ISSN 0976-8645

 

Jahnavi.jpg

 

हायकू-काव्यानि

डॉ.नारायणदाशः

 

मनो मन्दिरे

परमपूज्यो ननु

जगतो नाथ।1

लक्ष्मीस्ते पत्नी

प्रतिपालयति नु

घोषयात्रायाम्।2

ऋषिहृदये

परिस्फुरति मन्त्रः

प्रणवोपमः।।3।।

अवतरति

रात्रेः वक्षोदेशात्

स्रस्ता शाटिका।।4।।

कुण्ठितः कविः

मन्त्रबद्धोजगरः

स्ववैभवेन।।5।।

मन एव नु

कारणं बन्धमोक्षयोः

जडेषु ऋषेः।।6।।

मनो घोटकः

स्वैरं शिथिलयति

इन्द्रियबल्गाः।।7।।

आकाशे सूर्यः

ताम्यति जलजाक्षीं

गृहविपिने।।8।।

चिरं चकास्ति

बालस्य पत्रनौका

हृदयतीरे।।9।।

कविकर्मणि

छिन्नं मनो मे लग्नं

किं भोजनेन।।10।।

त्रिधाबद्धा हि

सप्तदशपदीयं

व्यञ्जनागर्भा।।11।।