ISSN 0976-8645

Jahnavi.jpg

 

विशिष्टाद्वैतवेदान्ते अपरनिगमान्तमहादेशिकः

श्रीमती.पद्मिनी श्रीधरः. P.S

शोधच्छात्रा

 विशिष्टाद्वैतवेदान्तविभागः

श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतिवद्यापीठम्

नवदेहली – 16

दूरभाषा-09810423484

 

हयग्रीवकृपापात्रमात्रेयकुलभूषणम् ।

सेवाख्यास्वामिनं सेवे भूधन्वपरदेशिकम् ।।

 

विशिष्टाद्वैतवेदान्तसम्प्रदायस्याचार्यपरम्परायां विंशतितमे शताब्दे  सेवास्वामीति नाम्ना प्रसिद्धः नल्लूर श्रीनिवासराघवाचार्य इति कश्चनाचार्यशिरोमणिः सिद्धान्तप्रचारप्रसारधुरन्धरः भुवनमिदमलङ्करोत् । अयमाचार्यः क्रिस्त्वाब्दस्य 1923 तमेऽब्दे दुन्दुभिवत्सरे चैत्रमासस्य (अप्रैलमासस्य द्वितीयदिने ) चित्रानक्षत्रयुते शुभदिने तुलाराशौ तिरुवन्नामलैजनपदस्थनल्लूरिति ग्रामेऽरसानिपालै नाम्ना प्रसिद्धाग्रहारे कवितार्किकसिंह-सर्वतन्त्रस्वतन्त्रादिबिरुदविभूषित-भगवद्घण्टावतारभूत-श्रीनिगमान्तमहादेशिक-वेङ्कटनाथस्य मातुलत्वभावं स्वतः सम्प्राप्ताप्पुल्लारस्यात्रेयगोत्रवंशपरम्परायां श्रीमतिरङ्गनायकीश्रीनिवासाचार्यदम्पत्योः ज्येष्ठकुमारत्वेन   समजनि । जनकः श्रीनिवासाचार्यश्च श्रीशैलाधिपतेः भगवतः श्रीनिवासस्य दिव्यालये सलक्षणसगणान्तयजुर्वेदपारायणपरः आसीत्  1 यथाकालं नामकरणचौलोपनयनादिसंस्कारादिभिरयमाचार्यः संस्कृतः । वैवाहिकसंस्कारश्च श्रीवत्सगोत्रोद्भवसुन्दराचार्यस्वर्णवल्लीदम्पत्योः कनकवल्लीनामन्या पुत्र्या सह समभवत् ।

            आचार्यस्यास्य स्नातकाद्यध्ययनं तिरुपतिस्थश्रीवेङ्कटेश्वरविश्वविद्यालयात् सम्पन्नम् ।   अस्याचार्यस्य साम्प्रदायिकविद्याप्राप्तिश्च उत्तमूर्. टि.वीरराघवाचार्याणां, डी.टी.ताताचार्याणां तथा नावल्पाक्कं नरसिम्हताताचार्याणां दिव्यसन्निधौ सुसम्पन्नम् ।2 वेदान्तकालक्षेपत्वेन प्रसिद्धसाम्प्रदायिकशिक्षापद्धतौ नावल्पाक्कं नरसिम्हताताचार्याणां सकाशात् श्रीभाष्यम्, रहस्यत्रयसारादिविशिष्टाद्वैतसिद्धान्ताधारभूतग्रन्थवेशेषाणामध्ययनमभवत् । स्नातकाध्ययनकाल एव दिव्यसूरिगणान्तर्गताण्डाल्नाम्नाप्रसिद्धगोदादेवीविरचिततिरुप्पावै दिव्यप्रबन्धस्य द्राविडभाषामयस्य संस्कृतभाषानुवादानुरूपपद्यान्यरचयत् । ततः प्राप्तस्नातकाद्युपाधिः मद्रपुरीस्थपाठशालायां शुद्धाद्वैतवेदान्तवैष्णवसिद्धान्तमध्यापयामास । तथैव विशिष्टाद्वैतसिद्धान्तस्य वैश्विकप्रसिद्धिकरणाय  श्रीनिगमान्तमहादेशिक-विरचित-दिव्यग्रन्थशतानामत्यन्तगम्भीरभाषया निबद्धानां, पामरजनानामपि ज्ञानलाभाय श्रीदेशिकसेवा इति नाम्नीं मासिकपत्रिकां 1948 तमे वत्सर एव  प्रारभत । अनेनाचार्येण 1967 तमे वत्सरे निगमान्तमहादेशिकानां  700जन्मर्क्षोत्सवे देशिकविरचितग्रन्थशतेषु  षष्टिग्रन्थानां प्रकाशनं नवतिदिनाभ्यन्तर एव प्रकाशितम् । तस्मिन्नवसर एवायमाचार्यः निगमान्तमहादेशिकस्मारकं मणिमण्डपम्  नामानं देवालवयं निर्माय तत्र भगवतः हयग्रीवस्य दिव्याराधनमूत्तिञ्च प्रतिष्ठापयन् ।3 आचार्यैः 1972 वत्सरादारभ्य प्रकाशमानस्य श्रीदेशिकदर्शनदैनिकपुस्तकस्य लाभेन जनाः वैष्णवनित्यकर्मानुष्ठानादिष्वनायासेन सम्लग्ना इति विषयः स्वसम्प्रदायपरिपुष्टय आचरितानुष्ठानस्य ज्यैष्ट्यश्रैष्ट्यादिकं द्योतयति ।

सेवास्वामिभिः मौलिकग्रन्थाः, भाषान्तरितग्रन्थाः, व्याख्याग्रन्थाः, कीर्तनादयश्च विरचिताः । तेषां विवरणं यथा-

 

क्रमसंख्या

मौलिकग्रन्थाः

विषयः

परिमाणः

1.     

श्रीवेङ्कटनाथीयम्

भगवन्तं श्रीवेङ्कटेशमधिकृत्य

1008श्लोकपरिमितम्

2.     

वरदाभिधानसहस्रम्

भगवन्तं श्रीवरदराजमधिकृत्य

1008श्लोकपरिमतम्

3.     

हनुमच्छतकम्

भगवन्तं हनुमन्तमधिकृत्य

101श्लोकपरिमितम्

4.     

हयवदनपञ्चाशत्(भागद्वयात्मकम्)

भगवन्तं हयग्रीवमधिकृत्य

100श्लोकपरिमितम्

5.     

लक्ष्मीपञ्चाशत्

भगवतीं लक्ष्मीमधिकृत्य

52श्लोकपरिमितम्

6.     

लक्ष्मीनृसिम्हपञ्चाशत्

भगवन्तं लक्ष्मीनृसिम्हमधिकृत्य

52श्लोकपरिमितम्

7.     

कोदण्डरामपञ्चाशत्

मधुरान्तकस्थभगवन्तं कोदण्डराममधिकृत्य

53श्लोकपरिमितम्

8.     

हयवदनगायत्रीवर्णमालास्तवः

भगवन्तं हयग्रीवमधिकृत्य

13श्लोकपरिमितः

9.     

हयवदननक्षत्रमालिका

भगवन्तं हयग्रीवमधिकृत्य

27श्लोकपरिमितः

10.  

हयवदनकलाकलनमालिका

भगवन्तं हयग्रीवमधिकृत्य

13श्लोकपरिमिता

11.  

दामोदरसुप्रभातम्

विल्लिवाक्कनगरस्थ भगवन्तं दामोदरमधिकृत्य

32श्लोकपरिमितम्

12.  

दशावतारस्तोत्रम्

भगवतः नारायणस्य विविधावतारान्नधिकृत्य

500श्लोकपरिमितम्

13.  

नृसिम्हानुध्यानम्

भगवन्तं नृसिम्हमधिकृत्य

102श्लोकपरिमितम्

14.  

घटिकाचलेशस्तवम्

भगवन्तं चोलिङ्गपुरीस्थमधिकृत्य

20श्लोकपरिमितम्

15.  

सौभाग्यलक्ष्मीस्तोत्रम्

भगवतीं महालक्ष्मीमधिकृत्य

30श्लोकपरिमितम्

16.  

पद्मावतीस्तोत्रम्

भगवतीं पद्मावतीमधिकृत्य

30 श्लोकपरिमितम्

17.  

हनुमत् जयकरम्

हनुमन्तमधिकृत्य

10श्लोकपरिमितम्

18.  

श्रीवेङ्कटेशपञ्चाशत्

भगवन्तं वेङ्कटेशमधिकृत्य

50श्लोकपरिमितम्

19.  

अक्षयाराधनम्

श्रीवेदान्तदेशिकमधिकृत्य

64श्लोकपरिमितम्

20.  

मङ्गलपद्यमालिका

अपरिपूर्णा

60श्लोकपरिमिता

21.  

अमृतवल्लीस्तोत्रम्

भगवतीममृतवल्लीमधिकृत्य

30श्लोकपरिमितम्

22.  

गोदास्तोत्रम्

भगवतीं गोदादेवीमधिकृत्य

50श्लोकपरिमितम्

 

 

क्रमसंख्या

संस्कृते भाषान्तरिततमिलभाषाग्रन्थाः

परिमाणः

1.     

तिरुप्पावै

60 श्लोकपरिमिता

2.     

नाच्चियार् तिरुमोज़ि

143श्लोकपरिमिता

3.     

तिरुवाय्मोज़ि

1100श्लोकपरिमिता

4.     

तिरुमालै

45श्लोकपरिमिता

5.     

तिरुकुरुण्दाण्डकम्

20श्लोकपरिमितम्

 

क्रमसंख्या

व्याख्याग्रन्थाः

कर्ता

भाषा

     1.

यादवाभ्युदयम्

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     2.

श्रीस्तुतिः

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     3.

वरदराजप़ञ्चाशत्

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     4.

गॊपालविंशतिः

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     5.

देहलीशस्तुतिः

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     6.

गॊदास्तुतिः

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     7.

दयाशतकम्

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     8.

कामासिकाष्टकम्

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

     9.

न्यासदशकम्

श्रीवेदान्तदेशिकः

तमिलभाषाग्रन्थः

    10.

लक्षमीसहश्रम्

श्रीवेदान्तदेशिकः

संस्कृतम्

    11.

श्रवनानन्दम् (श्रीवरदराजः)

श्रीवेऩ्कटाध्वरिः

तमिलभाषाग्रन्थः

    12.

श्रवनानन्दम्

(श्रीरामः)

श्रीवेऩ्कटाध्वरिः

तमिलभाषाग्रन्थः

 

तथैव चत्वारिंशतदधिकानि भगवत्कृष्णविषयकानि कीर्तनविशेषानि सेवास्वामिभिः लोकोपकाराय समनुगृहीतानि । अयञ्च  महानाचार्यः विद्वद्समाजे चिन्तामणिवत् विराजते स्म । स्वामिनां –सेवा- इति सम्बोधनमनन्यविशेषं किञ्चित्भावं प्रकाशयति । सेवा इति सम्मानाह्वानं न केनचिद्वैयक्तिकविदुषा समित्यादिना  वालङ्कृतमपितु तेषामत्यन्तपरिश्रमजनितभगवत्भागवतसेवैव फलीभूतं स्वयमेव विद्वत् समाजे सेवात्वभावमापन्नम् ।  सेवा इति नाम विद्वत् सेवा, सेवा योग्य इत्यादि विशेषार्थेऽपि प्रयुज्यते ।

सेवास्वामिनं प्रति सम्मानित पुरस्काराणां विवरणमपि तेषां कृतित्वालङ्कारितं व्यक्तित्वं प्रकाशयति । आचार्योऽयं  भारतदेशस्य विविधसंस्थाभिः  सम्मानिताः । स्वयं  भारतराष्ट्र्पतिनापि ईशोत्तर 1992 तमे संवत्सरे  संस्कृतसाहित्यक्षेत्रेऽनितर साधारणयोगदानाधारेण  राष्ट्रपति पुरस्कारेन सम्मानिताः । मद्रपुरीविश्वविद्यालये वैष्णवविभागे  “Resource Person”  रूपेन अपि सम्मानिताः। विविधसम्मानानां सूची यथा-

·         साहित्यरत्नम्

·         विद्याविनोदः

·         देशिकदर्शनरक्षामणिः

·         दयासेवकः

·         देशिकभक्तरत्नम्

·         देशिकसेवासक्तः

·         देशिकदर्शनसेवाधुरीणः

·         संस्कृतप्रचारचतुरः

·         शुद्धाद्वैतभूषणम्

·         देशिकदर्शनचूङामणिः

·         कृष्णसेवाधुरन्धरः

·         तिरुप्पावै थूमणिः

·         मनिदनेयमामणि

 

1994 तमे वत्सरे श्रीवेदान्तदेशिकानुसन्धानकेन्द्रस्यापि (श्रीवेदान्तदेशिक रिसर्च सेन्टर् ) वैष्णसिद्धान्तपुष्टये मद्रपुर्यां निर्माणमकुर्वन् । सेवा स्वामिभिः समाचरितभगवत्कैङ्कर्येष्वनेकेषु सत्स्वपि  द्रविडदेशे विद्यमानेषु वेदान्तदेशिकसन्निधीषु प्रतिसांवत्सरिकवस्त्रसमर्पणकैङ्कर्यममूल्यमेव ।

भगवद्रामानुजसमनुगृहीतविशिष्टाद्वैतवैष्णवसिद्धान्तस्य वेदान्तदेशिकवाण्या प्रचारप्रसाराय बद्धसङ्कल्पाः सेवास्वामिनः विविधविद्वत्मणिभिः सह प्रयत्नमकुर्वन् ।

एवमादिविशेषणविशिष्टस्याचार्यस्य भगवन्नारायणपरमपदप्राप्तिः  ईशोत्तर 2001 तमे वत्सरे मई मासे प्रथमदिनाङ्केऽभवत् । 

 

सन्दर्भानुक्रमणिका

1.    50 years of service to Desika Sampradaya- Article, The Hindu, Dated April 10, 1998

2.    Tiredless Service to Humanity- Article, The Hindu-Friday Review, Dated May 11, 2001

3.    The Ghanta Avatara and The Mani Mandapam- an Article by Shri M.K.Srinivasan, Seva Lives, N.S.Gandamani, Seva Swamy Memorial Foundation, Madras,2002

सहायकग्रन्थसूची-

1.    Seva Lives, N.S.Gandamani, Seva Swamy Memorial Foundation, Madras,2002

2.    ManiMandapa Seva (In Tamil), N.S.Gandamani, Seva Swamy Memorial Foundation, Madras, 2009

3.     www.sevaonline.org