ISSN 0976-8645

 

Jahnavi.jpg

 

पाणिनीयव्याकरणे समाजस्वरुपविचारः

(A Study on Socio profile factor in Paninian thought of Grammar)

                                                                                                                 

डॉ.गिरिधारी पण्डा

भूतपूर्व-सहाचार्यः,संस्कृतविभागः

गौडवङ्गविश्वविद्यालयः

सहाचार्यः,मेदिनीपुरमहाविद्यालयः,

मेदिनीपुरम्,पश्चिमबङ्गः,भारतम्

शोधनिबन्धसारः (ABSTRACT) -

       ‘वागेव विश्वा भुवनानि जज्ञे..’ इत्युक्त्यनुसारेण भाषा हि समुदायस्य महान् वाङनिधिः।       भावाभिवेगस्य प्रकटनाय या सर्वथा पाथेयीभूता,यया परस्परमवबोद्धुं समर्था,सा भाषा इत्यामनन्ति भाषाविज्ञानविदः। तस्याः किल भाषायाः सम्यग्व्यवहारार्थं कस्यचित् नियमविशेषस्यानुशासनविशेषस्य वा आवश्यकता विद्यते, स एव नियमविशेष शास्त्रीयपरिभाषायां व्याकरणपदेनाभिधीयते । तेषामेव नियमानामनुशासनात्मकमार्गविशेषानां वाऽऽधारभूतं पाणिनीयव्याकरणम्,यत् खलु वैदिक-लौकिकसंस्कृतयोः प्राणभूतम्। सूत्र-वार्त्तिक-भाष्यसंरचनेन तद्व्याकरणं त्रिमुनिव्याकरणभावेन ख्यातम्।‘त्रयः मुनय अस्मिन् वंश्ये’ इति तात्पर्यात् तत्  त्रिमुनिव्याकरणं विशेषतः पाणिनिना प्रोक्तमित्याशयेन तत् पाणिनीयमिति कालगरिम्ना पाणिनीयपरिधिं प्रवृत्तिं वाऽऽधारीकृत्य प्रवर्त्तते। व्याक्रियन्ते ब्युत्पाद्यन्ते असाधुशब्देभ्यो साधुशब्दाः पृथकीकृत्य विविच्यन्ते इति ब्युत्पत्त्या साधुशब्दसम्पादकं शास्त्रमिदम्।यद्यपि शास्त्रेणानेन शब्दानां साध्वसाधुत्वविवेचनं विधीयते,तथापि तत्रोपपादितेषु बहुषु सूत्रेषु बहूनां सामाजिक-अर्थनैतिक-वैज्ञानिकतथ्यानां परिचयः प्राप्यते,तत्र प्रतिपादितेषु विभिन्नेषूदाहरणेष्वपि तात्कालिकस्थितिर्निरुप्यते, यत् खलु सर्वथा गवेषणायाः विषयः। अतः तेषां तथ्यानामाकलनपुरस्सरं ‘पाणिनीयव्याकरणे समाजस्वरुपविचारः’ इति शीर्षकेन              शोधप्रबन्धोयं विकसितः। पाणिनीयव्याकरणस्य विभिन्नसूत्रगततथ्यान् पुरस्कृत्य सूत्रकार-वार्त्तिककार-भाष्यकारादीनां मतावलम्बनपूर्वकं तात्कालिकसामाजिकावस्थायाः चित्रणमत्र साधितम्। यदनुसृत्य अधुनातनसमाजः स्वकीयायाः व्यवस्थायाः संशोधनं विधाय प्रतिष्ठितसमाजं निर्मातुं शक्नोतीति रहस्यम्।

 

 भूमिका (Introduction) :-

          ‘वाङ्नाम ‘अनादि निधना नित्या,या स्वयम्भुवा आदौ वेदमयी दिव्या सृष्टा यतः सर्वाः प्रवृत्तयः समुद्भुताः’1‘वागेव विश्वा भुवनानि जज्ञे..’ 2   ‘व्यक्ता वाचि वर्णा येषां त इमे व्यक्त वाचः’3                                                           इत्युक्त्यनुसारेण भाषा हि भुवनस्यास्य महान् वाङनिधिः। हेनेरी4 –स्टृटो5-एनसाइक्लोपेडिआब्रिटेनिका6 आदयः पाश्चात्यविद्वांसोपि तथ्यमिदं स्वीकुर्वन्ति। ‘परा-पश्यन्ती-मध्यमा-वैखरी’7 इति चतसृषु तुरीयं वाचं मनुष्या वदन्ति’,उक्तं यत् महाभाष्ये-‘चत्वारि वाक्परिमितापदानि तानि विदुर्ब्रह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचं मनुष्या वदन्ति’8  , या खलु ध्वनिरुपेण भाषा पदवाच्या। भाषा नाम सा वाक् या कण्ठताल्वादिभिरुच्चारणस्थानैरुच्चार्यते,या च केनचित् समुदायेन भावाभिवेगस्य स्पष्टाभिव्यक्तये प्रयुज्यते इति। अस्याः भाषायाः प्रयोगार्थं कस्यचित् नियमविशेषस्यावश्यकता विद्यते,येनानुशासनात्मकमार्गेण भाषा सुसमृद्धा सती प्रयोगार्हा भवति।स एव नियमविशेष अनुशासनात्मकमार्गो वा व्याकरणसंज्ञां लभते। ‘वाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन् इमां नो वाचं व्याकुर्वन्ति।तामिन्द्रो मध्यतोवक्रम्य व्याकरोत्’9  इति धिया शास्त्रमेतत् तामखण्डां वाचं मध्ये विच्छिद्य प्रकृतिप्रत्ययविभागेन नियमीकरोतीति। तेषामेव नियमानामनुशासनात्मकमार्गविशेषानां वाऽऽधारभूतं पाणिनीयव्याकरणम्, यत् खलु वैदिक-लौकिकसंस्कृतयोः प्राणभूतम्। सूत्र-वार्त्तिक-भाष्यसंरचनेन तद्व्याकरणं त्रिमुनिव्याकरणभावेन ख्यातम्।‘त्रयः मुनय अस्मिन् वंश्ये’10 इति तात्पर्यात् तत्  त्रिमुनिव्याकरणं विशेषतः पाणिनिना प्रोक्तमित्याशयेन तत् पाणिनीयमिति कालगरिम्ना पाणिनीयपरिधिं प्रवृत्तिं वाऽऽधारीकृत्य प्रवर्त्तते। व्याक्रियन्ते ब्युत्पाद्यन्ते असाधुशब्देभ्यो साधुशब्दाः पृथकीकृत्य विविच्यन्ते इति ब्युत्पत्त्या यद्यपि साधुशब्दसम्पादकं शास्त्रमिदम्, यद्यपि शास्त्रेणानेन शब्दानां साधुत्वासाधुत्वविवेचनं विधीयते,येन शब्दानुशासननाम्ना11 ख्यातमिदम्, तथापि तत्रोपपादितेषु बहुषु सूत्रेषु बहूनां सामाजिक-अर्थनैतिक-वैज्ञानिकतथ्यानां परिचयः प्राप्यते,तत्र प्रतिपादितेषु विभिन्नेषूदाहरणेष्वपि तात्कालिकस्थितिर्निरुप्यते, यत् खलु सर्वथा गवेषणायाः विषयः। अतः पाणिनीयव्याकरणस्य विभिन्नसूत्रगततथ्यान् पुरस्कृत्य  तेषां तथ्यानामाकलनपुरस्सरं सूत्रकार-वार्त्तिककार-भाष्यकारादीनां मतावलम्बनपूर्वकं तात्कालिकसामाजिकावस्थायाः चित्रणमस्मिन् शोधप्रबन्धे साधितम्।

             उद्देश्यं तु - शास्त्रस्यास्य गवेषणात्मकाध्ययनेन सूत्रव्याख्यानानुशीलनेन च  तात्कालिकावस्थायाः यत् सार्विकं चित्रमुपलभ्यते तदानीन्तनसमाजस्य यत्स्वरुपं नीर्णीयते च, तदनुसृत्य अधुनातनसमाजः स्वकीयायाः व्यवस्थायाः संशोधनं विधाय प्रतिष्ठितसमाजं निर्मातुं शक्नोति। तात्कालिकजनानां व्यवहारकौशलं ज्ञात्वा स्वकीयस्य व्यवहारस्य परिवर्त्तनं विदधाति। तात्कालिकीमवस्थां निरुप्य वर्त्तमानसामाजिक-अर्थनैतिक-राजनैतिकावस्थायाः समुन्नतिं साधयति,धार्मिक-सांस्कृतिकचेतनायाः विकाशं कारयति वा,येन विशालभूखण्डयुक्तैषा भारतभूमिः चारुहास्यमयी चारुलास्यमयी सती विश्वदरवारे उदाहरणरुपेण प्रतिष्ठिता भवतीत्याशयः।

 

विचारः-

        तदानीन्तनसमये जनाः यथा राजदण्डे समादरयुक्ता तथा धार्मिककार्येपि प्रवृत्ता सन्। सत्यपि राजदण्डभयं, यत्रोभयस्योपस्थितिस्तत्र धर्ममेवामनन्ति ते । अत्रायमेवाशयः यत् कस्मिंश्चिदपि धर्मोपयुक्ते कार्ये यदि राजदण्डभयः स्यात्,तथापि ते विस्मृत्य तत्भयं धर्मकार्यमेव कुर्वन्ति,यत् “ध्रुवमपायेपादानम्”12 इत्यत्रअपादानसंज्ञानिरुपणप्रसङ्गे “वारणार्थानामीप्सीतः”13 इति सूत्रे भाष्यप्रदर्शितोदाहरणात् तदीयव्याख्याऽऽनुशीलनाच्च स्पष्टत अनुमीयते। ‘...किमुदाहरणम् ‘माषेभ्यो गां वारयति’ भवेद्यस्य माषा न गावस्तस्य माषा ईप्सिताः स्युः यस्य तु खलु गावो न माषाः कथं तस्य माषा ईप्सिताः स्युः।तस्यापि माषा एवेप्सिताः। ....... पश्यत्ययं यदीमाः गावः तत्र गच्छन्ति ध्रुवः शस्यविनाशः भवति, शस्यविनाशे यथाधर्मः तथा राजदण्डभयञ्च। सः बुद्ध्या संप्राप्य निवर्त्तयतीतति ’14 क्षेत्रे गवां सम्मर्देन शस्यविनाशः स्यात्,विनष्टे च शस्ये क्षेत्रस्वामिनः क्लेशेनाधर्मः भवेदिति चिन्तयित्वैव तत्र धर्मबन्धनात् क्षेत्ररक्षणं विदधाति।वस्तुतः अरण्ये संस्थितस्य क्षेत्रस्य रक्षणेन  धर्मो एव जायते ‘धर्मो रक्षति  रक्षितः’ इति वचनात्।अत्र अधर्मः  राजभयञ्चेत्युभयमप्युक्तं परन्तु तत्र राजभयस्य न तादृशः समादरो यादृशो धर्मस्य समादरः । अतः माष रक्षणार्थमेव गां वारयति धर्मसाधनार्थमिति तात्पर्येण  माषेभ्यो गां वारयतीत्युदाहरणं प्रदर्शितम्।एतदपि तत्रावधेयं यत् – शस्यविनाशेपि  राजकीयः प्रतीकारः समर्थतर आसीत् , येनारण्यकेनापि क्षेत्ररक्षणं क्रियते। परंत्वत्रापि  धर्मायैव रक्षति, न तु राजभयादिति।यद्यत्र धर्माश्रयणं न स्यात्तर्हि क्षेत्रविनाशेपि न मदीयगोभिस्तत् क्षेत्रं नाशितम्,अहं तु तस्मिन् दिने तत्क्षेत्रं नैव दृष्टवानित्यादिभिरुक्तिभिः स्वसंरक्षणं कर्त्तुं शक्यः सः।धर्मसंरक्षणेन कदाचिद्राजापि सन्तुष्टः स्यादिति।“वर्णानामाश्रमाणां राजा सृष्टोभिरक्षिता....” 15  मनुप्रतिपादितेत्युक्त्यनुसारेण राजापि धर्मस्याभिरक्षक इति तात्पर्यात्।तथ्यमिदं कौटिलीयार्थशास्त्रेपि स्वीकृतम्।यथोक्तं तत्रतस्मात् स्वधर्मभूतानां राजा न व्यभिचारयेत्” 16‘राजभयं चे’ति प्रतिपादयता भाष्यकारेण यथा जनानां धर्मानुसंधानात् सत्यप्रियत्वमाविष्क्रियते तथा तदानीन्तनकाले राजभयञ्चासीदिति प्रतिपाद्यते।अन्यथा अधार्मिके राज्ये पापज्वालाभिः धनं न विवर्धते, राजभयस्याभावे चौरैराततायिभिश्च कतिपयमनुष्याः प्रत्यहं हन्यन्ते,कानिचिच्च गृहाणि  दह्यन्ते इत्यादिभिः अधर्मकार्यैर्पृथिवी विनष्टा स्यादित्यनुभूयत एव ।

 

           भविष्यज्जीवनस्य समुन्नतये धनस्य सञ्चयीकरणमपि तात्कालिकसमाजस्य स्वाभाविकं स्वरुपमासीदिति “समर्थः पदविधिः” 17 सूत्रे भाष्योक्तवचनात् प्रतीयते।यथोक्तं तत्र भाष्ये – ‘एवं हि दृश्यते लोके भिक्षुकोयं द्वितीयां भिक्षां समासाद्य पूर्वां न जहाति, सञ्चयायैव प्रवर्त्तते’18 इति। यदा सः द्वितीयां भिक्षां गृह्णाति,तदा पूर्वां भिक्षां भविष्यज्जीवनाययैव सञ्चयीकरोतीति तात्पर्यम्। अधुनापि अनेकत्र दृश्यते यत्-अनेके दरिद्रजनाः उपार्जितेपि पर्याप्तं धनं तस्मिन्नेव दिने तद्व्ययीकुर्वन्ति,अथवा तद्व्ययपर्यन्तं श्रमं कर्त्तुमुत्सुकाः न भवन्ति।परन्तु एतेनैव भाष्योक्तवचनेन ज्ञायते यत् तदानीन्तनसमयेपि धनसंरक्षणे जनाः अप्रवर्त्त्यन्त इति। 

                       

                        धर्मबन्धनं तात्कालिकसमाजस्य अन्यदेकं स्वरुपमासीत्। यस्य यद्द्रव्यं स तस्य ग्रहणं करोतीति धर्मबन्धनम्।“अर्थवदधातुरप्रत्यय प्रातिपदिकम्”19 इति पाणिनीयसूत्रे    भाष्योक्तवचनादेतत्प्रतीयते।यथोक्तं तत्र ‘तद्यथा लोके- आढ्यमिदं नगरं गोमदिदं नगरमित्युच्यते।न च तत्र सर्वे तत्राढ्या भवन्ति सर्वे वा गोमन्तः। यस्य हि यद्द्रव्यं भवति स तेन कार्यं करोति। यस्य च या गावो भवन्ति स तासां क्षीरं घृतमुपभुङ्क्ते,अन्यैरेतद्द्रष्टुमप्यशक्यम्’20। धर्मबन्धनस्याभावेन्यस्यापि  द्रव्यमन्येनोपभुज्यमानं प्रत्यहमुपलभ्यते,यस्य च गावो भवन्ति तद्दुग्धमन्यैरुपभुज्यमानमेव प्रत्यहं परिपाल्यते। “अनुदात्त ङित आत्मनेपदम्”21 इति सूत्रे एतदेवतथ्यमुपपाद्योक्तं तत्र-‘न खल्वप्यन्यत्प्रकृतमनुवर्त्तनादन्यद्भवति, नहि गोधा सर्पन्ती सर्पणादहिर्भवति’22 इति।स्वातन्त्र्यमात्रप्राप्तिलाभेनापि दुष्टानां चौराणां वाऽऽचारस्य परिवर्त्तनं न जायते। ‘लोके- आढ्यमिदं नगरं गोमदिदं नगरम्...’ 23 इत्युदाहरणेनानेनापि ज्ञायते यत् तस्मिन्नेव समये नगरेपि गोपालनमभवत्, यथेदानीं नगरे स्वजीवननिर्वाहार्थं गाः पालयन्तीति विशेषः।

      सुजलां सुफलां मलयजशीतलां शस्यश्यामलामिति भारतभूस्वरुपं तदा दृष्टिपथारुढा जायते। “प्राग्रीश्वरान्निपाताः” 24  इति सूत्रे – ‘किमर्थं रेफाधिक ईश्वरशव्दो गृह्यते लोकत एतत्सिद्धम्, तद्यथा – आ वनान्तात् आ उदकान्तात् प्रियं पान्थमनुव्रजेदिति य एव प्रथमो वनान्त उदकान्तश्च ततोनुव्रजन्ति।लौकिकं चातिवर्त्तते। द्वितीयं तृतीयञ्च वनान्तमुदकान्तनुव्रजन्ति तस्माद्रेफाधिक  ईश्वरशव्दो ग्रहीतव्यः’25 इतिभाष्यवचनम् । अत्र हि ईश्वरादिति नोक्त्वा रीश्वरादिति कथमुक्तमित्याशङ्क्योच्यते- आ वनान्तादा उदकान्तात्प्रियं पान्थमनुव्रजेदिति विधाने नियमाभावाद्द्वितीयं तृतीयञ्च वनान्तमनुगच्छन्ति,तथात्रापि प्रथमेश्वरशव्दं विहाय द्वितीयपर्यन्तमपि अनुव्रजिष्यन्तीति तदर्थं विकृतमिति तद्भाष्यार्थः।ग्रामाद्ग्रामान्तरं गच्छतः पान्थस्यानुव्रजनं वनान्तं उदकान्तं वा कर्तव्यमित्याचारः तदानीमासीदिति तात्पर्यम्। ग्रामाद्बहिरपि मध्ये विपुला उदकान्ता विपुलानि उदकानि वा यत्र सम्भवन्ति तत्रैवेदमुचितं स्यात्,तत्रापि द्वितीयं तृतीयं वा वनान्तं गच्छन्तीति दर्शनेन निश्चितमेव  तस्मिन् काले बहूनि वनानि संरक्षितानि निर्मितानि वा स्युः।पथिकानां तृष्णादूरीकरणायोपभोगाय वा धार्मिकैर्निर्मिताः बहवो जलाशया अपि भवेयुरित्याशयेन तदा  शस्यश्यामलसम्पन्ना भारतभूमिरासीदिति निर्णीयते।

 

          “कृन्मेजन्तः” 26  इति सूत्रव्याख्यानप्रसङ्गे भगवता पतञ्जलिना यदुदाहरणं प्रदर्शितं,तद् सर्वथा तदानीन्तनानां जनानां दृढप्रतिज्ञस्वरुपमुद्घाटयति, तस्मिन् काले जनाः स्वे स्वे कर्मणि अभिरता आसन्निति प्रतिपादयति। आगतेपि विघ्ने प्रारम्भमाणकार्यं न परित्यजन्ति अथवा स्थितेपि विघ्ने कार्याणि प्रारभन्ते। यथोक्तं तत्र– ‘नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते,न च मृगाः सन्तीति यवा नोप्यन्ते इति’27। न हि विघ्नाः सन्तीति कार्याणि नारभ्यन्ते इत्येव तेषां दृढा मतिः, विघ्नाः सन्तीति विचिन्त्य  कार्यं न परित्यजन्तीति रहस्यम्।

      दानीन्तनसमाजे जनाः कृषिकार्ये निपुणा आसन्।अल्पेनायासेन अधिकमुत्पादनं यथा भवेत्तदर्थं ते प्रयत्नशीलाऽऽसन्नित्येवंभावेन तदा प्रचलितं कृषिविषयकतथ्यमप्युपलभ्यते भाष्यप्रदत्तोदाहरणस्यानुशीलनात्। “वर्णो वर्णेन”28इति पाणिनीयसूत्रस्य व्याख्यानप्रसङ्गे भाष्यकारेणोक्तं यत्- ‘इह हि सर्वे मनुष्या अल्पेनाल्पेन महतो महतोर्थानाकाङ्क्षन्ति।एकेन माषेण शतसहस्रम् ।एकेन कुद्दालपदेन खारीसहस्रम् इत्युक्तम्।सर्वेषामयं स्वाभाविको  धर्मो यदल्पेन प्रयत्नेनाल्पेन मूल्येन वा महती कार्यसिद्धिरपेक्षते’29 इति।एकमाषसुवर्णेन वस्त्रादीनां शतं सहस्रमपीच्छन्ति ते,अथवा एकेन माषवोपनेन सहस्रसंख्यकान् माषानपीच्छन्ति।तथैव एकेन कुद्दालपदेन खारीसहस्रम् इत्यत्र खननार्थं भूम्यां पातितः कुद्दालो यत् परिमितं क्षेत्रं व्याप्नोति तत्परिमितेन क्षेत्रेण खारीणां  सहस्रमच्छन्तीति।अत्रायमेवाशयः यत्  तदानीन्तनसमये एकहलं क्षेत्रमित्युक्ते सति एकेन हलेनैकस्मिन् दिवसे यावत्क्षेत्रं क्रष्टुं शक्यं तावदेवेति बोध्यते।तथैकेन कुद्दालेनैकस्मिन् दिवसे यावत्क्षेत्रं कृष्टं स्यात्तत्कुदालपदमिति। एकेन कुद्दालपदेन- एककुद्दालपरिमितेन क्षेत्रेण खारीसहस्रमपीच्छन्तीति तत्तात्पर्यम्।।अत्र एतावता क्षेत्रेण इयद्धान्यं भवति, इयद्धान्यं चापेक्षते इत्येतादृशं यत् संशोधनात्मकं ज्ञानं तत्तदानीमासीदिति निश्चयेन प्रतीयते।

                                  तस्मिन् समये जनाः वस्त्रनिर्माणक्षेत्रेष्वपि कुशलाऽऽसन् । तदा न केवलं सामान्यवस्त्राणामेवोत्पत्तिरासीत्, किन्तु सूक्ष्मसूक्ष्मतरवस्त्राणामप्युत्पत्तौ कृतप्रयत्नास्ते इति निर्णीयते। यथा “वर्णो वर्णेन”30 इति सूत्रे ‘पूर्वपदातिशय’31 इति वार्त्तिके ‘किं प्रयोजनं,सूक्ष्मवस्त्रतराद्यर्थः .....यथैवायं द्रव्येषु यतते-वस्त्राणि मे स्युरिति,एवं गुणेष्वपि यतते-सूक्ष्मतराणि मे स्युरिति’32।अनेन भाष्यप्रदर्शितोदाहरणेन तथ्यमिदं स्पष्टीकृतं यत् तस्मिन् काले वस्त्रकारिगरैः साधारणवस्त्राणि गुणवन्ति सूक्ष्मतराणि वस्त्राणि च निर्मीयन्ते स्म,येन तात्कालिकजनाः गुणवद्वस्त्रव्यवहरणे अपि निपुणा आसन्नति निश्चयः । तथैव सुधौतवस्त्रनिर्माणेपि दत्तचित्तास्ते-इति “अतिशायने तमबिष्ठनौ”33 इति पाणिनीयसूत्रव्याख्यानप्रसङगे भाष्योक्तवचनात् प्रतीयते।तत्र एकस्यैव वस्त्रस्य गुणोत्पादनवैशिष्ट्येन विविधानि प्रकाराणि निर्मितानि,मूल्यान्यपि भिन्नानि आसन्।यत् खलु अधुनापि यान्त्रिकयुगे परिलक्ष्यते एतत्। कस्मिंश्चिद्यन्त्रे बहुमूल्यानि वस्त्राणि भवन्ति, कस्मिंश्चिच्च लघुमूल्यानि।विपणावपि स्वल्पमूल्यपरिमितानि वस्त्राणि बहुमूल्यवस्त्राणि च उपलभ्यन्ते,तात्कालिकसमाज इव मूल्यनिरुपणे प्रतिस्पर्द्धा अपि दृश्यते इति।  यथोक्तं तत्र भाष्ये– -‘एवं हि दृश्यते लोके- समाने आयामे विस्तारे पटस्यार्धोन्यो भवति काशिकस्य,अन्यो माथुरस्य।गुणान्तरं च खल्वपि शिल्पिन उत्पादयमाना द्रव्यान्तरेण प्रक्षालयन्ति।अन्येन शुद्धं धौतिकं कुर्वन्ति,अन्येन शैफालिकम्, अन्येन माध्यमिकम्’34 इति। वस्त्रनिर्माणक्रियायाः कौशलं देशान्तरेषु भिन्नमासीत्,येन एकस्यैव वस्त्रस्य गुणगतनिरुपणेन मूल्यं भिन्नम् ,वाणिज्ये प्रतियोगिताभावप्रदर्शनम्,  यथा सूक्ष्मतरवस्त्रस्य व्यवहारः तथा सुधौतवस्त्रस्यापि व्यवहारः आसीदिति उपर्युक्तभाष्योक्त्या निर्णीयते। काशिकस्य मूल्यमेतत्,माथुरस्य चान्यदिति।तत्र धौतशेफालिकमाध्यमिकाः क्रियाः प्रक्षालनवैजात्यकृत्या वस्त्रस्य गुणविशेषप्रकाराः।समानगुणे एव तादृशी प्रतिस्पर्धा आसीत्,न तु गुणभिन्नत्वे।गुणभेदस्य शुक्लवस्त्रस्य यन्मूल्यं तत् कृष्णवस्त्रस्य नासीदिति तात्पर्यम्।अतएवोक्तं भाष्ये-‘क्रियमाणे चापि गुणग्रहणे समानगुणग्रहणं कर्तव्यम्,शुक्लात् कृष्णे माभूत्।न कर्तव्यम्।समानगुणे एव स्पर्धा भवति,न हि आढ्याभिरुपौ स्पर्धते’35 इति।

              अधुनातनयुगे नारीणामधिकारः सर्वत्र साम्यं साधयितुं सर्वकारः प्रयतते।नारीणां यथोचितं  सम्मानं प्रदर्शयितुं अनेकाः नारी-उन्नयनकारी-संस्थाः कार्यं कुर्वन्ति।किन्तु दुःखस्य विषयः यत्-केचिदल्पज्ञाः विनापि विशेषाध्ययनं प्राचीनपरम्परां तात्कालिकीं व्यवस्थां च नारीणामनुन्नतेः कारणरुपेण वर्णयन्ति,यत् खलु सर्वथा निन्दनीयम्।तदानीन्तनसमाजेपि नार्यः शिक्षिताः सम्माननीयाश्चाऽऽसन्निति पाणिनेः सूत्रप्रयोगात् भाष्ये प्रदर्शितोदाहरणवाक्याच्च प्रतीयते।तथ्यमिदं धर्मशास्त्रकारेण मनुनापि स्वीकृत्य मनुसंहितायां प्रतिपादितं यत् –

       “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

        यत्रैतास्तु  पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।।“36

         (Where ladies are respected, there the gods wonder in enjoyment. Where they are not respected all deeds are fruitless.इति) “एको गोत्रे” 37 इति सूत्रस्य व्याख्यानावसरे पतञ्जलिनोक्तं यत् – ‘काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणी” 38 इति।  अत्र स्त्रियः दर्शनादिशास्त्रेष्वपि निपुणा इति स्पष्टतः प्रतिपाद्यते। तथैव “अनुपसर्जनात्” 39 इति सूत्रे – ‘काशकृत्स्नीमधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति। नैष दोषः। अध्येत्र्यामभिधेययमण ईकारेण भवितव्यम्40’।अनेन भाष्यवचनेन तदानीन्तनकाले स्त्रीणामध्ययनपरायणतायाः परिचयः प्राप्यते। तदा स्त्रियः न केवलं गृहिणीरुपेण गृहकर्मणि नियुक्ता आसन्,अपितु मीमांसादिशास्त्राण्यधीत्य तेषां रचनामपि कृतवत्यः इति प्रतीयते।“अणि़ञोरनार्षयोः” 41 इति सूत्रे ‘औदमेध्यायाश्छात्राः’ इत्युदाहरणेनापि तथ्यमिदं स्पष्टीकृतं जायते।परिवारे नारीणां प्राधान्यमपि तस्मिन् समये आसीदिति विप्रतिषेधसूत्रस्थ भाष्यवचनात् ज्ञायते।यथोक्तं तत्र – ‘अस्ति प्राधान्ये वर्त्तते,तद्यथा –परमियं ब्रह्मण्यस्मिन् कुटुम्बे,प्रधानमपि गम्यते’42 इति। तदा नारीणां कुटुम्बे प्रधान्यमासीदिति निश्चयेन वक्तुं शक्यते।

            एवंभावेन धान्यमूल्यनिरुपण-गवादीनामुपचार-ग्रामनगरादिविभागप्रभृतीनि बहूनि  तात्कालिकसामाजोपलब्धानि सामाजिक-अर्थनैतिक-धार्मिकमूल्यबोधकानि तथ्यानि  निरुपितानि पाणिनीयव्याकरणे ,यानि अधुनापि सामाजिकप्रबन्धनस्योन्नतये अनुकरणीयानि अनुसरणीयानि च।

 

   समीक्षा -              

                        ‘ पाणिनीयं काणादं च सर्वशास्त्रोपकारकम्’ – इति वचनानुसारेण पाणिनीयं व्याकरणं न केवलं शब्दसाधुत्वे एव निहितम्, सूत्रमाध्यमेनानायासेन शब्दानां साधुत्वविवेचनं साधितम्,अपितु प्रत्यक्षरुपेण परोक्षरुपेण वा सर्वेषां शास्त्राणां तथ्यगतं रहस्यमुन्मोच्यैतत् स्वकीयं गोपायितं स्वरुपमप्युद्घाटितम्। अत्र न तु संपूर्णस्य सूत्रस्य, प्रतिवर्णस्यापि प्रयोजनं महत्त्वञ्चानस्वीकर्यम्।यथोक्तं पतञ्जलिना- “ प्रमाणभूत आचार्यो दर्भ पवित्रपाणिः शुचावकाशे प्राङ्मुखः उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म। तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुं, किं पुनरियता सूत्रेण” 43, ‘सामर्थ्ययोगान्न हि किञ्चिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात्’, “पाणिनीयं महत् सुविदितम्” 44।काशिकाकारेणापि तथ्यमिदं स्वीकृत्योक्तं यत्- “महती सूक्ष्मेक्षिका वर्त्तते सूत्रकारस्य” 45 इति। शास्त्रस्यास्याध्ययनेन यथा वैज्ञानिकसामाजिकार्थनैतिकादीनां ज्ञानमुपलभ्यते, तथा जीवनदर्शनस्य सर्वश्रेष्ठप्राप्तिरप्युपजायते, या खलु दार्शनिक परिभाषायां परंब्रह्मप्रप्तिरितिनाम्नाभिधीयते। अतः “अनादि निधनं ब्रह्म शब्दतत्त्वं यदक्षरम्” 46 इति प्रतिपाद्य  शब्दः ब्रह्मरुपात्मक इति भर्तृहरिणा प्रतिपादितम्शब्दब्रह्मणि निष्णात परंब्रह्माधिगच्छति” 47 इत्युपपाद्य अस्मिन्निष्णातः जनः परंब्रह्मण्यपीधिगन्तुं शक्नोतीति मैत्रेयोपनिषदि निरुपितञ्च। शास्त्रस्यास्य गवेषणात्मकानुसन्धानेन यत्तथ्यमुपलभ्यते, तद् सर्वथा अस्माकमुपकारं साधयति, जीवनस्य समुन्नतये मार्गं प्रदर्शयति च। पाणिनेः सूत्रप्रतिपादनशैलीतः, सूत्रव्याख्याने भाष्य-वार्त्तिकवचनेभ्यश्च उदाहरणमाध्यमेन यच्चित्रं यत्तत्त्वञ्चोपलभ्यते, तात्कालिकसमाजस्य यत् सामाजिकार्थनैतिकादिस्वरुपं विविच्यते, तेषां पर्यालोचनापुरस्सरमधुनातनसमाजस्योन्नतिं विधातुं शक्यते, कस्याश्चित् व्यवस्थायाः परिवर्त्तनमपि साधयितुं शक्यते इति तात्पर्यम्। अस्य दार्शनिकानुशीलनेन च स्वकीयजीवनस्य प्रकृष्टः मार्गोप्युन्मोच्यते इति रहस्यम्।

 

 

पादटीकाः -

 

   1. अनादि निधना नित्या वागुत्सृष्टा स्वयम्भूवा।

     आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः।। म.भा.टी.शा.प. 232/24

   2. श.ब्रा.- 6.5.3.4.

   3. म.भा.- 1.3.38

   4. “Language may be defined as the expression of thought by means of speech sound.”–

              Henery   Swit.

   5. “A Language is a system of an arbitrary  vocal symbols by  means of which members of a

      social-group cooperate and interact”-Strutawan

6. “Language may be defined as an arbitrary system of vocal   system by means of which,

       human beings as members of a social-group and particepants culture interact

       and communicate.” – Encyclopaedia-Britenica

      7.    परावाङ्मूलचक्रस्था पश्यन्ती नाभिसंस्थिता।  

हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ।।

    8.  म.भा. पस्पशाह्निकम्

   9.  तै.सं. 6.4.7

  10. संख्या वंश्येन-पा,सू.

  11. अथ शब्दानुशासनम्- म.भा. पस्पशाह्निकम्

  12. पा.सू.1/4/24

  13. पा.सू.1/4/27

  14. म.भा. 1/4/27

  15. म.सं.7/35

  16. कौ.अ.1/3/1

  17. पा.सू.2/1/1

  18. म.भा. 2/1/1

  19. पा.सू.1/2/45

  20. म.भा. तत्रैव

  21. पा.सू. 1/3/12

  22. म.भा. तत्रैव

  23. म.भा. 1/2/45

  24. पा.सू. 1/4/56

  25. म.भा. तत्रैव

  26. पा.सू.1/1/39

  27. म.भा. तत्रैव

  28. पा.सू.2/1/68

  29. म.भा. तत्रैव

  30. पा.सू. 2/1/68

  31. म.भा. तत्रैव

  32. तत्रैव

    33. म.भा.5/3/35

  34. तत्रैव

  35. तत्रैव

  36. मनुस्मृतिः 3/56

  37. पा.सू.4/1/93

  38. म.भा. तत्रैव

  39. म.भा.4/1/14

  40. तत्रैव

  41. म.भा.4/1/78

  42. विप्रतिषेधसूत्रम्

     43. म.भा. 1/1/1

  44. म.भा. 4/2/66

  45. काशिका. 4/2/74

  46. “अनादि निधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।

         विवर्त्ततेर्थभावेन प्रक्रिया जगतो यतः।।” वा.प.1/1

  47. द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्।

      शब्दब्रह्मणि निष्णात परंब्रह्माधिगच्छति”।।मै.उप.6/22

   

  

 

 

 

सहायकग्रन्थाः-

 1.अष्टाध्यायी–सूत्रपाठः,प्रह्लादटिप्पणीसहितः,सम्पादकः-आचार्य पं.सत्यनारायणशास्त्री खण्डूडी,

   कृष्णदास संस्कृत सीरीज 65, कृष्णदास संस्कृत अकादमी,वाराणसी-221001,1985

2. व्याकरणमहाभाष्यम्,(नवाह्निकम्), सम्पादकः-चारुदेव शास्त्री,मोतिलाल वनारस दास,1968

3. व्याकरणमहाभाष्यम्,भाष्यप्रदीपः,भाष्यप्रदीपोद्यतः,संपा.भार्गवशास्त्री,चौखम्बाप्रतिष्ठानम्,दिल्ली

4. महाभाष्यम्,सम्पादकः- श्रीगुरुप्रसादशात्री,राष्ट्रियसंस्कृतसंस्थानम्,नई देहली-110058,2006

5. वाक्यपदीयम्,ब्रह्मकाण्डम्-श्रीवामदेव आचार्यः,चौखम्बा कृष्णदास संस्कृत अकादमी,

   वाराणसी- 221001,1987

6. कौटिलीयार्थशास्त्रम्, मोतिलाल वनारस दास, वाराणसी

7. तैतरीयसंहिता,चौखम्बा कृष्णदास संस्कृत अकादमी,वाराणसी-221001

8. मनुसंहिता,सप्तमोध्यायः, चौखम्बा कृष्णदास संस्कृत अकादमी,वाराणसी-221001

9. वैयाकरणसिद्धान्तकौमुदी, व्याख्याकारः-पं.रामचन्द्र झा, चौखम्बा कृष्णदास संस्कृत अकादमी, 

   वाराणसी – 221001,2009

10. व्याकरणशास्त्रेतिहासः, सम्पादकः-लोकमणिदहालः,भारतीयविद्याप्रकाशन,जवाहरनगर,दिल्ली-2007

11.संस्कृतसाहित्येतिहासः, सम्पादकः-कपिलदेवद्विवेदी,रामनारायणलालविजयकुमार,2 कटरारोड,

   इलाहावाद,1989

12. Studies of Sanskrit Grammar, S.K. Belvelkar, Bharatiya Vidya Prakashan,1976