ISSN 0976-8645

 Jahnavi.jpg

पाठ्यक्रमे संस्कृतस्याऽनिवार्यता

डा. सदानन्द झा

लगमा, दरभङ्गा

शिक्षाया उद्देश्यो न केवलो जीविकालाभः अपितु सम्पूर्णमानवीयगुणानां प्रच्छन्नानामभिव्यक्तिर्जीवनस्य पूर्णता च। एहिकामुष्मिकोन्नतिर्मानवजन्मनः फलम्। या लोकद्वयसाधिनी चतुरता सा चातुरी चातुरी इति वदन्त्यभियुक्ताः। अतः पाठ्यक्रमे तथाविधा ग्रन्था विषया वा समावेश्या येन सर्वाङ्गीणो विकासः स्यात्। न हि केवला भाषा अपितु विद्याभूता प्राचीनतमाऽभ्युदय निःश्रेयसिद्धिक्षमा संस्कृताभिधाना सुरभारतीभारतीयसंस्कृतिप्राणभूता विविधाभाषा ज्ञानोपयोगिनी नैकविषयकज्ञान-विज्ञानपीयूषवर्षिणी सकलसन्मनोहर्षिणी त्रिविधतापकर्षिणी पाठ्यक्रमेऽनिवार्यत्वेनावश्यमेव स्थापनीया वर्तते।

यदि संस्कृतभाषा यूरोपदेशीयविश्वविद्यालयादिषु कतिपयमुस्लिमदेशशिक्षास्थानेषु च पाठ्यते तदा भारते पाठ्यक्रमेऽनिवार्यत्वेनावश्यमेव निवेशनीयम्।

तत्र संस्कृतस्य पाठ्यकमेऽनिवार्यत्व इमे हेतवो भवितुर्मर्हन्ति-

१.      संस्कृतेर्ज्ञानं तत्संरक्षणं -

कस्यचिदपि देशस्य देशान्तराद्व्यावर्तकं तत्त्वं संस्कृतिरेवेति मन्ये। अस्ति भारतीया संस्कृतिः संस्कृते बद्धा। नैके संस्कारा अद्यापि संस्कृतेनैव क्रियन्ते। था कुराणस्य पाठोऽरबी भाषायामेव भवति न तु अनुवादे तथा पुराणादीनामपि स संस्कृतेनैव अतः संस्कृतज्ञानं संस्कृते संरक्षणायाऽवश्यकम्। स्वगृहे निगूढामूल्यं धनमज्ञात्वाऽन्यत्र तदन्वेषणं यथा मूर्खता तथा संस्कृते निहितानि ज्ञानविज्ञानानि न विदित्वा देशान्तरीय विषयज्ञानमपि सैव। यदि भारतं जगति समुन्नतं शिरो विधातुं जगद्गुरुत्वं चावाप्तुमिच्छति तदा तेन संस्कृतिः संस्कृतञ्चाश्रयणीयमेव। संस्कृतमेवामूल्यं धनं भारतस्य पार्श्वे विद्यते यत्तस्योत्कर्षायाऽलम्।

अतो भारतीय संस्कृतेर्ज्ञानाय रक्षणाय च छात्रान् प्रोत्साहयितुं संस्कृतस्य पाठ्यक्रमेऽनिवार्यता भवेत्।

२.     विविधभाषातत्वविज्ञानम्-

भारतीयानां कतिपयेषां विदेशीयानां च भाषानां तत्वं ज्ञातुं तत्र वैदुष्यं च लब्धुं च संस्कृतज्ञानमावश्यकम्। हिन्दीमैथिलीप्रभृतीनामाधुनिकभाषाणां ज्ञातारो दृश्यन्ते अधुना बहवः किन्तु तेषु संस्कृतज्ञानाभावान्नास्ति गाम्भीर्यम्। अतएव तथाविधानामुत्कृष्टानां साहित्यरचनानामपि सम्प्रत्यभावो दृश्यते। ये अपि हिन्द्यादिभाषाणां कवयो विद्वांसो वा बभुवुस्ते सर्वे प्रायेण संस्कृतज्ञा एवासन्। तुलसीदासविद्यापतिजयशंकरहरिश्चन्द्रजानकीवल्लभप्रभृतयोऽत्र प्रमाणभूताः सन्ति। संस्कृतं भवत्वादाधुनिकयो भाषाः संस्कृतप्राणाः। एवम् अफगानिस्तानस्य पश्तो भाषाव्युत्पादयितुं संस्कृतज्ञानमलम्। पाणिनिना पठितः पक्थनशब्दः पाठान शब्दस्यैव संस्कृतेरूपम्। एवं यदीच्छति देशोऽयं विविधाधुनिकभाषासु विद्यार्थिनो व्युत्पादयितुं तदा पाठ्यक्रमेऽवश्यं निवेशनीयं संस्कृतमनिवार्यत्वेन भाषाविज्ञानच्छात्राणां कृते संस्कृतमुपादेयतमम्।

 

३.     आधुनिकविषयज्ञाने संस्कृतस्योपादेयता-

ज्ञानविज्ञानादिक्षेत्रे देवस्तोत्रमाध्यमेन विविधरहस्योद्घाटकाः वेदा परमाणुसिद्धान्तप्रतिपादकन्याय-वैशेषिकदर्शने चरकसुश्रुतादिचिकित्साशास्त्राकाशीयग्रहनक्षत्रगतिनिरुपकार्यभटवरामिहिरादिरचितज्योतिषशास्त्रम्, खगोलशास्त्रीयः पृथ्वीगतिसूचिकामहामहोपाध्यायगोकुलनाथप्रणीता कादम्बरीप्रश्नोत्तरमाला चेत्यादीनि सर्वाणि संस्कृत एव सन्ति। संगणकयन्त्राय संस्कृतभाषोपयुक्ततमेति प्रत्यक्षसिद्धम्। अत आधुनिकविषयविज्ञानेऽपि छात्रेषु प्रकर्षमाधातुं पाठ्यक्रमे संस्कृतं भवेदनिवार्यम्।

४.      संगीतसाहित्य राजनीति शस्त्रास्यज्ञाने संस्कृतमुपयुक्ततमं वर्तते भरतमुनिप्रणीतं संगीतसाहित्यरहस्यबोधकं नाट्यशास्त्रम्। साहित्यसिद्धान्तप्रतिपादकाः सन्ति भामहोद्भटवामनकुन्तकानन्दवर्द्धनमहिमभट्टाऽभिनवगुप्तमम्मटविश्वनाथजगन्नाथप्रभृतिप्रणीतामूर्धन्याग्रन्थाः एवं राजनीत्यर्थशास्त्रादिविषयाः महाभारते विदुरनीत्यादौ चाणक्यस्यार्थशास्त्रादौ लभ्यन्ते। शस्त्रास्त्रबोधकाः सन्ति नैके ग्रन्थाः। अगस्त्यमुनिप्रणीतं वैमानिकं शास्त्रमाधुनिकानां विमानचालकानां पाठ्यक्रमे दातु शक्यते। उक्त ग्रन्थानामध्ययनं विना न कोऽपि कुशलः विमानचालकः, संगीतज्ञः, साहित्यज्ञादि न भवितुमर्हतीति निश्चप्रचम्। अत उक्तग्रन्थाः निवेशनीया पाठ्यग्रन्थे।

५.     बौद्धसम्पदो रक्षणम्-

सम्प्रति जगति पेटेण्टिकरणस्यप्रक्रिया दृश्यते। नैके वैदेशिका इदं धान्यादि मम इति कृत्वा तत् स्वकीयं मन्यन्ते। अनेकविधमौषधं स्वीक्रियते। संस्कृतज्ञानाभाव इदं न वक्तुं शक्यते यदीदं भारतीयमिति। अत आधुनिकस्वबौद्धसम्पदो रक्षितुमपि छात्रैः संस्कृतमध्येतव्यम्। वर्तते समुचिताऽनिवार्यता संस्कृतस्य पाठ्यक्रमे।

६.     मानवतावादस्य प्राचुर्यम्-

सम्प्रति मानवाधिकाररक्षणार्थं नैकाः संस्थाः निर्मीयन्ते। तत्र के कीदृशाश्च मानवाधिकारा इति प्रश्नस्योत्तर संस्कृतेन यथोचितं दातुं शक्यते। संस्कृतदृष्टिर्न मानवमात्रविषया, अपि जडचेतनात्मकब्रह्माण्डकल्पविषया। अत एव संस्कृतं व्यापकम्।

अतो मानवाधिकारं ज्ञातु संस्कृतमवश्यमेव ज्ञेयम्। एवं विधानैककारणैः प्राचीनतमायाः प्रायेण समस्तभाषाज्ञानविज्ञानजनन्याश्चिरन्तनैः सन्मार्गानुसारिभिः संरक्षिताया मुस्लिमशासकैरपि समादृतायाः सम्पोषितायाः समाकृष्टानेकाङ्ग्लबुधहृदयायाविश्वस्य मुख्यसाल शिक्षासंस्थाने पाठ्यमानायानिरूपितभौतिकराजनीतिकचिकित्साखगोलादिविषयायासन्निहितसकलमानवकल्याणत्त्वायाः संस्कृतभाषाया पाठ्यक्रमेऽनिवार्यता भवेदिति।

यद्यपि संस्कृतनिष्ठा विषयाः सम्प्रति विविधभाषासु भारतीयासु वैदेशीयासु चानुदिता सन्ति। ततश्च संस्कृतस्य सर्वैर्विषया ज्ञातुं शक्यन्ते तथाप्यनुवादोऽनुवाद एव भवति। नह्यसौ सर्वथा यथार्थं प्रतिपादयति। वर्तते बिम्बप्रतिबिम्बयोर्महदन्तरम्। अतः संस्कृतं पाठ्यक्रमेऽनिवार्यतया निवेशनीयमिति।