ISSN 0976-8645

 Jahnavi.jpg

 

रसायन शास्त्र सूत्राणि

डॉ. कृष्ण काकलवार

संस्कृतोपन्यासक:, केन्द्रीय विद्यालय, गुलबर्गा

विश्वस्य प्राचीनतमं साहित्यं तु वेदा: एवा । वेदे सर्वेषामपि विषयाणां विवरणं सूत्ररूपेण कृतमस्ति। परं सूत्रात्मकत्वात् अबोधगम्यत्वाच्च तेषां सविस्तरनिरुपणं वेदाङ्गेषु, उपनिषत्सु, रामायण - महा भारतादि ग्रन्थेषु दृश्यते। वेदेषु न केवलं आध्यात्मविद्या परं लौकिकसुखानुभवस्य उपयोगविद्या: तासां मौलिकरुपेण विचार कृत:। विभिन्न विषयाणां, शास्त्राणां चर्चा विहिता। भौत शास्त्रस्य, गणित शास्त्रस्य, कृषिविज्ञानस्य विवरणं वैदिक वाLमये उपलभ्यते। आधुनिक वैज्ञानिका: अत्रत्यानां विषयाणां समग्ररूपेण अध्ययंन कृत्वा संशोधनमुखेन बहुचर्चित विषयान् दृष्टिपथमानयन्।

वैदिक वाङ्मये रसायनशास्त्रपूरका विषया: बाहुल्येन दृश्यन्ते। रसपरिपाकस्य प्रभाव: रासयनिक द्रव्याणां निर्माणं तेषामुपयोग: बहुमिश्रित द्रव्याणां बहुल प्रयोग: इत्यादीनि सविस्तरं विवरीकृतानि सन्ति। केचन विषया: संक्षेपेण दृष्टिपथमानीयन्ते ।

1) लोह ज्यावालानां वर्णा :

प्रज्वलितेषु लोहेषु के के वर्णा: सम्भवन्तीति सविस्तरं प्रतन्यते।

आवर्तमाने कनके पीता तारे सिता प्रमा।

शुल्बे नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरी।।

वङ्गे ज्वाला कपोताभा नागे मलिनधूमका।

शैले तु धूसरा देवि आयसे कपिलप्रभा।।

अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत्।

वज्रे नानाविधा ज्वाला खसत्वे पाण्डुरप्रभा।। 1

(रसार्णव)

2) पादरसस्याहरणम् :

उक्तोषधैर्मदतस्य यन्त्रस्थितस्योध्र्वमधश्च तिर्यक्।

(रसरत्न समुच्चय)

पादरसस्य नागदोष एवं वंगदोषनिवारणार्थं क्रियमाणप्रक्रिया आहरणमित्युच्यते।

3) लवणानि :

लवणानि षडुच्यन्ते सामुद्रं सैन्धवं बिडम्।

सौवर्चलं रोमकञ्च चूल्लिकालवणं तथा।। 3

(रसरत्नसमुच्चय)

षड् विधलवण प्रभेद: उच्यते

There are six types of Salts...

Samudram - Sea salt (NaCl+MgCl)

Saindhavam - Rock salt (NaCl+traces of Na2S)

Bida - the salt mixture which produces aqua- regia on heating.

Sauvarca - KNO3(Potassium Nitrate)

Romaka - NaCl 75% + Na2So418% traces of Na2Co35%

Cullika lavana - salt formed in the hearth by burning wood (NH4Cl)

 

4) स्फोटका : (Explosives)

अङ्गारस्यैव गन्धस्य सुवर्चिलवणस्य च।

शिलाया हरितालस्य तथा सीसमलस्य च।।

हिङ्गुलस्य तथा कान्तरजस: कर्पूरस्य च।

जतोर्निल्याश्च सरलनिर्यासस्य तथैव च।।

समन्यूनाधिकैरंशैरिचूर्णान्यनेकश:।

कल्पयन्ति च तद्विद्याश्चन्द्रिकाभातिमन्ति च। 4

(शुक्रनीति)

अंगार सुवर्चिलवण, शिला, हरिताल, सीसमल, हिंगुल, कान्तरस एवं कर्पूर एतेषां विविधप्रमाणेषु मिश्रणं कृत्वा स्फोटकान् निर्मयन्ते।

ऋग्वेदस्य नवम मण्डले सोमरस्य विस्तृत विवेचनं कृतं यत्र मदिरा प्रभेदानां उल्लेख:, तेषां उपयोगमुखेन रोगाणां नवारणं, परीमित प्रमाण सेवनस्य आंवश्यकता, तस्य उत्पादन प्रक्रिया तेषां प्रबलप्रयोगेण हानि : उत्कटकोटि प्रमाणस्य यत्र आवश्यकता इत्यादीनि विवृता: सन्ति ।

स्वादिधया, मदीधया, पवस्व सोम धारया।

इन्द्राय पातवे सुत:.....दशोत्तराणि ऋचाैव पावमानी शतानि षट्।। 5

मदिरा प्रभेदा : कौटिलयस्य अर्थशास्त्रे, एवं चरकसंहितायां च विवृता: सन्ति।

1) मेदक : Rice

2) प्रसन्न : Flower, Spices and Fruits

3) आसव : Sugar and Honey

4) अरि : Jaggery-Long Black Pepper

5) मैरेय : Triphala and Pepper

6) मधु : Grapes

7) महासुरा : Mango Fruits and Spices

8) फलाम्ल : Fruits-Acid Drinks

9) आम्लशीधु : Spirits Distilled From Molasses

(Kautilyas)

2) \$bmgd : 3) _ybmgd :

4) gamgd : 5) [w[mgd :

 

1) धान्यासव : Grains and Cereals

2) फलासव : Fruits

3) मूलासव : Roots

4) सरासव : Wood

5) पुष्पासव : Flowers

6) पत्रासव : Leaves

7) काण्डासव: Stems (Stacks)

8) त्वगासव : Barks

9) शर्करासव : Sugar (s) (Charaka Samhita)

इदमपि स्पतया वैदिकवाLमये दृश्यते यत् रासायनिक प्रक्रिया मुखेन प्राणिषु - लता - गुलमादिषु च विशिरुपेण प्रकाश : (ज्येति:) निस्सारितो भवति। तादृश अद्भुत चमत्कारम् इदानी इiश्र्रिाiशिीलशलिश इति कथ्यते। अस्मिन् विषये प्रसिद्धरसायनशास्त्रप्राध्यापक: अ.ठ. तर्रीवशv र्चीींहू महोदयस्य वचनानि दृव्यानि सन्ति -

वनेचारणां वनितासखानां दरीगृहोत्सनिषःतभास:।

भवन्ति यत्रौषधयो रजन्यामतैलपूरा : सुरतप्रदीपा : ।।

(कुमारसम्भवम्-1-10)

द्रक्ष्यस्योषधयो दी दीपयन्त्यो दिशो दश।।

मृतसंजीवनीं चैव निशल्यकरणीमपि।

सावण्र्यकरणीं चैव संधानकरणीं तथा।।

(रामायणम्-युद्धकाण्डे-6.74-32-33)

आहारस्य पचनप्रक्रिया विषयेऽपि अनेक रासायनिक प्रक्रिया: सम्भवान्ति। भुःत्तमन्नम (प्राणि-पशु-पक्षि-लता-गुलमादिभि:) कथं जीर्णं भवति? तस्य प्रक्रिया कीदृशी? इति सञ्जाते प्रश्ने छान्दोग्योपनिषत् अस्य समाधानमाकलयति -

अन्नमशितं त्रेधा विधीयते तस्य य: स्थविधो धातु:

तत्पुरीषं भवति यो मध्यम: तन्मांसं योऽणिधस्तन्मन:।।

आप: पीतास्त्रोधा विधीयन्ते तासां य: स्थविधो धातु:

तन्मूत्रं भवति यो मध्यम: तल्लोहितं योऽणि: स प्राण:।।

तेजोऽशितं त्रेधा विधीयते तस्य य: स्थविधोधातु :

तदस्थि भवति यो मध्यम: समज्ज योऽणिध: सा वाक्।। 9

(छान्दोग्योपनिषत्)

एवं रसायन शास्त्रपूरका: विषया: बहुधा बहुषु ग्रन्थेषु उपलभ्यन्ते। सर्वेषां विश्लेषणाम् लेखनविस्तारभयात् नोपपद्यते। अलमतिविस्तरेण।

 

संन्दर्भग्रन्था

 

1. रसार्णव - 4-47-51

2. रसरत्न समुच्चय - 7-67

3. रसरत्न समुच्चय - 10-11

4. शुक्रनीति - सेनानिरुपण प्रकरणम् 206-208

5. ऋग्वेद - नवम मण्डलम्

6. कौटिलीयम् अर्थशास्त्रम् - 2-25-26

7. चरक संहिता -

8. छान्दोग्योपनिषत् - 6-5-1,2,3