ISSN 0976-8645

 

Jahnavi.jpg

 

अविद्याविरोधे सप्तानुपपत्तयः

अरविन्दमोहन रतूड़ी

शोधच्छात्रः अद्वैतवेदान्तविभागः

(श्रीला.ब.शा.रा.सं.विद्यापीठ)

 

अद्वैतवेदान्तिस्वीकृताविद्यावादस्य वैष्णववेदान्तिभिः प्रबलं खण्डनं कृतमस्ति। यतो हि, अविद्यावादखण्डने अद्वैतमतस्य आधारभित्तिरेवाऽस्थिरा सम्पद्यते। वस्तुतोऽद्वैतब्रह्मवादस्थापनाऽनिर्वचनीयाविद्यासिद्धान्तस्वीकार एव सम्भवति। एकाद्वैतब्रह्मवादे प्रपंचव्याख्यानमेकमात्रमविद्यामाध्यमेनैव विस्तारयितुं योग्यम्। यैराचार्यैरद्वैताविद्यावादस्य खण्डनमारब्धम्, तेषु श्रीरामानुजाचार्यस्य नाम प्रमुखमस्ति। श्रीरामानुजाचार्येणाद्वैताभिमताविद्यावादे सप्तानुपपत्तयः प्रदर्शिताः वर्तन्ते। ताः सप्तविद्या अनुपपत्तयः एवं रूपाः सन्ति।

1. अविद्यास्वरूपानुपपत्तिः 2. प्रमाणानुपपत्तिः 3. आश्रयानुपपत्तिः 4. तिरोधानानुपपत्तिः 5. अनिर्वचनीयत्वानुपपत्तिः 6. निर्वर्तकानुपपत्तिः 7. निवृत्त्यानुपपत्तिः इति।

1. अविद्यास्वरूपानुपपत्तिः-

आचार्यश्रीरामानुजेन श्रीभाष्ये उक्तम् - यदद्वैतवेदान्तप्रतिपादिताविद्यायाः स्वरूपं न सिध्यति। श्रीरामानुजाचार्यः पृच्छति यदविद्यादोषः सत्यो मिथ्या वा? अद्वैतब्रह्मणा सह यद्यविद्यापि सत्यैवास्ति तदाऽद्वैतवादोऽपि द्वैतवाद एव प्रविशेत्। अविद्याया मिथ्यात्वे मिथ्यामूलं गवेषणीयम्, अतोऽन्यदोषस्य कल्पना कर्त्तव्या भवति, एवं तत्र तत्रेति स्यादेवानवस्थानमिति। किन्तु श्रीरामानुजोक्तस्वरूपानुपपत्तिः समीचीना नास्ति, यतोऽद्वैतिनोऽविद्या सत्येति न वदन्ति, सत्यं तु एकमात्रं ब्रह्मैव। अविद्यालीकार्थे मिथ्येत्यपि न भणितम्। अतो द्वैतवादापत्तिर्न वाऽनवस्थादूषणम्। अविद्या स्वयमनादि। अतो दोषभूतगवेषणं मुधैव। अविद्यास्वरूपं सदसद्विलक्षणमनिर्वचनीयमस्ति, अतः क्व स्वरूपानुपपत्तिदूषणमास्पदं लभेत।

2. प्रमाणानुपपत्तिः-

आचार्यरामानुजः कथयति यद्भावरूपाविद्यायाम् किमपि प्रमाणं नास्ति। अहमज्ञः त्वदुक्तमर्थं न जानामि प्रत्यक्षं प्रमाणमद्वैतिनः कथयन्ति। श्रीरामानुजाचार्यमतेनेदं प्रत्यक्षप्रमाणं नास्ति भावरूपाविद्याविषये प्रमाणम् अपितु प्रमाणैरेवं विधाऽभावरूपाऽविद्यैव सिध्यति। अहमज्ञ एवम्विधमानसप्रत्यक्षे श्रीरामानुृजो ज्ञानप्रागभावप्रत्यक्षं मन्यते। ज्ञानप्रागभावस्त्वभावरूपोऽस्ति। अतोऽविद्यास्त्यभावरूपा। अद्वैतवेदान्तिन अहमज्ञः इत्याद्यज्ञानप्रत्यक्षस्थलेऽज्ञानं भावरूपमिति वदन्ति। उक्तोदाहरणे विज्ञाता स्वाज्ञतां साक्षात्सम्बन्धेन प्रकाशयति। अद्वैतमतेऽभावरूपमिति वदन्ति। उक्तोदाहरणे विज्ञाता स्वाज्ञतां साक्षात्सम्बन्धेन प्रकाशयति। अद्वैतमतेऽभावप्रत्यक्षं साक्षात्सम्बन्धेन न जायते। अभावेन सहेन्द्रियाणां साक्षाद् योगो न भवति। घटशून्यभूतलं अभावप्रत्यक्षार्थं घटशून्यभूतलेन सह चक्षुरादियोगो जायते। अद्वैतवेदान्तमते अनुपलब्धिरूपपरोक्षप्रमाणेनाभावप्रत्यक्षं भवति। पूर्वोक्तदृष्टान्तेनाज्ञानस्य साक्षादपरोक्षं जायते। अतोऽज्ञानं भावरूपमस्ति, नाभावरूपम्। अहमज्ञः इत्यादिस्थलेषु एकान्तेन ज्ञानाभावोऽस्ति इति प्रतिवादिनो वक्तुं न शक्नुवन्ति, यतो हि, अहमज्ञः इत्यज्ञानबोधोऽपि कयाऽपि अपेक्षया ज्ञानमेवास्ति। अतोऽस्यां दशायामज्ञानस्य ज्ञानाभाव इत्ययमर्थो नितान्तमसंगतः।

विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्त-स्वविषयावरण- स्वनिवर्त्य-स्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नदीपशिखावत्। अयमस्यार्थः - यदा घटोऽयमिति ज्ञानं ज्ञायते प्रमाणभूतं, तेन प्रमाणज्ञानेन, अहं घटं न जानामि इत्थंभूतघटविषयकाज्ञानरूपिभाववस्तुनिवृत्तिर्जायते। घटज्ञानेन घटज्ञानप्रागभावस्य निवृत्तिर्भवति। अतः उक्तानुमाने प्रागभावेत्यतिरिक्तविशेषणं लक्षणघटकतयोपात्तम्। घटज्ञानात्पूर्वं घटमहं न जानामि इत्थं घटे ज्ञानावरणं भवति। तदज्ञानावरणस्य निवृत्तिर्घटज्ञानेन क्रियते, यतो घटविषयकमज्ञानं, घटज्ञानेन विवर्त्यमस्ति। एवमनुमाने प्रकाशितार्थप्रकाशकत्वात्् इति हेतुसूक्तः।

घटज्ञानेन अप्रकाशितार्थघटस्य प्रकाशोऽपि भवति। अतस्तदप्रकाशितार्थप्रकाशकमस्ति। येन प्रकारेणान्धकारे प्रदीपोद्योतनेन घटाद्यप्रकाशितार्थप्रकाशोऽनुभूयतेऽन्धकारविलयोऽपि भवति, तथैव घटविषयकप्रमाणज्ञानेनापि घटः प्रकाश्यते। यथा च प्रदीपप्रकाशेन घटावरणान्धकारोऽनुपपद्यते, तद्वदेव ज्ञानेनापि चाज्ञानवरणं दूरीक्रियते। अद्वैतवेदान्तानुसारेणाज्ञानं भावरूपमस्ति। तस्य भावपदार्थस्य निवर्तकः प्रदीपोऽस्ति, तया दिशा घटविषयकप्रमाणज्ञानमपि घटविषयकमज्ञानं दूरयति। यतोहि घटविषयकाज्ञानवशात्, घटोऽज्ञातज्ञानेन प्रकाशते, अतः घटविषयकाज्ञानेन घट आवृतोऽस्तीति मन्तव्यं भवति। अनेनानुमानेनेदमायातं यज्ज्ञानेनाज्ञानं निवार्यते। घटज्ञानेन घटविषयकाज्ञानस्य निवृत्तिर्भवति। तद्घटविषयकमज्ञानमभावरूपं नास्ति, यस्तद् घटाप्रकाशनायावरणस्य कृत्यमनुतिष्ठति।

आवरणकृत्यमभावरूपमज्ञानं नानुतिष्ठति। येन तु प्रकारेणान्धकारावृतो घटश्च चक्षुरिन्द्रियद्वारकज्ञानविषयो न सम्पद्यते, तथैव प्रकृतेऽपि बोद्धव्यम्। अद्वैतिनोऽन्धकारं भावरूपं भवन्ति। अत उक्तानुभावे अन्धकारे प्रदीपः इति दृष्टान्तस्य संगतिरस्ति। ये दार्शनिका अन्धकारं प्रकाशाभावरूपं कथयन्ति, तेषां कृतेऽनुमानमिदम् अथाप्यं दृष्टान्तोऽज्ञानस्य भावरूपत्वसाधने नास्ति समर्थः। अविद्याया भावत्वसिद्धत्वे चित्सुखाचार्येण चित्सुखीग्रन्थे, एवं मूलमेवानुमानं निरूपितम्। अमलानन्दस्वामिना कल्पतरौ, अप्पयदीक्षितेन कल्पतरुपरिमले भावरूपत्वसिद्धयेऽनुमानं विहितम्।

अद्वैतसिद्धिकारेणाऽपि प्रमा प्रमाभावातिरिक्तस्य अनादिनिवर्तिका, कार्यत्वात्, घटवत् इत्यनुमानं पठितम्। अयमस्यार्थः- यथा घट उत्पन्नद्रव्यत्वादस्तिकं कार्यम्। तद्वदेव प्रमापि कार्यम्। घटवदेव प्रमापि प्रागभावव्यतिरिक्तानादिभावरूपवस्तु, अज्ञाननिवर्तिका। अद्वैतवेदान्तिभिरज्ञानस्य भावरूपत्वभ्रमोपादानत्वानादित्वज्ञानविरोधित्वादिसाधनायानेकान्यनुमानानि स्वस्वग्रन्थे निरूपितानि। इत्थमेवाद्वैतिभिर्भावरूपाज्ञानप्रामाण्याय, श्रुतिप्रमाणार्थापत्ति-प्रमाणान्यपि पुरस्कृतानि। आचार्यश्रीमधुसूदनसरस्वतीमहाभागेनाद्वैतसिद्धेरज्ञानवादे, श्रुत्युपपत्तिपरिच्छेदे अनृतेन प्रत्यूढाः, नीहारेण प्रावृताः इत्यनेकानि श्रुतिवाक्योद्धरणानि पुरस्कृत्य भावरूपाविद्यायां श्रुतिप्रमाणानि निगदितानि।

3. आश्रयानुपपत्तिः-

आचार्यरामानुजमतमस्ति यद् ब्रह्म-अविद्याश्रयं भवितुं नार्हति, यतस्तज्ज्ञानस्वरूपमस्ति। ज्ञानाज्ञाने परस्परविरोधिभावे। यत्र ज्ञानमस्ति, तत्राज्ञानमवस्थातुं न शक्नोति। ज्ञानोदयेनाज्ञानस्य निवृत्तिर्भवति। यदि च ब्रह्माज्ञानश्रयमिति मन्यते, तदाज्ञानेन ब्रह्मणो ज्ञानरूपं नश्येत्।

अद्वैतवेदान्ते आचार्यवाचस्पतिमिश्रमण्डनमिश्रादयो वेदान्तिनोऽज्ञानस्याश्रयो जीव इति मन्यन्ते। श्रीवाचस्पतिमिश्रप्रभृतयो बुध्यन्ते यत् ब्रह्मविषयकाज्ञानस्याश्रयो जीव एव भवति। अतोऽज्ञानस्याश्रयो जीवो विषयश्च ब्रह्म विद्यते। प्रतिपाद्याक्षेपोऽस्ति यज्जीवेश्वरौ परभावितत्त्वे स्तः। अविद्यावशादेव जीवत्वेश्वरत्वे जायते। अतश्च जीवभावेश्वरभावात्पूर्वमेवाविद्या वा स्थितिर्मन्तव्या भवति, एवं च तदविद्याश्रयोऽपि पूर्ववर्तितत्त्वमपेक्ष्यते। जीवोऽविद्याश्रय इति मतेऽविद्या जीवापेक्षा मन्तव्या, तथा जीवोऽपि स्वजीवत्त्वायाविद्यामपेक्षेत। इत्थं स्यादन्योन्याश्रयो दोषः। अत्र वाचस्पतिमतं बीजांकुरन्यायेन अन्योन्याश्रयोऽनवस्था वा न भवेत्।

प्रकाशात्मयतिमतेनाविद्याश्रयो ब्रह्मैव विद्यते विशुद्ध्याम्। संक्षेपशारीरककारेणापि चाविद्या ब्रह्माश्रितेति मतम्। तदनुरोधेन पूर्वविद्धविद्याश्रयः पश्चाद्भाविजीवो न शक्नोति भवितुम्।

अतो जीवोऽविद्याश्रय इति न मन्तव्यम्। ब्रह्मणि ज्ञानस्य नाशो न सम्भाव्यते। श्रीरामानुजमतमस्ति यज्ज्ञानेनाज्ञानं निवर्तते, अतोऽज्ञानाश्रयो ज्ञानरूपं ब्रह्म न स्यादेव। अत्राद्वैतसिद्धिकारेणोक्तम् यद्विशुद्धचेतनो नास्त्यज्ञानविरोधी। अन्तःकरणप्रतिफलितस्तु चेतनोऽज्ञानविरोधी। अन्तःकरणप्रतिफलितं चैतन्यमस्ति, तन्मतेऽज्ञानाश्रयो नांगीक्रियते।

अज्ञानाश्रयं यथा ब्रह्म, तद्वदेव विषयोऽपि ब्रह्मैव भवति, ब्रह्मास्त्यज्ञानविषयस्तथापि ब्रह्मस्वरूपं वस्तुरूपेणावृत्तं न जायते। विरोधित्वेऽपि सति यथा जले वह्निस्थितिस्तद्वदेव ब्रह्मण्यविद्यासद्भावेऽपि ब्रह्मप्रकाशो न नश्यति। ब्रह्मविषयकाज्ञानानुभवो जीवस्य जायतेऽतश्चाज्ञानस्य विषयोऽपि ब्रह्मैव विद्यते। ब्रह्मविषयकज्ञानेनाविद्या निवर्तते। ज्ञानाज्ञानयोः समानविषयताऽस्ति। अतोऽपि ब्रह्मैवाविद्याविषय इति सिध्यति।

4. तिरोधनुपपत्तिः-

अस्तिप्रकाशस्वरूपं ब्रह्म प्रकाशस्वरूपब्रह्मप्रकाशस्य केन प्रकारेण तिरोधानं स्यात्, अविद्यापि। प्रकाशात्मकब्रह्मप्रकाशतिरोधानस्यायमर्थो भवेत् प्रकाशनाश इति। अद्वैतवादिनो वदन्ति प्रकाशतिरोधानस्यार्थः प्रकाशनाशो न भवति। प्रकाशस्यास्फुरणं हि प्रकाशतिरोधानम्। घनीभूतेन मेघेन प्रकाशतिरोधनं जायते। सूर्यप्रकाशतिरोधानेन सूर्यप्रकाशनाशो न जायते। मेघावरणनिवृत्तौ पुनः सूर्यप्रकाशस्फुरणं च जायते। अत्राप्यविद्यावरणेन ब्रह्मप्रकाशो जीवस्य तिरोहिता भवति। ज्ञानोदयेनाविद्यानिवृत्तौ पुनः प्रकाशः परिस्फुटो विद्योतते, स्वप्रकाशे ब्रह्मणि कल्पितावरणं सम्भवति। ब्रह्म न प्रकाशते बोधमिमं जीवोऽनुभवति।

5. अनिर्वचनीयत्वानुपपत्तिः-

आचार्यश्रीरामानुजेनाविद्यावादेऽनिर्वचनीयत्वानुपपत्तिरपि प्रदर्शिता। तेनोक्तं यद्विश्वस्मिन् द्वे श्रेणी स्तः। एका सदपरासदिति। सदसन्मध्ये तदतिरिक्ता वान्या नास्ति काचिच्छ्रेणिस्तृतीया। अस्यान्दशायाम् अद्वैतवादिनः केन तु प्रमाणेन तृतीयस्या अन्यस्याः श्रेण्याः नामग्रहणं विदधति? नास्त्यनिर्वचनीयवस्तुसिद्धिसम्भवः। तत्कथनमस्ति सर्वा च प्रतीतिः सदसदाकारा। अद्वैतवादमतेनानिर्वचनीयासिद्धिरसंभवाऽसंगता च नास्ति। अद्वैतानुसारेण परं सद्वस्तु ब्रह्मास्ति। परमसद्वस्तु गगनकुसुमाद्यलीकमस्ति। एकस्य नास्ति बोधोऽपरस्य नास्ति प्रतीतिः।

शुक्तिरुपत्यादिभ्रमस्थलीयवस्तु प्रतीयते, अतो नास्त्यलीकम्। बाधितमस्ति तेन ब्रह्मवत्परमसदपि नास्ति। अत एव सदसद्भ्यां विलक्षणमनिर्वचनीयम् अस्ति। अद्वैतसिद्धिकारेण सद्विलक्षणत्वेऽपि चासद्विलक्षणत्वेन यन्मिश्रितरूपेण सदसद्भ्यामपि विलक्षणमस्ति, तदेवानिर्वचनीयमित्युक्तम्। यत्सद्रूपेण तथोभयरूपेणापि विचारकोटिं न स्पृशति तदेवानिर्वचनीयम्। अद्वैतसिद्धिकारेणाद्वैतसिद्धौ अनिर्वचनीयत्वसाधकमनुमानमपि विचारितम्। अतः श्रीरामानुजाचार्येण कृताऽनिर्वचनीयत्वानुपपत्तिरसंगता प्रतिभाति।

6. निर्वर्तकानुपपत्तिः-

अद्वैतमतेन निर्विशेषब्रह्मविज्ञानेनैवाविद्यानिवृत्तिः स्यात्। आचार्यश्रीरामानुजमतेन निर्विशेषं ब्रह्म नास्ति प्रमाणसिद्धम्, अतोऽज्ञाननिर्वर्तकोपपत्तिर्नास्ति सम्भवा। वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् इत्यादिरूपेण श्रुतिप्रमाणमपि सविशेषमेव ब्रह्म साधयति। अतः तत्त्वमसि अहं ब्रह्मास्मि इत्यादिवेदान्तवाक्यान्यपि सविशेषब्रह्मबोधकानि भवेयुः। अत्राद्वैतवादिनामिदमुत्तरम्, उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैः परीक्षणे सति निर्गुणब्रह्मसिद्धिर्नास्त्यसम्भवा। अत्रास्ति सर्ववेदान्ततात्पर्यम्। निर्विशेषबोधे ज्ञाननिवर्तक इति सिद्धम्।

7. निवृत्त्यानुपपत्तिः-

निर्विशेषं ब्रह्म साक्षात्कारेणैवाविद्यानिवृत्तिः प्रतिपादिता, किन्तु श्रीरामानुजाचार्यः वदति यदद्वैतिनामिदं कथनमसंगतमस्ति। श्रीरामानुजमते प्रपंचः सत्योऽस्ति। जागतिकवस्तून्यर्थक्रियाकारीणि सन्ति। अतोऽपि ज्ञानेन प्रपंचनिवृत्तिः सम्भवा न भवति। तथैव दिशा ज्ञानेनाविद्यानिवृत्तिरपि न सम्भवति, यतोऽद्वैतमतेन निर्विशेषब्रह्मज्ञानेनैव, जीवब्रह्मैकत्वविज्ञानेनैवाविद्यानिवृत्तिः स्यात्। जीवब्रह्मैकत्वविज्ञानं श्रीरामानुजमते मिथ्याज्ञानमस्ति। मिथ्याज्ञानेनाविद्यानिवृत्तिः कथं भवेत्? अस्यामवस्थायां मुक्तिरप्यसम्भवा। अद्वैतिनामिदं मतं यत् जागतिकवस्तूनामर्थक्रियाकारित्वेऽपि ब्रह्मण इव नास्ति यथार्थत्वम्, अतस्तेषां तथाऽविद्यायाश्च निवृत्तिरशक्या न भवति। उक्ता चाविद्या विज्ञाननाश्या। शुक्तिज्ञानोदयेन यथा शुक्तिरजतनिवृत्तिर्जायते, तथैव ज्ञानोदयेनाविद्यानिवृत्तिरपि सम्भवत्येव। अस्त्यविज्ञानादिस्तथापि विनाश्यापि। विनाशिनः पदार्थस्य बाधः सर्वाभिमतो विद्यते एव।

इत्थमद्वैताविद्यावादविरोधे सप्तानुपपत्तयः श्रीरामानुजाचार्येणोत्थापिताः। यासामुत्तरं समाधानं चास्माभिरद्वैतवादमतमाश्रित्य कृतमस्ति। अनिर्वचनीयाविद्यास्वीकृतिद्वारा अद्वैतवेदान्त इति प्रतिपादयितुं वांछति, यत्किंचिदस्मत्समक्षम् उत्पत्तिविनाशशालि विद्यते तत् कदाचिन्नश्यत्येव। नित्यं तु एकमात्रमस्ति परं ब्रह्मैव। अन्ये सर्वेऽनित्या अत एव मिथ्या अपि। अनिर्वचनीयपदेनालीकवन्मिथ्यार्थो न भासते। प्रतीतिसमर्थः किम्वार्थक्रियासमर्थ एवात्र मिथ्यापदेन बोध्यते।

अद्वैतदर्शनेऽविद्या, मायाऽज्ञानपदबोध्यापि गम्यते। अविद्या-मायाज्ञानेति पदानि पर्यायवाचकानि भवन्ति। अस्मद्विचारेण विश्वसृष्टिव्याख्यायां ब्रह्मविषयकावरणशक्तिः, अविद्यापदेन, जगत्सृष्टिविक्षेपशक्तिश्च मायापदेन बोधनीयेति। व्यवहारकालिकभ्रमस्थलेषु, शुक्तिविषयकाज्ञानस्य, तथा तदुपादानकरजतस्य प्रतीतये च आवरणविक्षेपशक्तिद्वयसमन्विताज्ञानपदं प्रयोक्तव्यमिति।

 

 

 

 

 

 

 

 

 

 

 

 

 

सन्दर्भग्रन्थसूची

 

1. श्रीभाष्यम् - श्रीरामानुजाचार्यः, सम्पा॰ श्रीवीरराघवाचार्यः महादेशिकः, प्रकाशन् श्रीरङ्गं श्रीमद् अण्डवन उत्तमूर आश्रम, 1997

2. अद्वैतसिद्धिः - श्रीमधुसूदनसरस्वती, सम्पा॰ स्वामीयोगीन्द्रानन्दः, षड्दर्शन- प्रकाशनप्रतिष्ठानम्, वाराणसी, 1986

3. खण्डनखण्डखाद्यम् - श्रीहर्षः, सम्पा॰ आचार्यब्रह्मदत्तद्विवेदी, सम्पूर्णानन्दसंस्कृत- विश्वविद्यालयः, वाराणसी, वि॰ स॰ 2047

4. तत्त्वप्रदीपिका-चित्सुखी - श्रीचित्सुखाचार्यः, सम्पा॰ डॉ॰ गजाननशास्त्रीमुसलगाँवकरः, चौखम्बा-संस्कृतप्रतिष्ठानम्, वाराणसी, वि॰ सं॰ 2044

5. दर्शनसर्वस्वम् - श्रीमत्स्वामीचैतन्यभारती, सम्पा॰ डॉ॰ सुधांशुशेखरशास्त्री, भारतीयभवनम् सी॰ के॰ 34/39 लाहौरी, वाराणसी, 1990

6. ब्रह्मसूत्रम् (शाङ्करभाष्यम्)- श्रीबादरायणः, हि॰ व्या॰ श्रीसत्यानन्दसरस्वती, चौखम्भा संस्कृतप्रतिष्ठानम्, दिल्ली, 2007

7. विवेकचूडामणिः - श्रीशङ्कराचार्यः, गीताप्रेस गोरखपुरम्, 1995

8. संक्षेपशारीरिकम् - श्रीमुनिसर्वज्ञात्मा, सम्पा॰ स्वामीयोगीन्द्रानन्दः, षड्दर्शन- प्रकाशनप्रतिष्ठानम्, वाराणसी, 1987

9. वेदान्तपरिभाषा - श्रीधर्मराजाध्वरीन्द्रः, सम्पा. श्रीरामशास्त्रीमुसलगाँवकरः, चौखम्भाविद्याभवनम्, वाराणसी, 1983

10. वेदान्तकल्पतरुः - श्रीमदप्पयदीक्षितः, काशीहिन्दूविश्वविद्यालयः संस्कृत- ग्रन्थमाला, वाराणसी, 1973

11. वेदान्तपरिमलः - श्रीमदप्पयदीक्षितः, काशीहिन्दूविश्वविद्यालयः संस्कृत- ग्रन्थमाला, वाराणसी, 1973