभवत्। ततो महत् तपस्तपन ब्रह्मर्षिः अस्मिन्नेव जन्मनि प्रचेतसः पुत्रात्वान् प्राचेत समहर्षि रूपेण विख्यातोःऽयूत्।

            ततश्च शोकार्तेन चिन्ताकुलित चित्तेन महर्षिणा किमिदं व्याहृतं मया’’ इत्युद्विग्नमानसेन अभूयत। ततश्च तत्रा प्रकटितो ब्रह्मा प्रोवाच -

 

मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती।

रामस्य चरितं कत्सनं कुरुत्वनृषिसत्तम।।

वृत्तं कथय धीरोस्य यथा ते नारदाच्छ्रुतम्।

रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः।।

वैदेह्याश्चैव यद्क्ृत प्रकाशं यदि वा रहः।

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति।।

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले।

तावद् रामायण कथा लोकेषु प्रचरिष्यति।।

 

एवं संभाष्य अन्तर्हिते ब्रह्मणि प्रहृष्टमना महर्षि-

 

उदार - वृत्तार्थ - पदैर्मनोरमैः

तदास्य रामस्य चकार कीर्तिमान्।

समक्षरैः श्लोकशतैर्यशस्विनो।

यशस्करं काव्यमुदार - दर्शनः।।6

 

एवमेवाभिप्रायः आद्याचरण झा महोदयस्य7 यत् वाल्मीकिः स्वकीयपरिचयं स्वयमेव उत्तरकाण्डे प्रदत्तवान् ‘‘प्राचेतसोऽहं दशमः पुत्रो राघवनन्दनः’’। हे रामचन्द्र! अहं प्रचेतसः वरुणस्य दशमः अस्मि। प्रचेताः तु वशिष्ठपुलस्त्यादेः भ्राता आसीत्। अयं हि सुदीर्घकलापर्यन्तं तपः कृतवान्।  अस्मिन् अवधौ तस्य शरीरोपरि वाल्मीकाः (दीमक इति) भाषायाम्। अच्छादितवन्तः। ब्राह्मणः आज्ञया वरुणः जलवर्षणेन तान् वाल्मीकान् प्रक्षालितवान्। तस्मात् वाल्मीकाद् अयं ऋषिः निर्गतः। तेनास्य नाम ‘‘वाल्मीकिः इति स×जातः। वलमीकाद् भवः जातः इति वाल्मीकिः। इत्थमपि कथ्यते यत् स्वयं ब्रह्मा अस्य नामकरणं ‘‘वाल्मीकिः’’ इति कृतवान्। अत्र ‘‘वाल्मीकि’’ निर्मिते एव ‘‘आनन्द रामायणे’’ सुस्पष्टरूपेणास्य पूर्वजन्मनः वर्तमानजन्मनश्च कथा विद्यते। यथा -

प्रप्रच्छ च वाल्मीकिं सभायां रघुनन्दनः।

रामावतारतः पूर्वं त्वया मव्धरित कृतम्।

कथं ज्ञातं त्वयापूर्व केन त्वामुपदेशितम्।8

अहं पुरा किरातेषु किरातैः सह वर्द्धितः,

मुनीनां, दर्शनादेव शुद्धान्तः करणोऽभवम्।

मुनयो मामुपादि शुर्मत्कृपापूर्णमान साः।

इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम्।

एकाग्रमनसाऽतैव मरेतिजप सर्वथा।

जपन्नेकाभ्रमनसा ब्राह्यं विस्मृतवानहम्।

अहं ते रामनाम्बश्च प्रभावादी दृशोभवम्।

(आनन्दरामायणे राज्यकाण्डे 121, 146, 143, 149)

 

एतेन प्रमाणेनं इदं सिद्धयति यत् त्रोतायुगीनः महर्षिः वाल्मीकिः ब्रह्मतुल्यः त्रिकालज्ञः संजातः।

 

सन्दर्भ सूची

1.         वा0 रामा0 7/96/19

2.         प्रचेतसोऽहं दशमः पुत्रो रघु कुलोद्भव 11/7/7/31

3.         स्कन्दपुराणे वैशाखमाहात्म्ये

4.         इत्युवक्त्वा राम! ते नाम व्यव्यस्ताक्षरपूर्वकम्। एकाभ्रमनसातैवत्मरेति जपसर्वदा’’ अध्य रा0 2,6,80, जहाँ वाल्मीकि भयेव्याध  ते मुनींदु साधु मरा मराजपें लिख सुनि रिषि सातकी। कवितावली।

5.         मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर वाल्मीकात् सम्भवो यस्मात् द्वितीयं जन्म तेऽभवत्।।

6.         वा0 रामायणे 1/2/15-42

7.         आद्याचरण झा- वाल्मीकिरामायणं कम्बरामायणंच, पृ0-6

8.         आनन्दरामायणे राज्यकाण्डे पूर्वार्द्ध  श्लोक-36।