ISSN 0976-8645

 

Jahnavi.jpg

रसविमर्शः

अनिल कुमारः (शोधच्छात्रः), साहित्यविभागः

श्रीलालबहादुरशास्त्रीराष्ट्रिसंस्कृतविद्यापीठम्, नवदेहली- 16

 

रसस्वरूपस्य विषये न केवलं लौकिकवाङ्मयेऽपितु वैदिकवाङ्मयेऽपि विस्तरेणोल्लेखः प्राप्यते। ऋग्वेदे रसशब्दो जलसाररूपे[1], गोदुग्धे[2], पृथ्व्याः सारभूततत्त्वे[3], वीर्ये[4], सोमे[5], सङ्घसूक्ते[6], कविकाव्ययोः[7], आनन्दे[8] चार्थेष्ववलोक्यते। यजुर्वेदे षड् ऋतुणां विषये रसशब्दस्य प्रयोगो वर्तते[9]। नाट्यवेदस्योत्त्पतिर्विषयेऽथर्ववेदाद्रसः स्वीकृतोऽस्ति[10]। कोषग्रन्थेषु रसशब्दस्यानेकेष्वर्थषूल्लेखो वर्ततेऽमरकोषे मधुरो लवणः कटुः तिक्तोऽम्लार्थेषु[11] अपि च शृङ्गारादौ विषे वीर्ये गुणे द्रव्येऽर्थेषु च[12]। निरुक्तेऽश्विन उत्पत्तिर्विषये रसस्योदकतेजसोः[13] अर्थयोः, इन्द्रस्य कर्मणि-आदित्यस्यादाने, रश्मिना धारणे[14] च रसस्य वर्णनमायाति। व्याकरणे ‘रस्यते आस्वाद्यते’ अनया व्युत्पत्त्या रसशब्दः परमात्मनः, मधोः, सोमस्य, गन्धस्य मधुरस्य चार्थेषूक्तमस्ति[15]। रामायणे नव रसैर्युक्तकाव्यस्य वर्णनं प्राप्यते[16]। महाभारतस्य गृद्धगोमायु-संवादः प्रबन्धध्वनिर्विषयोऽलङ्कारशास्त्रे प्रसिद्धः[17]। चरकसहितायां- ‘रसनार्थो रसः’ इत्युक्त्वा रसनेन्द्रियस्य विषयो रस इति प्रतिपादित:[18]। तैतरीयोपनिषदि  ब्रह्मानन्दवल्यामात्मनोऽपरपर्यायो रस इत्युक्त्वा तेनैवानन्दस्य प्राप्तिर्निगदिता[19]। यथाऽस्य रसस्य विषयोऽन्येषु

विषयेषु प्राप्यते ततोऽपि विस्तरेण काव्यशास्त्रे आभरतादद्यपर्यन्तमस्य  चर्चा प्रचलिताऽस्ति।

 

आचार्य भरतेन ‘नहि रसादृते कश्चिदर्थः प्रवर्तते’[20] इत्युक्त्वा रसस्य महत्वं नाट्यशास्त्रे प्रतिपादितम्। भामहेन[21] शृङ्गारादिषु रसेषु रसवदलङ्कारः, उत्साहवीरयोः उर्जस्व्यलङ्कारः स्वीकृतः। दण्डिना[22] रसभावादय रसवत्, प्रेयस्, उर्जस्वी रूपेण निगदिता। उद्भट्टेन[23] यद्यपि अलङ्काराणां प्राधान्यं स्वीकृतं तथापि दण्डीभामहयोः सदृशमेव रसस्य विषये स्वविचार: प्रकटितः। नाट्यशास्त्रे प्रतिपादितैः शृङ्गारादिभिः सह तेन शान्तोऽपि रसः स्वीकुर्वता तेषां नवसंख्या प्रतिपादिता। वामनः ‘सन्दर्भेषु दशरूपकं श्रेय’ इत्युक्त्वा रसस्य महत्त्वमङ्गीकृतवान्। कान्तिगुणस्य लक्षणेऽपि रसविषये तेन सङ्केतितम्[24]। आचार्यरुद्रटः[25] काव्ये रसविधानस्य यत्न करणीय इति स्वीकुर्वन् शान्तप्रेयाश्च रसावपि प्रतिपादयति। कुन्तस्य[26] मते रत्यादिभावा एवाक्लिष्टरूपेण परितुष्टो रसत्वमाप्नुवन्ति रसमेव सर्वालङ्कारस्य जीवितं काव्यस्य सारतत्त्वं च तेन स्वीकृतम्। नाट्यशास्त्रात्परं यथा दशरूपके रसस्य विवेचनं धनञ्जेन विहितं न तथाऽन्येन। रसस्य स्वरूपं प्रतिपाद्य तत्र विभावानुभावसञ्चारिभिः स्थायिभावो यदाऽऽस्वाद्यत्वमाप्नोति तदेव रसः[27]। औचित्यविचारचर्चायां क्षेमेन्द्रो[28] यथा गुणालङ्काररीतिवृत्तिषु औचित्यमङ्गीकरोति तथैव रसेऽपि, तस्मिन् मते यथा वसन्तेनाशोकोऽङ्कुरितो भवति तथैव रसेन मनः। आचार्य हेमचन्द्रः काव्यानुशासने भरतसम्मतं मतं प्रतिपादयति। शारदातनयेन भावप्रकाशने नाट्यशास्त्रमाधारीकृत्य, अपि च पूर्वर्त्यलङ्कारशास्त्राण्याधारीकृत्य विभावानुभावव्यभिचारीणां नाट्याङ्गानां च सविस्तरं वर्णनं कृतम्। अग्निपुराणकारः[29] काव्ये वाग्वैदग्ध्यप्रधानं रस एव जीवितं स्वीकरोति। ध्वन्यालोककारः[30] असलक्ष्यक्रमव्यङ्गये रसः, भावः, रसाभास, भावाभासः, भावशान्तिः, भावोदयः, भावसन्धिः, भावसबलता इत्येषां सर्वेषां सविस्तरेण वर्णनं करोति। राजशेखरः काव्यमीमासायां काव्यस्यात्मा रसमङ्गीकरोति। व्यक्तिविवेककारो[31] महिमभट्टोऽपि काव्यस्यात्मा रसमेव भणति। भोजराजस्य[32] मते शृङ्गार एव रसः, सोऽप्यभिमानरूपो येनान्वितं काव्यं कमनीय भवति। समस्तवाङ्मयं वक्रोक्तिः-रसोक्तिः-स्वभावोक्तिषु विभज्य तत्र रसोक्तिरेव प्राधन्येन तेन स्वीकृता। आचार्य मम्मटो[33] रसवस्त्वलङ्काररूपेण त्रिविधव्यङ्गयं स्वीकृत्य रसस्य लक्षणं प्रस्तौति। आचार्यरुय्यकोऽलङ्कारसर्वस्वे[34] मम्मटस्य मतमनुसृत्यैव रसस्वरूपमुक्तवान्। आचार्य विश्वनाथेन[35] साहित्यदर्पणे तृतीये परिच्छेदे रसस्यार्त्यन्तं सरलरित्या साङ्गोपाङ्गं वर्णनं कृतम्। पं. जगन्नाथेन[36] ‘भग्नावरणा चिदेव रसः’ इत्युक्त्वास्यातीवसूक्ष्मं विवेचनं रसगङ्गाधरे विहितम्।

 

रसनिष्पत्तिः -

रसनिष्पत्तिर्विषये आचार्यभरतेन नाट्यशास्त्रे रससूत्रं यदुक्तं तस्य सूत्रस्य व्याख्यायामनेके विवादाः सञ्जातास्तेषु प्रामुख्येनोत्पत्तिवादस्य भट्टलोल्लटः, अनुमितिवादस्य श्रीशङ्कुकः, भुक्तिवादस्य भट्टनायकः, अभिव्यक्तिवादस्याभिनवगुप्तश्च सन्ति। अन्येऽपि बहव सन्ति येषामुल्लेखो रसगङ्गाधरे पं. जगन्नाथेन रसप्रकरणे कृतम्। अत्र सर्वप्रथमं भरतमुनिनोक्त नाट्यशास्त्रे रसनिष्पत्तिर्विषयकं मतं प्रस्तूय तदनन्तरमेते चत्वारो वादा विवेचयिष्यन्ते-

 

1. आचार्यो भरतः

नाट्यशास्त्रे आचार्यभरतेनरससूत्रम् - ‘‘विभावानुभावव्याभिचारिसंयोगाद्रस निष्पत्ति”[37] रित्युक्तम्। अस्य सूत्रस्य व्याख्यां कुर्वन्नाहः स एव - ‘‘यथा नाना व्यञ्जनौषधिद्रव्य संयोगाद् रसनिष्पत्तिस्तथा नानाभावोपगमाद् रसनिष्पत्तिः। यथा गुणादिभिर्द्रव्यैर्व्यञ्जनैरोषधिभिश्च षड् रसा निर्वतन्ते, एवं नानाभावोपहिता अपि स्थायिनो भावो रसत्वमाप्नुवन्ति[38]। रसस्य स्वरूपं किमित्यस्मिन् विषये तेन भणितम्- ‘‘रस इति कः पदार्थ:? अत्रोच्यते। आस्वाद्यत्वात्। कथमास्वाद्यो रसः? अत्रोच्यते यथाहि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादीश्चाप्यधिगच्छन्ति तथा नाना भावाभिनया व्यञ्जितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षका:[39] इति। नाट्यशास्त्रे आचार्यो भणति यद् रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति। केषाचिन्मते परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति। एवं नाट्यशास्त्रकारो रसस्यप्राधान्यं भावैर्युक्तो रसः, न च रसेन भाव इति स्वीकृत्य सर्वेषामपि तत्त्वानां वर्णनात् नाट्ये रसमेव प्रामुख्येन प्रतिपादयति।

 

2. भट्टलोल्लटः

यथा भरतमुनिना नाट्यशास्त्रे रससूत्रं निरुपितं तथैव तस्य सूत्रस्य व्याख्यायां सर्वप्रथमं मीमांसकोऽयं भट्टलोल्लटो रसोत्पत्तिर्वादं प्रस्तौति यस्य सारभूतोऽर्थो वर्तते यत् - स्थायिनां विभावैः (कारणैः) संयोगात् (उत्पाद्योत्पादकभावात्) रसस्योत्पत्तिः, अनुभावैः (कार्यै:) संयोगात् (गम्यगमकभावरूपात्) रसस्याभिव्यक्तिः, व्यभिचारिभिः (सहकारिभिः) संयोगात् (पोष्यपोषकभावरूपात्) रसस्य पुष्टिर्भवतीति। अस्य भट्टलोल्लटस्य मतं काव्यप्रकाशकारेण चतुर्थे उल्लासे एवं व्याख्यातम् - विभावैर्ललनोदद्यानादिभिरालम्बनोद्दीपनकारणैः, रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूपतानुसन्धनान्नर्तकेऽपि प्रतीयमानो रस इति भट्टलोल्लट प्रभृतयः[40]। भट्टलोल्लटस्य मते रसरूपो मुख्यस्थायिभावः रामादीनां हृदये भवति परञ्च यदा नायको रामादिवत् वस्त्राणि धृत्वा तत्सदृशमेवाभिनयति तदा सहृदया नायके रामस्यारोपं कृत्वा तत्रैव रसमास्वाद्यन्ति। येन प्रकारेण रज्जौ सर्पस्य भानेन तत्र भयमुत्पद्यते तथैव रामादिगत रत्यादिभावो नाट्यादिनैपुण्येन नटादिषु भासते, सहृयानां हृदये विशेषं चमत्कारं च जनयति स एव रसपदवीमाप्नोति।

 

3. श्रीशङ्कुकः -

श्रीशङ्कुको रससूत्रस्य व्याख्या कुर्वन् तत्र निष्पत्तिशब्दात् अनुमिति स्वीकृत्यानुमितिवादं प्रस्तौति। अस्य व्याख्यायाः सारोऽयं वर्तते यत् - स्थायिनो विभावादिभिः संयोगात् - अनुमाप्यानुमापकभावरूपात् सम्बन्धात् रसस्य निष्पत्तिरनुमितीति। अस्य मतमाचार्यो मम्मटः काव्यप्रकाशे इत्थं निरूप्यति ‘राम एवायम् अयमेव राम इति, न रामोऽयमित्यौत्तरकालिके बाधे रामोऽयमिति राम स्याद्वा न वाऽयमिति, राम सदृशोऽयमिति च सम्यङ्मिथ्यासंशयसादृश्य प्रतीतिभ्यो विलणया चित्रतुरगदिन्यायेन रामोऽयमिति प्रतिपत्त्या ग्राह्ये नटे –

 

सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः।

मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गताः।।

दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च।

अविरलविलोलजलदः कालः समुपागताश्चायम्।।

 

इत्यादिकाव्यानुसन्धानबलाच्छिक्षाभ्यासनिर्वर्त्तितरस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथाऽनभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः ‘संयोगात्’ गम्यगमकभावरूपाद् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद् रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावस्तत्रासन्नपि समाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः[41]।’ अर्थात् यथा कस्मिन् स्थाने धूमत्वाद् वह्नेः ज्ञानं क्रियते उदाहरणार्थम् ‘पर्वतो वह्निमान् धूमत्वात्’ इत्यत्र धूमेनावृत्ते पर्वते वह्नेरनुमानमिति। एवमेव नटेऽविभावत्वादपि तस्याभिनयेन प्रकाशितैर्विभावदिभिः रत्यादिभावोऽनुमीयते सैवानुमीति स्वसौन्दर्यबलात्सामाजिकानां हृदये आस्वाद्यमानत्वाद् रसत्वमधिगच्छति अपि च दुष्यन्तोऽयं शकुन्तला विषयकरतिमान् शकुन्तलाद्यात्मक विभावादि सम्बन्धितत्वाच्छकुन्तला-विषयक कटाक्षादिमत्वाद्वा यो नैवं सो नैवं यथाऽहमिति सहृदयानां हृदये  रसानुमिति रुत्पद्यते।

4. भट्टनायकः -

रससूत्रस्य व्याख्याकारोऽयं भुक्तिवादसिद्धान्तं साङ्ख्यदर्शनमाधरीकृत्य प्रस्तौति। अस्मिन् मते विभावादिभिर्भोज्यभोजक सम्बन्धात् सहृदयैर्भुज्यते अर्थात् विभावादिभिः संयोगात् भोज्यभोजकभावसम्बन्धात् रसस्य निष्पत्तिर्भुक्तिर्भवति। काव्यप्रकाशकारोऽस्य मतमेवं प्रतिपादयति - ‘न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते, नोत्पद्यते, नाभिव्यज्यते, अपितु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधरणीकरणात्मना भावकत्व व्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्ति सत्त्वने भोगेन भुज्यते, इति भट्टनायकः[42]।’ भट्टनायकस्यानुसारेण काव्यनाट्ययोः शब्देषु अभिधालणाभ्यां भिन्ना विलक्षणाशक्तिर्भवति, सा च भावना भावकत्वव्यापारेण वोच्यते। काव्यनाट्ययोः ललितकलानां सा शक्ति साधारणीकरणव्यापारेण सहृदयसम्बन्धात्प्रतीयते तेनैव व्यापारेण च रसस्य भुक्तिर्भवति। कथमिति जिज्ञासायां सहृदयानां हृदये रजस्तमसोः अभिभूते सति सत्वगुणस्योद्रको जायते, सत्त्वगुणश्च प्रकाशमयः आनन्दमयो वेद्यान्तरसम्पर्कशून्यो वर्तते एवम्भूताऽऽनन्दात्मिका संविदेव रसस्य भोगः साक्षात्कारो वा। तेनैव भोजकत्व व्यापारेण रसस्यास्वादनमिति।

 

 

अभिनवगुप्त :

अस्य रससूत्रस्य व्याख्या सर्वै आचार्यैः स्वीकृता। तस्मिन् स्थायिभावानां विभावादिभिः सह व्यङ्गयव्यंजकभावरूप संयोगाद् रसस्याभिव्यक्तिर्भवति यस्मात्कारणाद् वादोऽयं रसाभिव्यक्तिर्नाम्ना प्रसिद्धः। वस्तुतस्तु अलङ्कारशास्त्रस्यैवायं सिद्धान्तः। अस्य सारभूतोऽयमर्थो वर्तते यत् - स्थायिनां विभावादिभिर्व्यङ्गयव्यंजकभावरूपात् सम्बन्धात् (संयोगात्) रसस्याभिव्यक्तिः (निष्पत्तिः) इति। काव्यप्रकाशकारोऽभिनवगुप्तस्य मतं स्वग्रन्थे एवं निरूपयति - ‘लोको प्रमदादिभिः स्थाय्यनुमानेऽभ्यासपाटवतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभावादिशब्द व्यवहार्यैममैवैते, शत्रोरेवैते, तटस्थस्यैवेते, न ममैते, न शत्रोरेते, न तटस्थस्यैते, इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाव वशोन्मिषितवेद्यान्तरसम्पर्कशून्यापरिमितभावेन प्रमात्रा सकल सहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाण: पुर इव स्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत्सर्वं तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिक चमत्कारकारी शृङ्गारादिको रसः।’ अर्थात् सहृदयानां हृदये रत्यादिभावाः संस्काररूपेण तिष्ठन्ति ते च सहृदया लोके ललनादिभिः कारणैः रत्यादीनामनुमाने निपुणा भवन्ति काव्ये नाट्ये च कारणत्वादिपरिहारेणालौकिकविभावादीनां रूपं धारयन्ति। काव्यशक्त्या च ते विभावादय लौकिकरूपेण प्रतीयन्ते। सहृदयेषु विद्यमाना रत्यादिभावा लौकिकविभावेन व्यंजनयाभिव्यक्तो भूत्वाऽऽस्वाद्यन्ते। एवमास्वाद्यमानो विलक्षणोऽयं रसः।

काव्यशास्त्रस्यानेकेषु ग्रन्थेषु रसस्य विषयोऽत्यन्तविस्तरेण प्रतिपादितमस्ति। तेषु काव्यप्रकाशः साहित्यदर्पणः, रसगङ्गाधरः, नाट्यशास्त्रस्याभिनवभारतीटीका, ध्वन्यालोकस्य लोचनटीका एतादृशा ग्रन्थास्सन्ति यत्र रसस्यात्यन्तसूक्ष्मतया विवेचनं प्राप्यते। रसगङ्गाधरे पं. जगन्नाथेन रसविषकाणि एकादश मतानि प्रदर्शितानि।

रसस्यालौकिकत्वम् -

रससूत्रस्य निष्पत्ति कथं संजाता इत्यस्मिन् विषये विभिननानि मतानि विवेचितानि। रसस्वरूपस्य विषये -

सत्वोद्रेकादखण्ड स्वप्रकाशानन्दचिन्मयः।

वेद्यान्तर स्पर्शशून्यो ब्रह्मस्वादसहोदरः।।

लोकोत्तर चमत्कारप्राणः कौश्चित्प्रभातृभिः।

स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः।।[43]

 

साहित्यदर्पणकारेणेदमुक्तम्। स एव रस: स्वस्वरूपात्पूर्वम् -

कारणान्यथ कार्याणि सहकारिणि यानि च।

रत्यादे स्थायिनो लोके तानि चेन्नाट्य काव्ययोः।।

विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः।

व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः[44]।। इति।

 

आचार्यमम्मटेन रसविषयकाणि चत्वारि मतानि निरूप्यता तत्रैवाभिनवगुप्तसम्मतं रसस्यालौकिकत्वं स्वीकृतम्। आचार्यविश्वनाथस्य प्रतिपादनमपि तथैवास्ति। रसस्यालौकिकत्वं कथं सिद्धयति इत्यस्मिन् विषये केचन बिन्दव दृष्टिपथं समायान्ति -

1)    रसः ज्ञाप्यो नास्ति यतोहि स्वसत्तायां तस्य कदापि प्रतीतेर्व्यभिचारो नैवभवति यदा रसो भवति प्रतीयते एव।[45]

2)    रसः कार्योऽपि नास्ति विभावादि समूहालम्बनत्वात्।[46]

3)    रसो न नित्यो यतोहि विभावादिज्ञानात् पूर्वं तस्य ज्ञानमपि नैव भवति। यदि उच्यते विभावादिज्ञानं रसस्य ग्राहकं, तस्मात्पूर्वं स्थिते सत्यपि रसो न प्रतीयते, तन्न, यतोहि असंवेदनकालेऽपि रसस्य सत्ता नैव भवति।[47]

4)    रसो भविष्यकालेऽपि नैव सम्भवो यतोहि प्रकाशानन्दरूपस्य रसस्य साक्षाततयाऽनुभूतिः सञ्जायते यदि भविष्ये स्यात्तदा कथं तस्यानुभवः।[48]

5)    रसो न कार्यो, न च ज्ञाप्यः ,स तु विलक्षणत्वात् वर्तमानोऽपि न।[49]

6)    रसो निर्विकलपकज्ञानस्य विषयोऽपि नास्ति, निर्विकल्पकज्ञाने नैव कोऽपि सम्बन्धो लक्ष्यते परं च रसे विभावादीनां विशिष्टवैशिष्ट्योः सम्बन्धः प्रतिभासते। अपि च निर्विकल्पकज्ञानं निष्प्रकारकं भवति तस्मिन् कस्यापि धर्मस्य प्रकारतारूपेण भानं नैव भवति परं च रसस्तु परमानन्दस्तत्रानन्दमयत्वं प्रकारतारूपेण भासते एव तस्मान्न रसो निर्विकल्पकग्राहकः।[50]

7)    रसः सविकल्पकोऽपि नास्ति यतोहि सविकल्पकज्ञाने घटपटादयः शब्देन प्रकाश्यन्ते परञ्च रसेऽभिलापसंसर्ग योग्यता नैव अर्थात् स शब्देन नैव वक्तुं शक्यते तस्माद्रसोऽनिर्वचनीयः।[51]

8)    रसो न परोक्षो यतोहि तस्य साक्षात्कारः क्रियतेऽपरोक्षोऽपि न काव्यशब्दसम्भवात्। तस्मात्कारणाद्रसः सहृदयैः वैद्यः, सत्यं, अलौकिकश्च वर्तते तस्य रसस्य च सद्भावे आस्वाद्यमाना विदुषां चर्वणा एव प्रमाणम्।[52]

एवं रसस्यालौकिकत्वं सिद्धयति एव।

सन्दर्भग्रन्थसूची

1.   ऋग्वेदः

2.   महाभारतम्

3.   नाट्यशास्त्रम्

4.   काव्यप्रकाशः

5.   तैत्तरीयोपनिषद्



[1] ऋ.वे. – १.२३.२३

[2]  ऋ.वे. – १.३७.५

[3]  ऋ.वे. – १.७१.५

[4]  ऋ.वे. – १.१०५.२

[5]  ऋ.वे. – ५.४३.४

[6]  ऋ.वे. – ९.६७.३

[7]  ऋ.वे. – ९.८४.५

[8]  ऋ.वे. – १०.९.२

[9] य.वे- – २.३२

[10]  ना.शा. – १.१७

[11]  अ.को. – १.५.९

[12]  अ.को. – १.७.१७,२.९.९९

[13]  निरु – १२,१,१

[14]  निरु – ७.३.११

[15] एरच सूत्रे ३.३.५६

[16]  रामा.बाल. ४.९

[17]  महाभा.शा.प.अं. १५६

[18]  च.सं. -१.६३

[19] तै.उ. – २.६

[20] ना.शा. -६.३२

[21] का.अ.भा. ३.६

[22]  का.आ.- २.७५

[23]  का.सा.सं-४.३,४

[24] का.सू.१.३.३०,३.२.१४

[25] का.आ.रु.-१२.२,१२.१३

[26] वा.जी.-३.७,१४

[27]  द.रू.-४.१०

[28]  औ.वि.-१६

[29]  अ.पु.-३.३९.१३

[30]  ध्व.-२.३

[31]  व्य.वि-१

[32]  स.क.-५.१,५.८

[33]  का.प्र.-४

[34]  अ.स. पृ.२७, भुमिका

[35]  सा.द.-३परि.

[36]  रसगं-१

[37]  ना.शा.-६.३२, वृत्तौ

[38]  ना.शा.-६.३२, वृत्तौ

[39]  ना.शा.-६.३२, वृत्तौ

[40]  का.प्र.-४ रसप्रकरणम्

[41]  का.प्र.-४ रसप्रकरणम्

[42]  तत्रैव

[43]  सा.द. ३.२,३

[44]  का.प्र.-४

[45]  सा.द. ३.२०

[46]  सा.द. ३.२१-१

[47]  सा.द. ३.२१-२

[48]  सा.द. ३.२२ -१

[49]  सा.द. ३.२२-२

[50]  सा.द. ३.२३,२४

[51]  सा.द. ३.२४-२,२५

[52]  सा.द. ३.२६