ISSN 0976-8645

 

Jahnavi.jpg

 

प्राचीनभारते अध्यापकवैविध्यम्

डा. एन्. लता

वरिष्ठप्रवाचिका, षिक्षाविभागः

राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः

 

अध्यापकाः विविधप्रकारकाः भवन्तितेषाम् अध्यवसायं तु अध्यापनमेव इति निष्चप्रचम्अध्यापनं नाम पाठनमेवअध्यापकः पाठकः, गुरुः, षिक्षकः, वेदानामुपदेष्टा वा भवति इति आधुनिककालेऽपि अस्मभिः परिगण्यतेपरन्तु प्राचीनकाले अध्यापकः त्रिधा व्यवहृतःगुरुः, आचार्यः, उपाध्यायः इति नाम्ना परिकीर्तितष्चासीत्एकैकमधिकृत्य किंचिदधः वैषिष्ट्यं प्रस्तूयते-

1. गुरुः -

गुरुः यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति

उपनीय ददद्वेदमाचार्य उदाहृतः।।

अर्थात् गुरुः षिष्यम् उपनीय वेदज्ञानं प्रददाति इतिएवं -

निषेकादीनि कर्माणि यः करोति यथाविधि

सम्भावयति ान्नेन विप्रो गुरुरुच्यते।।

अर्थात् यः निषेकादीनि गर्भाधानमित्यादीनि कर्माणि करोति अन्नेनसंवर्धयति सः विप्रः गुरुः इति व्यवहियतेएवं व्यासमहर्षिणापि उक्तम्-

प्रभुः षरीरप्रभव ्रियकृत्प्राणदो गुरुः

हितानामुपदेष्टाप्रत्यक्षं दैवतं पिता।।

अर्थात् यः प्रियकृत् तथाप्राणदाता भवति सः गुरुः षब्देनाभिधीयते

2. आचार्यः -

तद् यस्मात् सः आचार्यः वेदानुवचनाच्च इति आचार्यस्य व्यवहारः भवति एवमेव आचार्यः श्रेष्ठः गुरूणाम् इत्यपि निगद्यते

आचार्यः आचारं ग्राह्यति आचिनोत्यर्थान् आचिनोति बुद्धिमिति वा

अर्थात् यः आचारस्य षिक्षां ददाति सः आचार्यः प्रचक्षतेको नाम आचारः -

सत्यं वदधर्मं चरस्वाध्यान्मा प्रमदःमातृदेवो भवपितृदेव ........... नो इतराणि इत्यादीनि उपदेषवाक्यानि सन्ति

उपनीय तु यः षिष्यं वेदमध्यापयेद् द्विजः

संकल्प सरहस्यं तमाचार्यं प्रचक्षते।।

अर्थात् यः विप्रः स्वषिष्यम् उपनीय कल्परहस्यसहितां वेदषाखां सर्वामध्यापयति सः आचार्यः इति कथ्यतेकल्पो नाम यज्ञविद्यारहस्यं उपनिषद्

यस्तूपनीय व्रतोपदेषं कृत्वा वेदमध्यापयोत्तमाचार्यं विद्यात इति

एवमत्र माता, पिता, आचार्यष्च परमगुरुरूपेण अंगीकृतंवसिष्ठसंहितयाम् उपनयनान्तरं वेदमध्यापयेत् आचार्यःएवमेव-

उपनीय गुरुः षिष्यं षिक्षयेत्क्रौंचमादितः

आचारमग्निकार्यं सन्ध्योपासनमेव च।।

इति मनुस्मृतौ गुरुसम्बन्धिष्लेकाः उत्तमरूपेण लिखिताः दृष्यन्तेअपिचाणक्येनोक्तम्-

गुरुरग्निर्द्विजातीना वर्णानां ब्राह्मणो गुरुः

पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः इति

एवम् आचार्यमनुना उक्तम्-

उपाध्यायान्दषाचार्यः आचार्याणं षतं पिता

सहस्रं तु पितृन ाता गौरवेणातिरिच्यते।। इति

एवमाचार्यस्य महत् वैषिष्ट्यं भवतिआचार्यस्तु वेदपारगः विप्राणां ज्ञानतो ज्यैष्ठ्यम्आचार्यो ब्रह्मणो मूर्त्तिः

आचारं ग्राहयति इति आचार्यःमनुषास्त्रे अपि उक्तं यत्-आचार्यः षिष्याय वेदषास्त्रं, कल्पं, रहस्यषास्त्रं, उपनिषदः अध्यापयति इति

3. उपाध्यायः -

एकदेषमुपाध्यायःवेदस्य एकं भागम् अध्यापयेत्सः उपाध्यायः इति परिकीर्त्यतेषुल्काधारेण सः समग्रं वेदषास्त्रं वेदांगं वा अध्यापयेत्जीवनार्थंअयं षिष्यात् किंचित् स्वीकुर्यात्-

अल्प वा बहु वा यस्य श्रुतस्य उपकरोति यः

तथापि इह गुरु िद्यात् श्रुतोपक्रियया तथा।।

एवम् -

एकदेषं तु वेदस्य वेदांगन्यपि वा पुनः

योऽध्यापयति वृत्त्यर्थमुपाध्यायःउच्यते।।

यास्कः निरुक्ते वैदिकषिक्षणपद्धतिमधिकृत्य इत्थम् असूचयत् यत् अध्यापकः तादृषषिष्याय पाठयेत् यादृषाः मेधाविनः तपस्विनः, श्रद्धालवःभवन्तिएतेब्रह्मचारिरूपेण अध्यापकस्य गृहे एव अध्ययनं कुर्वन्ति स्मयास्कः अवैयाकरणेभ्यः पाठयितुं वैमुख्यं प्रादर्षयत् यतः पदानामर्थज्ञानार्थं व्याकरणषास्त्रास्य महद्वैषिष्ट्यं वर्तते इति

अतः प्राचीनसमये गुरवः षिष्याणां चयनं नियमानुसारं कुर्वन्तः वेदमध्यापयन्ति स्म