ISSN 0976-8645

 


 

 

Jahnavi.jpg

माघस्य काव्यात्मतत्त्वम्

डॉ0 सुमीत कुमार मंडन

 

उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।।

          उपमालङ्कारस्य वैशिष्ट्यं कालिदासे, अर्थगौरवत्वं भारवेः पदलालित्य दण्डिवति परमाऽर्थगौरवलालित्यमिति त्रयोगुणोपेताः माघकवय इत्याख्यायन्तैः। ननु उपमापरः कालिदासोऽस्ति। अर्थगौरवधरः खलु भारविः पदलालित्ये च प्रशस्तः दण्डिः कविः, माघस्तु उपमाधारकः अर्थगौरवकारकः पदलालित्यस्थापकश्चेति त्रिगुणसत्त्वात्प्रशस्यः।

प्रथमं हि तावदुपमैव विचारणामर्हति। अत्र चोत्कृष्टानामुपमानां प्राचुर्यमुपलभ्यते। हरे, प्रतिविशेषणमुपमाप्रायबद्धम्, हरेस्तस्य च द्युति अतिप्रदर्शनाय तस्मै प्रादाय माघेन अकूपारस्योपमा। यथा-

स तत्कार्तस्वरभास्वराम्बरः कठोरतारधिपलाछनन्नछविः

विदिद्युते वाड्वजातवेदसः शिखाभिराष्लिष्ट इवाम्भसांनिधिः।।

 

अर्थोऽयम् यत् तप्तं पुटपाशोधित सुवर्णमिव देदीप्यमानः। पीताम्बरः, पूर्णेन्दोलाञ्छन छविरिव सः हरिः भगवान् श्रीकृष्णः श्यामवर्ण वडवानलस्य पीतवर्णज्वालाभिर्व्याप्तः समुद्र इव चकास्ति। गौराङ्गे नारदः कृतपीतापवीतो विद्युत्परीतः शरदि घन इव चकाषे।’’ यथा सत्कविः शब्दमर्थमुभयमादत्ते तथैव-

 

नालम्बते दैष्टिकतां न निशीदति पौरुषे।

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।।

यथा पुष्यन्ति सपरिभावाः स्थायभावम्।

तथैवान्ये सहायकाः विजिगीशुं भूभृतम्।।

स्थायिनोऽर्थे प्रवर्तन्ते भावाः सरिणो यथा।

 

यथा अल्पवयस्का बालिका मातरमनुगच्छति,

तथैव प्रातःकालिकी सन्ध्या रजनिमन्वेति।

‘‘अनुपतति विरावैः पत्रिणां व्याहरतन्त,

रजनिमचिरजाता पूर्वसन्ध्या सुतेव।।’’           इत्यनेन।

 

शिशुपालवधमहाकाव्ये रमणीयोपमानां प्राचुर्यम्। सप्रदोपमो हरिर्वाऽवाग्निनुल्यीयच सुवर्णाम्बरम्। सुवर्णसिंहासनोपविष्टस्य धनस्यामस्य शोभा दिव्यजम्बूवृक्षफलाऽवस्थान मनोहरस्य सुमेरुशृङ्गस्य शोभामधिचकार -

सुमेरुशृङ्गस्य तदा तदासनम्।।’’

 

          दुष्टबुद्धिमनुष्यः सान्त्वनावचनैः न साम्यति सान्त्ववादावुदीप्तस्य घृतस्य तोयविन्दव इव दीपका एव न शान्तिप्रदाः। अनियन्त्रितं लमन्यत्, अन्यदस्तिनीत्यनुसारि बलम्। सम्भवति कथमनयोः समानाधिकारण्यम्। तदेवं निरर्गल बलशालितयाऽस्याभिः पदे पदे शास्त्राचिन्ता न कार्या, शत्रुर्हन्तव्य एवम्

                            

‘‘अन्यदुच्छृङ् खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।

समानाधिकारण्यं हि तेजस्तिमिरयोः कुतः।।’’

अपि च-

 

जगत्पवित्रैरपि तन्नपादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः।

यतो वृहत् पार्वण चन्द्रयाह तस्यातवत्रं विभराम्बभूवे।।

 

          अत्र खलु भगवान् मरीचिमाली भगवन्तं हरि जगदर्च्यविचार्य जगत्पवित्रोरपि स्वीयैः किरणैः स्प्रष्टुं नार्हति, प्रत्युत हरेः पूर्णेन्दुदीप्तिनिभातपत्रं दध्रे। अपर हे विश्वम्भर! दुष्टैः कंसादिभिरूपप्लुतं जगदिदम्भवानेव त्रातुं समर्थो नान्यः। यतो हि - मार्तण्डं विना रात्रेर्घनमन्धकारं गगनतलादपसारितंु कः समर्थः -

 

वृहत्सहायः कार्यान्तं क्षोदीयानमपि गच्छति।5

महासहायवान् क्षुद्रतरोऽपि कार्यान्तमुपैति।

माघकृतमहाकाव्ये पदलालित्यं पदे पदे समुपलभ्यते।

 

उदाहृ्यन्ते च तत्र केचन श्लोकाः-

‘‘स्थगयन्त्यम्ः शमितचातकार्तस्वर।

जलदास्तडित्तुलितकान्तकार्तस्वराः।।

जगतीरिह स्फुरितचाहचामीकराः

सवितः क्वचित् कपिशयन्ति चामीकराः।।6

अर्थात् अस्मिन् रैवतकपर्वते क्वचित् जलप्रदानेन चातकदीनवचनं शाम्यन्, सौवर्णमिव तडिरिर्मेघः भूभागान् आच्छादयति अथवा भास्वन्तः सूर्यकिरणाः सुवर्णमयं भूभागं पिङ्ग्लवर्ण करोति। अत्र च महाकविना पर्वतवर्णने जलदानां विषेशणेषु तलितानि पदानि न्यस्तानि।

‘‘मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधितमेधया।

मधुकराग्नया मुहुरून्मदध्वनिभूतानिभृताक्षरमुज्जगे।।’’7

‘‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्।

मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोहरैः।।‘‘8

 

वसन्ते विकसिताः, माधवीलताः, तासां पुष्परागं पायं पायं मधुकराग्नाः उच्चेर्गीतं गायन्ति। चलितया विदधे कलमेखलाकलकलाऽलकलील दृशात्यया।।’’ वदनस्य सौगन्ध्य लोभेन परिभ्रमता भ्रमरेण तस्माद् भयादन्यत्र नायिका गतवती। चिकुराकुला सुनयना  काचिदन्या योषित मेखलायाः कोलाहलं कृतवती। इत्थं सुस्पष्टम्भवति यन्माघकाव्ये त्रयो गुणाः सन्ति। अतः साधूक्तम् -

‘‘माघे सन्ति त्रायोगुणः’’

 

          अथ च महाकवेर्माघस्य श्रुतिविषयकं ज्ञानम्प्रशंसनीयमस्ति। एतस्य प्रातः माल्विकग्निहोत्रावर्णनमुत्कृष्टम्। अग्निहोत्रिणां प्रत्येकेषु सदनेषु बह्येर्ज्वाला प्रदीप्ता। उदात्तानुदात्तस्वरेतादि स्वराणामुच्चारणेन पुरोहिताः ब्राह्मणः हविरग्नौ प्रक्षिपन्ति। अवन्ततु सर्वव्यापक सिद्धान्तोऽस्ति यत् स्वरपरिवर्तनेनार्थः परिवर्तते। माघकाव्यस्येकादश सर्गस्येकचतुर्विंशतितमे श्लोके कर्वेवैदिकस्वराणां वैशिष्ट्यम्प्रकटयति। तद्यथा -

                  

‘‘प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरब्धैः सामधेनीरधीत्य।

कृतगुरुर्दरितौघध्वंसमध्वर्युवय्यैर्हुतमयम्रपलीढे साधु सन्नायमग्नः।।’’9

         

इदमुक्तम्प्रागेव यन्महाकविरूपमायां निपुणः भारविस्तु अर्थगौरवे, दण्डिनः खलु पदलालित्ये पर महाकविर्माघः त्रिषु गुणेषु विशिष्टः। अत्रेदमाशब्दः उपलक्षणमात्रम्। उपमेत्यत्र सादृश्यमलकमलटारमभिव्यक्ति। कालिदासकृतिषु औपम्यमूलकालटाराणामधिक्यमिति भावः। भारविमहाकवेः कृतिषु अर्थगौरवस्य प्राचुर्यम्। दण्डिनः कृतिषु पदालालित्यबाहुल्यम्। माघे एषु त्रिषु गुणेषु समन्वयस्समुपलभ्यते। महाकविमाघकाव्ये अपूर्वा उपमाः विद्यन्ते। यथा पस्पशाह्निकमहाभाष्य विना न भवति व्याकरणविद्या तथैव स्पर्श विना, गुप्तरमन्तरेण राजनीतेर्ज्ञानमशोभमानम्। तद्यथा-

                  

‘‘अनुत्सूत्रपदन्यासा सदडुत्ति सन्न्बिन्धनां

शब्दविद्येव नो भाति राजनीतिरपम्सपशा।।’’10

‘‘सर्वकार्यशरीरेषु मुक्त्वापस्कन्धपकम्।

सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्।।’’11

          यथा बौद्धानां मतेषु पस्कन्धं विहाय नास्ति कचन आत्मा, तथैव राज्ञांकृते पचागनतिरिध्य नास्ति कोऽपि मन्त्राः। जलादेव नीलवर्णायाः मुक्तलताया अलङ्कृतस्य भगवतः श्रीकृष्णास्य वक्षः स्थलस्याकाशगग्या समत्वप्रदर्शने महाकविनाऽपूर्वकौशलत्वम्प्रादर्श।  तद्यथा-

 

‘‘उभौ च यदि व्याम्नि पृथक्प्रवाहावकाशगग पयसः पतेताम्।।

 

तेनोपमीयते तमालनी-

मामुक्तालतमस्य वक्षः।।12

 

          माघस्योपमायां महत् स्वाभाविकत्वमुपलभ्यते। भगवान् श्रीकृष्णः पिंग्लवर्णाः जटाः धारयन्तं शरदिन्दुकिरणवच्छुभ्र तुषारभूमौ उत्पन्नाम् पिंग्लवर्णान् लतासमूहान् धारयन्तं हिमालयमिव नारदं ददर्श। यथा-

‘‘दधानमम्भेरूहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम्।

विपाकपिगस्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव।।’’13

 

महाकवेर्माघस्यार्थगाम्भीर्यविषयकं पाण्डित्यमुर्दीयते। तद्यथा-

 

‘‘प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता।

अवलम्बनाय दिनभर्त्तुरभून्न परिश्यन्तः करसहस्रमपि।।’’14

 

अर्थात् विधो चन्द्रमसि भाग्ये वा प्रतिकूले सति बहुसाधनता विफलत्वं याति। शीघ्रमस्तगामिनः सूर्यकिरणाः सहायकाः न भवन्ति। तात्पर्यार्थोऽयम् यच्चन्द्रमसि षष्ठवर्त्तिनि भवति, कार्ये हानिर्भवति यथा सिद्धान्तति ज्योतिःशास्त्रम्।

सन्दर्भ सूची

 

1.      शिशुपालवधम् - 2/13।

2.      शिशुपालवधम् - 2/65

3.      शिशुपालवधम् - 2/73

4.      शिशुपालवधम् - 2/83

5.      शिशुपालवधम् - 2/100

6.      शिशुपालवधम् - 4/24

7.      शिशुपालवधम् - 6/20

8.      शिशुपालवधम् - 6/2

9.      शिशुपालवधम् - 11/24

10.    शिशुपालवधम् - 2/112

11.    शिशुपालवधम् - 2/28

12.    शिशुपालवधम् - 3/8

13.    शिशुपालवधम् - 1/5

14.    शिशुपालवधम् - 9/6