ISSN 0976-8645

 

Jahnavi.jpg

 

किशोराणां संवेगात्मकव्यवहारस्याध्ययनं महत्त्वञ्च

अशोक कुमार

शोधच्छात्रः (शिक्षा)

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत

विद्यापीठम्, नवदेहली-110016

 

जनाः आनुवांशिकलक्षणैः सह जन्म गृह्णन्ति। वातावरणस्यान्तःक्रियया वृद्धिं विकासश्च प्राप्नुवन्ति। अस्मिन् विकासक्रमे व्यक्तिः विविधाऽवस्थां स्वीकृत्य वर्धते। प्रत्येकावस्थां व्यक्तेः अनुभवेषु विकासप्रक्रियायां भिन्नता भवति, परम् अत्र काऽपि सादृश्यतापि दृश्यते। यदि वयं सामान्य-जनसंख्यातः यादृच्छिकविधिमाध्यमेन चयितानां सहस्रजनानां जीवनस्याध्ययनं करिष्यामः तदा प्राप्स्यामः यत् एतेषु अधिकांशजनेषु जीवनस्य व्यवहारः समान एवाऽस्ति। विविधविद्यालयेषु सामान्याः बुद्धिसम्पन्नाश्च छात्राः भवन्ति। तेषु केचन उच्च शिक्षाऽपि ग्रहणं कुर्वन्ति। सर्वेऽपि आजीविकार्थं प्रति यत् किमपि व्यवसायं चिन्वन्ति, एव्च स्वस्य, स्वकीयपरिवारस्य च उदर-पोषणे सक्षमाः भवन्ति। ते सामाजिकमान्यतानां पालनं कृत्वा विविधसामाजिकासम्बन्धानां निर्वहणेऽपि ते सक्षमाः भवन्ति। अन्यै सह तेषां सम्बन्धोऽपि सन्तोषप्रदाः भवन्ति। जीवने विविधद्वन्द्वानां, निराशाणां कुण्ठाना्च मध्ये सामान्यो भूत्वा सामाजिकनियमानां विधीनां च पालनं सहजेन कुर्वन्ति। एते स्वस्वास्थ्यवरणेनापरेषां सुखं, शान्तिं च प्रत्यक्षरूपेण कदापि नैव बाधयन्ति, प्रायशः कस्यामपि जनसंख्यायाम् अधिकाः जनाः एतादृशा एव भवन्ति। अपरस्मिन् पक्षे केचन् एतादृशाऽपि जनाः वयम् अवलोकयामः, ये सामान्यजीवनं नैव जीवन्ति। अस्य कारणमसामान्यबौद्धिकविकासः-सांवेगिकीस्थिरता-असंगठितव्यक्तित्वम् अथवा चारित्रिकदोषोऽपि भवितुं शक्यते। एते दोषाः कस्यामपि अवस्थायां सम्भवन्ति, परं किशोरावस्थायां एतानि लक्षणानि विशेषरूपेण दृष्टिगतानि भवन्ति।

बालकेभ्यः, बाल्यावस्थातः भावावरोधनस्य शिक्षा दीयते। तेभ्यः भयः, क्रोधः, घृणा च इत्यादिनां प्रदर्शनस्य निषेधो भवति। यदा छात्रा रुदन्ति तदा रोदनाय अपि निषेधः क्रियते। प्रायशः बालकेभ्यः स्व-भावनानां प्रकटीकरणस्य स्वातन्त्र्यं न भवति। किशोरावस्थापर्यन्तं बालकस्य जीवनं सतत् प्रवाहितभावनाभिः सह विविधसंवेगात्मकैः परिवर्तनैः, मानसिकक्लेशैः, झ्झावातैश्च सम्बद्धं प्रचलति। येन तस्याभ्यान्तरे भावनारोधनस्य कुण्ठास्वरूपपरिवर्तनस्य च कला समागच्छति। फलतः यदा-कदा किशोराणां व्यवहारे असामान्यता दृष्टिगता भवति। अतः किशोरावगमनम् अस्माकम् उद्देश्यमस्ति तदा एतादृशानां संवेगानामुपरि विचारकरणं नोचितं, येषां ते स्वतन्त्रो भूत्वा प्रदर्शनं कुर्वन्ति अपितु तेषां संवेगानामपि अन्वेषणम् आवश्यकं भविष्यति, यान् ते स्व आभ्यान्तरे रक्षयन्ति।

व्यक्तिः यथाक्रमेण शैशवतः बाल्यावस्थां प्रपूर्य किशोरावस्थायां गच्छति तथैव तस्य अस्तित्वसंबंधीनाम् अनुभवानां परिवर्तनं प्रचलति। शैशवबाल्ययोः बालक-बालिकयोः व्यवहारे अधिकं परिवर्तनं नैव लभते, परं दशतः एकादशवर्षस्य अवस्थायाः प्राप्तियावत् बालक-बालिकयोः स्वभावे, व्यक्तित्वे च परिवर्तनं स्पष्टरूपेण परिलक्ष्यते। समाजं प्रति किशोराणां किशोरान् प्रति समाजस्य च दृष्टिकोणाः अपेक्षाश्च झटिति परिवर्तिताः भवन्ति।

किशोरा बालकस्य सदृशाः व्यवहारं कर्तुं नैव शक्नुवन्ति एव्च नहि पूर्णरूपेण वयस्कस्य कार्याणि कर्तुं शक्नुवन्ति। अतीतकालस्याधारे संस्थीय भविष्यं प्रति उन्मुखोभूत्वा किशोराः प्रौढ़समाजे स्वस्थानं विचिन्त्य बहु अनिश्चिताः भवन्ति। ते स्व व्यक्तित्वं प्रति अत्यधिकेन सजगतां स्थापयन्ति। किशोराणां व्यक्तित्वविकासे यत्र एकस्मिन् क्षेत्रे समरूपता प्रतिभाति तत्रैव अपरपक्षे व्यक्तिगतभिन्नतायाः विशिष्टतायाश्च लक्षणानि स्पष्टरूपेण दृष्टिगतानि भवन्ति।

व्यक्तेः आनुवांशिकता कि्चिद् वर्षं यावत् समरूपे स्थिता भवति। अस्याः उपरि वातावरणस्य कोऽपि महत्त्वपूर्णप्रभावः नैव पतति, परं परिपक्वतावस्थायां व्यक्तेः वातावरणं तस्य प्रभावश्च परिवर्तयति। एव्च किशोरस्य विकासक्रमे एतादृश्याः आनुवांशिकविशेषताः प्रकटिताः भवन्ति याः व्यवहारं परिवर्तयन्ति। तथा च व्यक्तित्वस्य रूपान्तरणं कुर्वन्ति।

जरशिल्ड महोदयस्याभिमतानुसारेण किशोरस्य शारीरिकी वृद्धिः दीर्घसीमां यावत् तस्य आनुवांशिकतायाः उपरि निर्भरा भवति। तं प्रति अपरेषाम् अभिवृत्तिः, स्वस्मिन् विषये तस्य जनस्य धारणापि शारीरिकवृद्धिप्रकारेण, स्वरूपेण च अत्यधिका प्रभाविता भवति। एतद् अतिरिक्तं मानसिकगुणाः यथा - प्रत्यक्षीकरणं, स्मृतिः, अधिगमक्षमताः, कल्पना, तर्कः, निर्णयशक्तिः, विरुद्धाः मानसिकदशाः, मानसिकस्वतन्त्रता, संवेगात्मक - जीवन्चापि व्यक्तित्वं प्रभावयन्ति। किशोराः यदा सामाजिकक्षेत्रे स्वं स्थापयति तदा समाजस्य स्वरूपपरिवाराभ्यां प्रभाविताः भवन्ति। ते स्वगुणैः, लक्षणैः, व्यवहारैश्च गृहे परिवारे स्वस्मिन् समूहे समाजे च स्वीकृता उपेक्षिता अस्वीकृता वा भवन्ति। यस्य प्रभावः बालकस्य जीवनशैल्यामपि पतति। यावत् सीमा पर्यन्तं किशोराः स्वं स्वीकुर्वन्ति अस्वीकुर्वन्ति वा तावत् तस्मिन् तेषामपि व्यक्तिगतगुणानां लक्षणाना्च प्रभावः परिक्ष्यते। एतान् प्रभावान् विलोक्य अन्ये जनाः तं स्वीकरणम् अस्वीकरणं वा कुर्वन्ति। स्वज्ञानाय अथवा निकटस्थ वातावरणस्य च अवगमनाय समुचितसंवेदनस्य यथोचित् प्रत्यक्षीकरणस्य च महती भूमिका विद्यते। इन्द्रियैः सूचनाः प्राप्य मस्तिष्कस्य सहयोगेन ज्ञानस्य प्रत्यक्षीकरणं क्रियते। प्रत्यक्षीकरणे स्मृत्यानुभवयोः महत्त्वपूर्णं स्थानमस्ति। एतदर्थं एकमेव उद्दीपनं पृथक्-पृथक् जनाः विविध प्रकारेण प्रत्यक्षीकृताः भवन्ति। येन तेषां संवेगाऽपि प्रभाविता भवन्ति। अयमपि संभवः विद्यते यत् संवेगोऽपि प्रत्यक्षीकरणं प्रमाणयति, यतोहि एकमेवोद्दीपनं प्रति पृथक्-पृथक् अवस्थायां एकः जनः पृथक्-पृथक् अनुक्रियां करोति।

कस्यापि जनस्य कस्यापि अनुक्रियायाः संपादनम् एका जटिलतमा प्रक्रिया वर्तते। अनुक्रिया ऐच्छिकाऽपि भवितुं शक्यते अनैच्छिकापि। ऐच्छिकक्रियाषु व्यक्तेः इच्छाशक्तेः संज्ञानस्य च नियन्त्रणं भवति। व्यक्तेः समस्ताः अनुक्रियाः मस्तिष्केन तन्त्रिकातन्त्रेण च स्चालिताः नियन्त्रिताः च भवन्ति। नोबेल पुरस्कार सम्मानिताः थ्तंदबपे ब्तपबा महोदयानुसारे -

ष्ल्वनए ल्वनत रवले ंदक ेवततवूेए लवनत उमउवतपमे ंदक लवनत ंउइपजपवदेए लवनत ेमदेम व िचमतेवदंस पकमदजपजल ंदक तिमम ूपससए ंतम पद ंिबज दव उवतम जींद जीम इमींअपवत व ि ं अंेज ंेेमउइसल व ि दमतअम बमससेण्ष्

व्यक्तेः व्यवहारः जन्मनः समये प्राप्तानां विविधगुणानां लक्षणाना्च उपरि

आधरितः वर्तते। अस्मिन् प्रमुखं योगदानं मस्तिष्कसंरचनायां कार्यात्मकतायाः (ैजतनबजनतम ंदक थ्नदबजपवद व िठतंपद) जन्मगतसहजक्रियाणां (त्मसिमगमे) मूलप्रवृत्तिना्च भवति। विकासक्रमे व्यक्तेः व्यवहाराधिगमाभ्यां परिमार्जितो परिष्कृतो च भवति। यस्मिन् विविधमानसिकक्रियासंवेदनं, प्रत्यक्षीकरणं, स्मृतिः, चिन्तन्च सहायकरूपेण सन्ति। मस्तिष्कः विविधभागयुक्तः। यः विविधक्रियाः सम्पादयति।

मानवमस्तिष्कस्य विकसिततमः भागः ब्मतमइतंस ब्वतजमग अस्ति। प्रायशः सर्वाऽपि उच्चमानसिकक्रियाः यथा- संवेदनप्रत्यक्षीकरणाधिगमचिन्तनभाषाऽभिप्रेरणादयः अस्मादेव भागात् स्चालिताः भवन्ति। ब्मतमइतंस ब्वतजमग सममितप्रमस्तिष्क गोलार्द्धे वामगोलार्द्धे (स्मजि ीमउपेचीमतम) दक्षिणागोलार्द्धे (त्पहीज ीमउपेचीमतम) च विभाजितोऽस्ति।

ब्वतजमग इत्यस्य कोशिकानां स्नायुकोशिकाना्च संरचना एव्च वितरणं व्यवस्थायाः आधारे ब्वतजमग इत्यस्य विविधप्रखण्डान्तरेषु वर्गीकरणं तेषां विभिन्नक्षेत्रेषु वर्गीकरणं कृतं वर्तते। अस्मिन् सम्बद्धे एकं महत्त्वपूर्ण तथ्यं इदम् अस्ति यत् संरचनायाः आधारे वर्गीकृतानि विविधक्षेत्राणि प्रयोगात्मकाधारे परस्परं भिन्नतां द्योतयन्ति। (वारविक 1975) सममित स्वरूपादन्तरमपि उभौ प्रमस्तिक गोलार्द्धे भिन्नं-भिन्नं कार्यं कुरुतः। वामगोलार्द्धः (स्मजि ीमउपेचीमतम) तार्किकः विश्लेषणात्मकश्च भवति। अयं गणिते, भाषायां, संकेतक्रियाषु दक्षोऽस्ति। दक्षिणगोलार्द्धः (त्पहीज ीमउपेचीमतम) अभिव्य्जकः (म्गचतमेेपअम) कलात्मकश्च भवति। अयं परम्परागतविश्लेषणात्मक - प्रक्रियायाः स्थाने विविधाः सूचनाः दृश्यसंकेतान् परिस्थितीन् च समन्वयीकृत्य सूचनान्

संसाधयति। विविधैः शोधकार्यैः सुस्पष्ट्यते यत् पृथक्-पृथक् जनाः पृथक्-पृथक् कौशलेषु दक्षाः भवन्ति। एव्च तेषाम् अधिगम-चिन्तनशैल्यां संवेगेषु, व्यवहारेऽपि लिंगः, आयुः, बुद्धिः, संस्कृति इत्यादि दृष्ट्या अन्तरं प्राप्नोति।

1983 ईसवीये गार्डनरमहोदयः डनसजपचसम प्दजमससपहमदबम बहुबौद्धिकसिद्धान्तो ऽयं प्रस्तुतवान् यस्मिन् प्दजमत च्मतेवदंसए प्दजतं च्मतेवदंस एव्च बौद्धिकक्षमतां प्रति महत्त्वमासीत्। अस्मिन्नेव क्रमे अग्रे क्ंदपमस ळवसमउंद महोदयः बौद्धिकक्षमतायाः संवेगात्मिकाबुद्धि इति नाम दत्तवान्। अस्या विभाजनं सः आत्मज्ञान-आत्मनियन्त्रणा-सामाजिककौशलादिक्षमतासु कृतवान् तदनन्तरं संवेगात्मकबुद्धिं स्वीकृत्य अनेकानि अध्ययनानि अभवन्।

संवेगात्मकबुद्धिसम्बद्धसर्वेक्षणात्मकध्ययनम् -

ठनससमजपद वित चेलबीवसवहपबंस जलचम ;अवसण् 29ए छवण् 3द्ध 2006 ईसवीये वर्षे संवेगात्मकबुद्धिसम्बन्धितानि व्यक्तित्वप्रकारसम्बद्धानि च अनेकानि शोधकार्याणि प्रकाशितान्यभवन्।

त्वेे त्मपदीवसक ;1995द्ध महोदयेन संवेगानां थ्ममसपदह श्रनकहउमदज इत्येषा्च मध्ये सम्बन्धस्य च अध्ययनं कृतम्।

ळवसमउंद महोदयेन प्चाशत्यधिकद्विशतकर्मचारीणामुपरि कृते एकस्मिन् अध्ययने इदं प्राप्तं यत् अधिकाः कर्मचारिजनाः हृदयस्थाने मस्तिष्काय महत्त्वं ददति। तस्येदं मन्तव्यमस्ति यत् सहकर्मचारिणां कृते परानुभूतिभावस्य प्रकटीकरणेन तेषां व्यावसायिकोद्देश्यानां प्राप्तौ बाधा समुत्पन्ना भवति।

म्सप्रंइमजी डनतचील ;2006द्ध महोदयेन एकेन शोधाध्ययनेन भावप्रवणस्य व्यक्तित्वप्रकारस्य एव्च संवेगात्मक बुद्धेः मध्ये धनात्मकसहसम्बन्धः लब्धः, अनेके विद्वान्सः संवेगात्मकं बुद्धिं च परस्परं समानुवर्ती इति नैव मन्यन्ते।

यतोहि बुद्धिः प्रायः व्यक्तेः स्थिरस्य मस्तिष्कस्य च उच्चसंज्ञानात्मकपक्षरूपा वर्तते, परं संवेगः मस्तिष्कस्य अपरिष्कृतभागस्य असंज्ञानात्मकः पक्षोऽस्ति, यः शारीरिकगुणैः समुत्पन्नो भवति। बौद्धिकविचारः संवेगश्च परस्परम् आश्रितमनसः शक्तयः सन्ति, यासां विकासोपरि सम्यक् ध्यानप्रदानमावश्यकं विद्यते।

वर्तमानसमये विद्यालयीयशिक्षाया बालकानां संज्ञानात्मकविकासे

अधिकं बलं दीयते एव्च तेषां क्रियात्मक-भावात्मकपक्षयोः उपेक्षां क्रियते। अतः संज्ञानात्मक विकासेन सह तेषां क्रियात्मक-भावात्मकपक्षयोः उपरि अपि बलं प्रदातव्यम्।

 

 

सन्दर्भ-ग्रन्थ-सूची

 

1. किशोर मनोविज्ञान, देवनारायणसिंह, बिहार हिन्दी ग्रन्थ अकादमी, पटना, 1977 ।

2. च्ंदकलं ैण्ज्ञण्ए भ्नउंद ठमींअपवनतए छठज्ए 2004ण्

3. नवीन शिक्षामनोविज्ञान, पाण्डेय के. पी. विश्वविद्यालय प्रकाशन, वाराणसी, 2008 ।

4. प्रगत शिक्षामनोविज्ञान, पाल हंस राज, हिन्दी माध्यम कार्यान्वयन निदेशालय, दिल्ली विश्वविद्यालय प्रकाशन, चतुर्थ संस्करण ।

5. व्यक्तित्व मनोविज्ञान, श्रीवास्तव, रामजी और अन्य, मोतीलाल बनारसीदास नई दिल्ली, 2008 ।

6. व्यक्तित्व मनोविज्ञान, अस्थाना, मधु एवं किरण बाला वर्मा, मोतीलाल बनारसीदास नई दिल्ली, 2007 ।

7. सिंह, अरुणकुमार, उच्चतर सामान्यमनोविज्ञान, मोतीलालबनारसीदास, दिल्ली 2010 ।