ISSN 0976-8645

 

Jahnavi.jpg

संस्कृताश्रितायां भारतीयसंस्कृतौ विश्वभ्रातृत्वम्

तन्मयकुमारभट्टाचार्यः

 

वर्णानामर्थसङ्घानां रसानां छन्दसामपि।

मङ्गलानां कर्तारौ वन्दे वाणीविनाकौ।।

यो देवो अग्नौ यो अप्सु यो विश्वं भुवनमाविवेश।

औषधीषु यो वनस्पतिषु तस्मै देवाय नमोनमः।

 

का नाम संस्कृतिरिति जिज्ञासायां- संस्क्रियते मनः अनया इति -संस्कृतिः- इत्युत्तरं स्यात्। भारते भवा संस्कृतिर्भारतीया संस्कृतिः। भरत्येष प्रजाः सर्वास्ततो भरत उच्यते। भरत एव भारतम्। भरतानां समूहो भारतम्। प्रशस्ता उपलब्धिरभिव्यक्तिश्च संस्कृतिपदेनाभिधातुं शक्यते। एतेन तस्याः सम्बन्धो मानवस्य शरीरेण प्राणैः, मनसा, बुद्ध्या अवश्यमेवास्ति इत्यवगम्यते। संस्कृतिश्चित्तभ्रममपहरति, चित्तमधिकृत्य निर्मिता काचिद् विशिष्टा भावधारा भवति। सा चेयं विश्ववारा यजुर्वेदे- सा संस्कृतिर्विश्ववारा - इति पदेनोक्ता। ऐतरेयब्राह्मणे - आत्मसंस्कृतिर्वाव शिल्पानि। एतैर्यजमान आत्मानं संस्कुरुते इति। अतः संस्कृतौ मानवमनोऽनुरूपं मानवजीवनस्य कलाया व्यक्तित्वस्य विकाशो भवति। अनया संस्कृत्या एव प्रत्येकं राष्ट्रस्य स्वतन्त्रास्तित्वं निरूप्यते। यद्यपि संस्कृतेः सम्बन्धः साक्षान्मानवतया सह भवति, तथापि जाति-धर्म-देश-कालादिभिर्भेदैः संस्कृतिरपि विभिन्ना वर्तते। अस्यां संस्कृतौ लोको मानवबुद्धेराध्यात्मिकभावनायाः सौन्दर्यभावनाया धर्मशीलयोश्चापि विस्तारं कुरुते। सर्वोत्तमाया मानवतावादोपलब्धेरभिव्यक्तेश्चाधारो भवत्यस्माकं श्रुतिस्मृतिपुराणकाव्यनाटकादिवाङ्मयमेव। तत्रोपदिष्टा विधिनिषेधादिनिर्देशाः सम्यक् चेष्टारूपेणाङ्गीक्रियते। संक्षेपतो यस्य तत्त्वस्य माध्यमेन मानवता आधिभौतिकीम्, आधिदैविकीम्, आध्यात्मिकञ्च वैशिष्ट्यसन्ततिं सम्प्राप्नोति, तदेव तत्त्वं संस्कृतिपदवाच्यं भवति। भारतीया संस्कृतिराचारविचारप्रधाना परिलक्ष्यते। विशुद्धैराचारैर्विशुद्धा विचाराः प्रादुर्भवन्ति। ये संस्कृतिसम्पोषणे सहायका भवन्ति दोषादिशोधनक्षमा क्रियाऽपि संस्कृतिशब्देन वक्तुं शक्यते, या केनचित् स्थूलपदार्थेन सूक्ष्मतत्त्वाधिगमायाधिक्रियते। एतेन मानवस्य मानवतायाः संस्कारिका क्रिया भवति संस्कृतिः। वस्तुत एतादृशी भारतीयसंस्कृतिर्मानवसंस्कृतिरूपेण विकाशं प्राप्तवती। एतस्याः संस्कृतेः समुद्भावका वैदिका ऋषय आसन्, यैस्तावत् धर्मस्य, परमसत्यस्य वेदमन्त्राणाञ्च साक्षात्कारः कृतः। साक्षात्कृतधर्ममन्त्राणामृषीणां सकाशाद् उपदेशपरम्परया श्रुतर्षिभिर्निधिरयं सम्प्राप्तः। श्रुतर्षयः समस्तं ब्राह्मणारण्यकवाङ्मयं प्रकाशितवन्तः। एवमेवोपनिषत्पुराणरामायणमहाभारतस्मृतिसाहित्यकाव्येतिहासविज्ञानादीनि वाङ्मयानि भारतीयसंस्कृतिं समृद्धामकुर्वन्। मानवमनीषायाश्चरमोत्कर्षः संस्कृतौ अस्यां दरीदृश्यते। मानवमनसः अस्याः संस्कारसम्पन्नतायाः शुद्धेर्वा अनेके उपाया निरूपिताः संस्कृतवाङ्मये। ते सर्वे एव संस्कृतेरङ्गानि। ततस्तेषां संस्कृतिरिति सामूहिकं नाम सार्थकम्। संस्कृताश्रया इत्यस्य कोऽभिप्राय। संस्कृतमाश्रयो यस्याः सा संस्कृताश्रया। संक्षेपेणेदं वक्तुं शक्यते यदस्माकं संस्कृतिः सामान्यतः समस्त एव वाङ्मये, विशेषतश्चेयं संस्कृतिः निरुक्तेषु वेद-स्मृति-पुराण-रामायण-महाभारतादिषु प्रकटितस्वरूपा प्रकाशिततत्त्वा वर्तते। एवमेतस्याः स्वरूपं निर्णेतुमेतदाधारभूतस्य संस्कृतवाङ्मयस्य परिचयो गभीराध्ययनं चिन्तनञ्च सर्वथोपेक्षितम्। विविधस्यास्य वाङ्मयस्य प्रतिपाद्यविमर्षणेनैवास्माकं संस्कृतेराधारभूततत्त्वानामवबोधः कर्तुं शक्यः। वेदपरवर्तिन ऋषयो व्याकरणादिवेदाङ्गानां प्रवर्तका आसन्। मन्त्रद्रष्टृभिः ऋषिभिः कर्मज्ञानयोराधानं कृतम्। श्रुतर्षिभिर्वैदिकधर्मो बहुजनबोधगम्यः कृतः। तदीया संस्कृतिर्यज्ञसंस्थारूपेण प्रकाशिताभूत्। तत्पश्चात् उपनिषदां विचारप्रधाना तर्कपद्धतिः मोक्षपुरुषार्थस्य नवीनं मार्गमुद्घाटितवती। अस्याश्चरमपरिणतिर्दर्शनशास्त्राणां विविधशाखारूपेण प्रतिफलिता सञ्जाता।

पुराणसंस्कृतिर्वेदानां समन्वितसंस्कृतिमुच्चतमविकाशशिखरं सम्प्रापितवती। स्मृतिसंस्कृतिर्नीतिनिर्धारणं कृतवती। लोकप्रियेषु आदर्शाख्यानोपाख्यानेषु आश्रितमुदात्तचरितानां राजपुरुषादीनां जीवनादर्शं काव्यमयकलेवरे संयोज्य महर्षिवाल्मीकिना रामायणस्य, व्यासेन महाभारतस्य रचनया परम्परानुगता सांस्कृतिकधारा युगानुरूपा प्रवर्तिता। अनयोः ग्रन्थयोर्धर्मस्य मर्यादायाश्च लोकमङ्गलकारी सन्देशः सन्निहितः। जैनबौद्धधर्मयोरपि भारतीयसंस्कृतेरुन्नयनेऽविस्मरणीयमासीत् किञ्चिदवदानम्। एवं समग्राया एव भारतीयसंस्कृतेर्व्यापकतत्त्वमस्ति - सत्यं शिवं सुन्दरम् चेति। दर्शनेषु सत्यस्वरूपम्, नीतिशास्त्रे शिवस्वरूपम्, कलाक्षेत्रे सुन्दरस्वरूपं दृश्यते। एषां त्रयाणां मूलतत्त्वानां समाहार एव संस्कृतिः, यया मानवताया हितं कल्याणञ्चानारतं प्रवर्तते। मुख्यतः संस्कृतेराधारराचारः, सभ्यतायाश्चाधारो विचारः। आचारैः संस्कृतेर्विचारैश्च सभ्यताया उद्गमोऽभूत्। ज्ञानस्य यत् धाराद्वयमुपलभ्यते- अनुभवजन्यं बुद्धिजन्यञ्च, तत्रानुभवजन्यं ज्ञानं संस्कृतेः, बुद्धिजन्यञ्च ज्ञानं सभ्यताया आधारो वर्तते। एतेनानुभवजन्यज्ञानस्य नित्यत्वात् संस्कृतिर्नित्या, बुद्धिजन्यज्ञानस्य परिवर्तनशीलत्वात् सभ्यताऽपि परिवर्तनशीला भवति। संस्कृतिर्जनसमुदायेन सम्बद्धा, सभ्यता व्यक्तिसम्बन्धाऽवभासते। समष्टिधिया आचारो बहिरङ्गरूपेण विचारश्चान्तरङ्गरूपेण संस्कृतिसमुद्भावनाय प्रभवति। सेयं भारतीयसंस्कृतिः सर्वतोऽपि वरीयसी अस्तीति सर्वसम्मतम्। अत्र हि मानवतायाः चरमा संस्कृतिश्चित्रिता। अभिवादनशीलमयी संस्कृतिः कीर्तिता। विश्वसभ्यतायां परमविस्मयावहास्माकीनेयं भारतीयसंस्कृतिः। विश्वेतिहासे बहवः प्राचीनसभ्यताः (ग्रीस्-रोमक-व्याविलन्-मिशर-महाचीनादयः) सम्प्रति ध्वस्ताः सत्यः विस्मृतेरतलान्तसागरे निमज्जिताः सन्ति। भारतीयसंस्कृतिरद्यापि बहुबाधातिक्रमणं कुर्वती आत्मशक्तेः प्राबल्यादमरा वर्तते। इदमेकं वैज्ञानिकं सत्यं यत्- यस्याः पृथिव्यामस्ति प्रयोजनं तदेव जीवति। प्रयोजनाभावे प्रकृतिनियमेनैव तन्म्रियते। विश्वसभायां भारतस्य प्राथमिकोऽन्तिमश्च परिचयस्तस्य संस्कृत्या राजनैतिकार्थनैतिकपरिचयेन वा नैव। भारतीयसंस्कृतिरिदानीमपि प्रवहन्ती राजते तत्र कारणं तस्याः सांस्कृतिकवैशिष्ट्यम्। समस्तमानवजातेः अभ्युददायका निःश्रेयससाधका ये सद्गुणाः सन्ति, तेषां स्वरूपं तल्लाभाः तद्ग्रहणौचित्यं संस्कृतवाङ्मये यथा विस्तरेण वर्णिताः तथान्यत्र कुत्रापि। संस्कृतवाङ्मयमिदमिमां भारतीयां संस्कृतिं पुष्णाति। अस्याः संस्कृतेः विनाशः मानवतायाः विनाश एव। अनया संस्कृत्या भारतस्य विश्वेऽस्मिन् महत्त्वमक्षुण्णमस्ति इत्यत्र संस्कृतेरस्याः महत्त्वमवश्यम् स्वीकार्यम्। संस्कृतभाषा एव अस्याः संस्कृतेः पोषिका, धारिका, वाहिका च। एत एवोच्यते- भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। अनया संस्कृत्या भारतीया मनीषिणः जगद्गुरवोऽभूवन् अघोषयंश्च - एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः। अस्याः संस्कृतेः प्रमुखतत्त्वानि धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः। अस्या उदारता एतेनैव प्रकटीक्रियते यत्-

यावद्भ्रियेत जठरं तावत्स्वत्वं हि देहिनाम्।

अधिकं योऽभिमन्येत स्तेनो दण्डमर्हति।

उदरपूर्तेरधिकसङ्ग्रही चौरः दण्डनीयश्च। अस्याः संस्कृतेः प्रभावेणैव भारतं जगद्गुरुपदे समासीनमासीत्। सा सर्वासां संस्कृतीनां मूर्ध्नि विराजते, विश्वस्य कापि संस्कृतिः भारतीयसंस्कृतिमतिशेते। भारतीयसंस्कृतिः विश्वान् जनान् उपदिशति- सत्यमेव जयते नानृतम्, सर्वं सत्ये प्रतिष्ठितम्, सत्येन समः कश्चिद्धर्मो, सत्यं कण्ठस्य भूषणम्, सर्वस्य जगतो मूलं सत्यमेव निगद्यते, अश्वमेधसहस्राद्धि सत्यमेवावशिष्यते, हि सत्यात् परं तपः, ब्रह्मैव सत्यं सत्यमेव ब्रह्म, ब्रह्म सत्यम्, सत्यं वद, सत्यान्न प्रमदितव्यम्, इत्यादीनाम् आधारशिलानामुपरि भारतीयसंस्कृतिः संस्थापिता वर्तते। भारतीयसंस्कृतेरन्यद्वैशिष्ट्यं तावत् तस्या देवपरायणता विद्यते। तथा हि भारतीयप्रगमनस्य प्रायः सर्वाणि क्षेत्राणि देवपराणि सन्ति। एकस्मात् पुरुषात् ब्रह्मणो वा जगतः सृष्टिं मत्वा दार्शनिकपद्धत्या तद् ब्रह्माभिज्ञाय मानवजीवनस्य सर्वोच्चमुद्देश्यं मुक्तिरितिसम्भावितम्। वैदिकदर्शनानुसारेण तदेकमेव ब्रह्म जगत्यस्मिन् सर्वत्र व्याप्तम्। तदर्थं भारतीयाः प्रवृत्तयः सामान्यतो देवपराः सञ्जाताः। भारतीयास्तु देववाणीमश्रावयन्। सर्वं वस्तुजातं देवेभ्यः समर्पणीयम्, भूतयज्ञे सर्वेषां प्राणिनां दिव्यस्वरूपं हृदि धारयन्तस्तेभ्यो भोजनार्पणम्, अतिथियज्ञे देवरूपमेवातिथिं सम्मान्य तं सत्कृतवन्तश्च। अतिथिदेवो भव - इत्यस्ति भारतीयसंस्कृतेः भूषणम् भारतीयानां शिल्पकलासाहित्यादिप्रवृत्तयः सामान्यतो देवपरा आसन् इति निःसन्दिग्धमेव। भारतस्येमामेव देवपरायणतामाश्रित्य सर्वजीवैक्यं सुप्रतिष्ठितम्, वसुधैव कुटुम्बकमिति भावना प्रादुर्भूता च। भारतीयसंस्कृतौ धर्मपदस्यातिव्यापकाङ्गने प्रायः सर्वेऽपि नियमा धर्मे समावेशिता यैर्व्यक्तेरभ्युदयेन सह समष्टेराधिभौतिकाध्यात्मिकोत्कर्षाः सम्भाविताः। जीवनस्य प्रथमश्वासतोऽन्तिमश्वासपर्यन्तं प्रतिक्षणं मानवेन कथं व्यवहर्तव्यमिति धर्मो बोधयति। अनया संस्कृत्या मानवो धर्मेण नियम्यते। धर्मस्यैतन्नियमनं मानवं दासीकृत्य तद्विकासे बाधको भवति। धर्मो मानवसभ्यतायाः कृते सांस्कृतिकोत्तराधिकारोरूपो निधिर्भवति। धर्मस्यास्य निदर्शनेन मानवस्य सत्यानुभवः सर्वोच्चं विकसति। भारतीयसंस्कृतौ प्रायस्त एव सिद्धान्ता गृहीता येषामनुभूतिः समाजाग्रणीनां महाजनानां सत्यप्रयोगे समजायत। संस्कृत्यामस्यां निदर्शितं यन्मानवः संस्कारैः स्वयोग्यतां कथं वर्धयेत्, स्वोत्कर्षं कथं विदध्यात्, सामाजिकैः सह कथं व्यवहरेयुः, सत्त्वविकाशाय कीदृशं भोज्यपेयादिकमुपयुज्येत, कीदृशे स्थाने निवसेत्, कथं वा शरीरशुद्धिर्विधेया, को व्यापारः सेवनीयः, किं परित्याज्यम्, के श्रेष्ठनियमाः, के उच्चादर्शाः इति इमे विषयाः भारतीयसंस्कृतेरङ्गानि सन्ति। ईदृशी धर्मपरता भारतीयसंस्कृतेरनुपमविशेषता। अस्याः संस्कृतेरेव प्रादुर्भूता विश्वकल्याणपरा इमा मानवीयाः पुण्यमय्यः प्रवृत्तयः। सर्वेषां सुखस्य कामना भारतीयसंस्कृतेरनुपममवदानम्। संस्कृतौ अस्याम् उत्कृष्टतरा सा भावना सम्प्रतिष्ठिता यथा- स्वार्थो यस्य परार्थ एव नृणामग्रणीः, एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये, सिद्धान्तान् इमान् निधार्य भारतीया मनीषिणः आत्महिताय तादृशानि वस्तूनि स्वल्पं भुक्तवन्तो येषामधिकोपयोगेन अपरे कष्टमनुभवेयुः। अयं सिद्धान्तादर्शो वैदिकजैनबौद्धसंस्कृतिष्वपि समानं प्रतिष्ठापितः। संस्कृत्यानया सिद्धान्तितं यत् - मा कञ्चिद् दुःखाकुरुत। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग् भवेत्।। कामये दुःखतप्तानां प्राणिनामार्त्तिनाशनम्। दुर्लभः पुरुषो लोके सर्वभूतदयापरः ।इति। लोककल्याण-कर्तृत्वमेव परमं कारणं माहात्म्यस्य - इत्युत्तममेव वैशिष्ट्यं भारतीयसंस्कृतेः। लोककल्याणं नाम प्रायशस्त्यागेन, आत्मसुखनिरपेक्षतया, श्रमेण, सेवाधर्मेण, योग्यताधानेन संसाध्यम्। लोककल्याणवृत्त्या हि देवर्षिणां ब्राह्मणाचार्याणां ज्यैष्ठ्यं परमं पदञ्च प्रमाणितम्। तद् यथा-

एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम्।

योऽसं विभज्य भृत्येभ्यः को नृशंसतरः ततः।

भक्ष्यं पेयमयो लेह्यं यच्चान्यत् स्वादु भोजनम्।

प्रेक्ष्यवाणेषु योऽस्नीयात् नृशंसमिति तं वदेत्।

अन्यान्येतादृशानि वाक्यानि-

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा नरः।

अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिरः।।

विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः।

परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः।।

एवमस्त्यत्र भारतीयसंस्कृतौ समतादृष्टिः। भारतीयसंस्कृतेः प्रायः सर्वेषु क्षेत्रेषु भूमा विलसति। उपनिषद्युक्तम्- यो वै भूमा तत् सुखं नाल्पे सुखमस्ति। भूमैव सुखम्। उपनिषद्येवमपि उक्तम्- ईशावास्यमिदं सर्वं यत्किञ्चज्जगत्यां जगत्। अन्यच्च- आत्मवत् सर्वभूतेषु यः पश्यति पण्डितः। इत्येतैरादर्शैरेव समस्तविश्वजीवनमपि आनन्दमयं भवेत्। मानवजीवने समतोपलब्धिरपि सर्वाधिकं महत्त्वपूर्णं स्थानमधिकरोति। समतेयमपि भारतीयसंस्कृतेः परमा शिक्षा। समतयानया मानवोऽत्र पशुपक्षिणः प्रति उदारतां स्नेहञ्च व्यतरत्। सर्वेषु प्राणिषु सद्व्यवहारम् अकरोत्। मानवोऽत्र सर्वेषां सुखं कामयते स्म अनया संस्कृत्या प्रेरितस्सन्। अत्रैव मानवः सदैव सर्वान् सर्वत्र समभावेन - समः शत्रुषु मित्रेषु पण्डिताः समदर्शिनः, शुनि चैव श्वपाके पण्डिताः समदर्शिनः- इत्यादिवाक्यैः सर्वत्रात्मानं समष्टिरूपेण पश्यन् सद्व्यवहारं कर्तुं कटिबद्धो भूत्वा विश्वमाह्वयति। सम्पूर्णं विश्वं मम कुटुम्बमित्यस्ति वैश्विकभावनायाः आधारः। भावनेयं विश्वमानवे भ्रातृत्वं जनयति। यत् पिण्डे तत् ब्रह्माण्डे - अस्यायमभिप्रायो यत् व्यष्टौ यत् विद्यते तदेव समष्टौ वर्तते। भारतीयसंस्कृतौ सर्वदैव इदं विश्वभ्रातृत्वं समुच्चकण्ठैः घोषितम्। संस्कृतवाङ्मये सर्वत्र विश्वबन्धुत्वस्थापनं, सौभ्रातृत्वं, विश्वकल्याणञ्च कीर्त्तितमस्माकं पूर्वजैः। तद्यथा-

शृण्वन्तु विश्वे अमृतस्य पुत्राः, ये धामानि दिव्यानि तस्थुः।

अत्र ऋषिकण्ठेन विश्वे जनाः अमृतस्य पुत्रा इति गीता, पापिनः वा काफेर् (अविश्वासिनः)इति। तन्माता पृथिवी तत् पिता द्यौः, द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्, माता भूमिः पुत्रोऽहं पृथिव्याः, नो भद्राः क्रतवो यन्तु विश्वतः, एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा, द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा, माता मे पार्वती देवी पिता देवो महेश्वरः। बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम्।।

आभिः सूक्तिभिः ज्ञायते यत्- वयं सर्वे एकस्य विश्वपरिवारस्य सदस्याः स्मः। माता पृथिवी द्यौश्चास्माकं पिता अस्ति। विश्वस्थाः सर्वे जना मम सहोदराः सन्ति। सर्वेषु आत्मदर्शनं सर्वेषां हृदये स्थितस्य आत्मनः स्वस्मिन् दर्शनम् अयमेव विश्वबन्धुत्वस्य दृढाधारो भवति। विश्वभ्रातृत्वभावनायां भारतीयसंस्कृतेः प्रश्नातीतः सहयोगः कथं वर्तते, तदत्रोल्लिख्यते - मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे मित्रस्य चक्षुषा समीक्षामहे। अत्र सर्वभूतेषु मित्रदृष्टिभावस्य समर्थनं प्राप्यते। सर्वभूतेषु मैत्रीभावो हि अत्र निर्धारकं तत्त्वमस्ति। समग्रवसुधां प्रति कुटुम्बभावनायाश्चरमो विकासः सकलप्राणिसुखकामनायां विश्वभ्रातृत्वभावनायां प्रतिष्ठितो दरीदृश्यते संस्कृतवाङ्मये। तद् यथा -

जीविते यस्मिन् जीवन्ति सर्वे संसारवासिनः।

सफलं जीवितं तस्य आत्मार्थे को जीवति।।

पुनरन्यत्-

यदा कुरुते भावं सर्वभूतेष्वमङ्गलम्।

समदृष्टेस्तदा पुंसः सर्वाः सुखमयाः दिशः।।

अत्र विश्वबन्धुत्वभावनैवास्माकं जीवनलक्ष्यं भवेदिति घोषितम्।

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।

सर्वभूतस्थितं यो मां भजत्वेकत्वमास्थितः।

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुनः। इमे गीतोपदेशाः सर्वभूतेषु विश्वभ्रातृत्वं सञ्चारयन्ति। विशालेऽस्मिन् भारतीयसंस्कृतिप्राङ्गणे जाति-धर्म-वर्ण-लिङ्ग-निर्विशेषं विश्वे मानवाः समवेताः सन्ति इति दृश्यते। अत्रेदं वेदवाक्यं - यत्र विश्वं भवत्येकनीडम्- साफल्यं लभते, यथार्थं प्रतीयते। अस्माकमस्यां संस्कृतौ विश्वभ्रातृत्वभावना सर्वत्र स्वतः निःसृता अस्ति इति संस्कृतवाङ्मयस्य सामान्यपर्यालोचनया ज्ञायते। तद् यथा रामायणे- अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम। तथा - सर्वेषु हि धर्मात्मा वर्णानां कुरुते दयाम्। मनुनोक्तम्- ममायं स्मृतिग्रन्थो मानवधर्मशास्त्रमिति - मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते, इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः - इति। भागवते एकस्य श्लोकस्योल्लेखो वर्तते, यत्र दुःखतप्तानां विश्ववासिनां दुःखेन वयं कथं सुखिनः स्याम इति व्यथा प्रकटिताऽस्ति-

कामयेऽहं गतिमीश्वरात्परामष्टर्द्धियुक्तामपुनर्भवं वा।

आर्तिं प्रपद्येऽखिल दुःखभाजामन्तः स्थितो येन भवन्त्यदुःखाः।।

अन्यस्मिन् श्लोकेन राज्ञा रन्तिदेवेन कृता याचनाऽप्यत्रोल्लेखनीया-

त्वहं कामये राज्यं स्वर्गं पुनर्भवम्।

कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्।।

इति संसारस्य सर्वजीवानां कल्याणं संस्कृतवाङ्मयस्य परमं वैशिष्ट्यम्। तद् यथा - सर्वेषां मङ्गलं भूयात् सर्वे सन्तु निरामयाः। पापानि सर्वजगताञ्च शमं नयाशु। उत्पातपाकजनिताञ्च महोपसर्गान्। विश्वार्त्तिहारिणि लोकानां वरदा भव। हरसि भीतिमशेषजन्तोः इति। सर्वप्राणिषु व्यापकः एक एव परमात्मा। वर्ण-जाति-धर्म-देशादिभिः स्वतन्त्राः सन्तोऽपि सर्वे मानवाः समानाः। परमेश्वरस्य पुत्राः सर्वे, केवलं चिन्ताभेदकारणात् मानवोऽयमेकस्मात् मानुषात् भिन्नो स्यात्। तदुक्तमस्मदृषिभिर्यथा- जीवो ब्रह्मैव नापरः, सर्वं खल्विदं ब्रह्म, एकं रूपं बहुधा यः करोति, ममैवांशो जीवलोको जीवभूतः सनातनः, यस्मिन् सर्वाणि भूतन्यात्मैवाभूद्विजानतः, तत्र को मोहः कः शोक एकत्वमनुपश्यतः, एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा, अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः, आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन, सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्, एकमेवाद्वितीयम्, एकं सद्विप्रा बहुधा वदन्ति, एकं सन्तं बहुधा कल्पयन्ति, एकं बीजं बहुधा शक्तियोगात्, एकं ज्योतिर्बहुधा विभाति, एकं बहूनां यो विदधाति कामान्, एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति, देवताया एक आत्मा बहुधा स्तूयते, एकैवाहं जगत्तत्र द्वितीया का ममापरा, नृणामेको गम्यः, एक एव प्रभुरद्वितीयः, एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च, सर्वभूतात्मके तात जगन्नाथे जगन्मये, परमात्मनि गोविन्दे मित्रामित्र कथा कुतः, यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः। सर्वे देवा एकस्यैव परब्रह्मणो विकाशाः- एवं सन्ति बहूनि विश्वबन्धुत्वविधायकानि विश्वमैत्रीभावमूलानि वचनानि संस्कृतवाङ्मये। इयं संस्कृतिः कदापि देशविशेषस्य भौगोलिकखण्डे सीमाबद्धा नासीत्। भारतेन कस्यापि मतविशेषस्यैव प्राधान्यं नाङ्गीकृतम्। सर्वेषां मतानां मेलनमेव भारतीयसंस्कृतेर्मूलं वैशिष्ट्यम्। कविकुलललामभूतस्य कालीदासस्य काव्येषु दृश्यते यत् नदनदीपर्वतोपवनकुसुममधुकरपक्षियक्ष-रक्षोगणदेवतिर्यङ्मनुष्यमत्स्यमृगगिरिनिर्झरगिरिकन्दरवृक्षलतातृणज्योतिरादिसर्वमपि प्रकृतिजातं समानप्रेम्णा स्वीकृत्य सर्वत्र समतादृष्टिः प्रकटिता कवीन्द्रेणानेन। विश्वश्रेयसाधनेन काव्यस्य काव्यत्वं सिद्ध्यति- इत्युक्तिः सार्थकतां गता संस्कृतकाव्येषु। अलङ्कारशास्त्रे विमर्षणे कृते सति विश्वे निगूढा काचिदैक्यता दृष्टिपथमायाति। एक एव उपमालङ्कारः किञ्चिद्भेदेनैव अनेकालङ्कारभावं भजते। अनेनात्र अनेकालङ्कारेषु मध्ये निगूढमेकत्वं भासत इति व्यक्तं भवति। एवमनेकेषु चराचरगतसर्ववस्तुषु सादृश्यदर्शनरूपा समतादृष्टिः उपमालङ्कारेणैव सम्भवतीति। उदात्तसंस्कृतेः फलं समृद्धिरेव। सा द्विविधा - भौतिकी, आध्यात्मिकी च। भारतीयसंस्कृत द्वयोश्चरमोत्कर्षः सुस्पष्टः। पुरा भौतिकी समृद्धिरत्र तथा आसीत्, येन अनेकाः तथाकथिताः सभ्यजातयः बहुवारम् आक्रमणं कृतवत्यः सर्वस्वमपहृतवत्यश्च। इदानीमपि मानवसम्पदा आध्यात्मिकसम्पदा देशोऽयं धनी। संस्कृतिस्तु मानवसत्त्वविकाशस्य सा प्रक्रिया भवति, यया मानवः स्वकीयं जीवनोद्देश्यमधिगच्छति, मानवकल्याणे प्रवृत्तो भवति। प्राणिनां दुःखे दुःखस्यानुभूतिः एवं सुखे सुखस्यानुभूतिरेव मानवतायाः संरक्षणस्यैकमात्रो धर्म इत्युपदिशतीयं संस्कृतिः। अत्र तद् यथा मा हिंस्यात् सर्वभूतानि, अहिंसा परमो धर्मः, परोपकाराय पुण्याय पापाय परपीडनम्, आत्मनः प्रतिकूलानि परेषां न समाचरेत्, अद्राहः सर्वभूतेषु कर्मणा मनसा गिरा, अहिंसार्थाय भूतानां प्रवचनं कृतम्, यः स्याद् अहिंसासम्पृक्तः स धर्म इति निश्चयः इत्यादिभिर्व्याक्यैः अहिंसया विश्वमैत्रीभावना सुप्रतिष्ठितासीत्। अत्रैवोदारा ऋषयः मानवतायाः विश्वबन्धुत्वभावानाया गीतं गीत्वा सङ्कीर्णपरिसराद् बहिरागत्य विश्वकल्याणाय वैश्विकभावं स्थापितवन्तः। शत्रूणां कृतेपि प्रार्थितवन्तोस्मदृषयः मित्राणां विषये का कथा, वस्तुतः अत्रत्यानां महापुरुषाणां हृदये वैरभावनायाः स्थानमेव नासीत्। तर्पणमन्त्रे तन्मूर्तरूपं प्राप्नोत्-

आ ब्रह्म-भुवनाल्लोकाः देवर्षि-पितृ-मानवाः।

तृप्यन्तु पितरः सर्वे मातृमातामहादयः।।

अतीत-कुल-कोटीनां सप्तद्वीप-निवासिनाम्।

मया दत्तेन तोयेन तृप्यन्तु भुवनत्रयम्।।

ये बान्धवा अबान्धवा वा येन्यजन्मनि बान्धवाः।

ते तृप्तिमखिलां यान्तु ये चास्मत् तोयकाङ्क्षिणः।।

देवा यक्षास्तथा नागा गर्धर्वाप्सरसः सुराः।

क्रूराः सर्पाः सुपर्णाश्च तरवो जिह्मगाः खगाः।।

विद्याधरा जलाधारास्तथैवाकाशगामिनः।

निराहाराश्च ये जीवाः पापे धर्मे रताश्च ये।।

तेषामाप्यायनायैतद् दीयते सलिलं मया।।

श्राद्धमन्त्रेपि ईदृशी उदारभावना सुस्पष्टा-

येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति।

तत्तृप्तयेन्नं भुवि दत्तमेतत् प्रयान्तु लोकाय सुखाय तद्वत्।।

अन्यच्च

योत्र मां स्निह्यति तस्य शिवमस्तु सदा भुवि।

यश्च मां द्वेष्टि लोकेस्मिन् सोपि भद्राणि पश्यतु।।

मनुष्याणां जयगानं कुर्वतीयं संस्कृतिर्वदति न मानुषात् श्रेष्ठतरं हि किञ्चित्। संस्कृताविह मानवजीवनस्य महन्महत्त्वमङ्गीकृत्य, सर्वैः मानवैः सह मैत्रीभावं सम्पाद्य, पारस्परिकं भेदभावं निरस्य, विश्वात्मना सह एकीभूय, सर्वैः सह सुखेन निवस्य, संविभज्य ज्ञानसुफलं भुक्त्वा, विश्वबन्धुत्वभावनायाः प्रेमप्रवाहे निमज्य, वसुन्धरायामस्यां स्वर्गस्यानन्दमयनन्दनकानननिर्माणस्याह्वानं कृतं दृश्यते-

संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।

देवा भागं यथा पूर्वे सञ्जानाना उपासते।।

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।

समानं मन्त्रभि मन्त्रये वः समानेन वो हविषा जुहोमि।।

समानी व आकुतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति।।

पुनश्च-

ओम् सह नाववतु सह नौ भुनक्तु, सहवीर्यं करवावहै।

तेजस्विनावधीतमस्तु मा विद्विषावहै।।

अत्रत्या मुनयः ऋषयः महापुरुषाः कवयः सर्वेपि विश्वभ्रातृत्वबोधस्य प्रतिष्ठार्थं समर्पितचित्ता आसन्। मानवकल्याणनिरताश्चासन्- तस्मात् वसुधैव कुटुम्बकमित्यस्य प्रसूतिरियं संस्कृतिः। अस्याः क्रोडादेव विश्वभ्रातृत्वभावनाया जन्म इति निश्चप्रचम्। संसारे सृष्टेर्नियमानुसारं बहवः संस्कृतयः समुद्भूता विलयं गताश्च। सृष्टि-स्थिति-प्रलयनियममङ्गीकुर्वन्ति एताः संस्कृतयः। परन्तु अस्मदीयेयं संस्कृताश्रिता वेदाश्रिता च संस्कृतिः सृष्टिनियमरहिता सती अमराविच्छिन्ना प्रवहन्ती स्थास्यति। यतः- अच्छिन्नस्यते देवसोम सुवीर्यस्य रायस्पोषस्य दातारः स्याम। सा प्रथमा संस्कृतिर्विश्ववारा.. .. ..। सदैव इमां संस्कृतिं प्रक्रियारम्भे अनुसरन्ति ऋषयस्तदर्थमेषा प्रथमा संस्कृतिः। सृष्ट्यारम्भे इमामवलम्ब्य सृष्टिप्रक्रियाप्रारम्भो भवति।

उपसंहारे एतदुच्यते यत्- अस्मत्पूर्वजैः लोकहितचिन्तनपर-विश्वकल्याणविधायक-सौभ्रात्रसंस्थापननिष्ठ-शान्तिवचनैः भारतीयसंस्कृतिपताका विश्वाकाशे प्रासर्य्यत। सा परम्परा वर्ध्यताम्। भारतीयसंस्कृतेर्विश्ववेदिकायां विश्वमानवैः सम्भूय विश्वभ्रातृत्वगीतमेवं गीयताम्-

शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः।

दोषाः प्रयान्तु शान्तिः सर्वत्र सुखी भवतु लोकः।।

स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः।

गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु।।

काले वर्षतु पर्जन्यः पृथिवी शस्यशालिनी।

देशोयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः।।

प्रवर्त्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहती महीयताम्।

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।

सर्वः सद्बुद्धिमाप्नोतु सर्वः सर्वत्र नन्दतु।।

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया।

मनञ्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी।।

संस्कृतिस्संस्कृतञ्च द्वे भारतस्याक्षिणी इमे।

तयोरुपेक्षया नूनमन्धकारो भविष्यति।। इति शम्।।

 

प्रबन्धा

अध्यापकः डॉ. तन्मयकुमारभट्टाचार्यः

साहित्याध्यापकः, प्राच्यविद्याविभागे

कोलकाताराष्ट्रियसंस्कृतमहाविद्यालयस्य

1, B. C. Street, Kolkata-700073

 

 

ग्रन्थ-ऋणम्

1.       संस्कृतनिबन्धावली डॉ.रामजी उपाध्यायः

2.       संस्कृतनिबन्धमन्दाकिनी डॉ.आद्याशङ्करमिश्रः

3.       अक्षरभारती डॉ. श्रीरञ्जनसूरिदेवः

4.       हिमांशुश्रीः सम्पा. डॉ.सत्यनारायण आचार्यः

5.       शोधप्रभा सम्पा. डॉ. वाचस्पति उपाध्यायः

6.       शिक्षा एवं संस्कृति डॉ. भास्करमिश्रः

7.       जनशिक्षाय संस्कृत डॉ. ध्यानेशनारायणचक्रवर्त्ती

8.       हिरण्मयेन पात्रेण डॉ. आशारामत्रिपाठी

9.       संस्कृतवाङ्मये जातीयताभावना सम्पा. डॉ. आदित्यनाथभट्टाचार्यः

10.    मिश्रनिबन्धावली डॉ. रामनारायणमिश्रः

11.    शिक्षा का सांस्कृतिक इतिहास डॉ नत्थुलाल गुप्त

12.    भारत ओ ताहार संस्कृति स्वामी अभेदानन्द

13.    महाजाति गठने हिन्दुधर्म स्वामी विकाशानन्द

14.    हिन्दुधर्मेर महत्त्व ओ वैशिष्ट्य स्वामी अद्वैतानन्द

15.    हिन्दुत्वम् स्वामी वेदानन्द

16.    वैदिक साम्यवाद स्वामी प्रभुपाद

17.    हिन्दुसंस्कृतिर स्वरूप क्षितिमोहन सेन - - - 000 - - -