ISSN 0976-8645

Jahnavi.jpg

पाणिनीयधातुपाठे गत्यर्थकधातुविचारः

DSC00360.JPG

योगानन्दझा

शोधच्छात्रः, श्रीसदाशिवपरिसरः, पुरी

व्याक्रियन्ते व्युत्पाद्यन्ते प्रकृतिप्रत्ययविभागाः क्रियन्ते, येन तच्छास्त्रम्भवति व्याकरणम्। या व्याकरणपरम्परा इदानीन्दृश्यते, सा तु पाणिनीयपरम्परा। अत्र जिज्ञासा भवति यत्- किं महर्षिपाणिनिरेव व्याकरणशास्त्रप्रवर्तक उत न? समाधानत्वेन व्याकरणमहाभाष्यस्थोद्धरणमागच्छति पुरतः तद्यथा-अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपद पाठ। एवं हि श्रूयते- बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम । बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम। किं पुनरद्यत्वे[1]। इति। एतेन ज्ञायते यत् नेयन्नूतना। तथा च स्वयम्भगवान् पाणिनिः पूर्वतनाचार्यान् स्मरति; तद्यथा-

1.    आचार्यः आपिशलिः[2]

2.    आचार्यः काश्यपः[3]

3.    आचार्यः गार्ग्यः[4]

4.    आचार्यः गालवः[5]

5.    आचार्यः चाक्रवर्म्मणः[6]

6.    आचार्यः भारद्वाजः[7]

7.    आचार्यः शाकटायनः[8]

8.    आचार्यः शाकल्यः[9]

9.    आचार्यः सेनकः[10]

10. आचार्यः स्फोटायनः[11]

इत्त्थं सूत्रपाठे उल्लिखितास्सन्ति। इतोऽपि बहव आचार्यो बभूवुः। एतेषाम्मूललक्ष्यं शब्दसाधुत्वमेव। वैय्याकरणाश्शब्दान्वाख्यानङ्कुर्वन्ति न तु नूतनशब्दान् रचयन्ति। तत्र अन्वाख्यानाय प्रकृतिः अर्थात् धातुः, प्रत्ययाश्चापेक्षिताः अंशाः भवन्ति। धातुं विना कार्यमिदन्न भवितुमर्हति। अतः धातुज्ञानमत्यावश्यकम्। भगवान् पाणिनिरपि तथैव स्वीकरोतीति प्रतीयते; अनेनोद्धरणेन- केचित्तु उपदेशपदार्थमित्याहुः-

धातुसूत्रगणोणादिवाच्यलिङ्गानुशासनम्।

आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥[12] इति।

 

अत्रापि उपदेशावसरे धातूपदेशः प्रथमः। निरुक्तकारो यास्कस्तु- सर्वे शब्दाः धातुजाः[13] इति स्वीकरोति। अस्तु। यथा लोके धातुव्यवहारो भवति तथैव व्याकरणेऽपि। पाणिनीयधातुपाठे दशगणो विद्यन्ते। तत्र प्रथमो भ्वादिगणस्तत्रापि प्रथमो धातुः भूसत्तायाम् इति। अतो भू इति प्रथमधातुत्वाद्भ्वादिगण इति। क्रमेऽस्मिन्-

भ्वाद्यदादिजुहोत्यादिदिवादिस्स्वादिरेव च।

तुदादिश्च रुधादिश्च तनादिक्रिचुरादयः॥ एते दशगणाः।

 

तथा च एक अतिरिक्तो गणः कण्ड्वादिगण नाम्नाभिधीयते। एतेषु धातुषु गत्यर्थकहिंसार्थकदर्शनार्थकच्छेदनार्थकेत्याद्यर्थकधातवो दृग्गोचरो भवन्ति। तत्रापि गत्यर्थकधातूनाम्बाहुल्यन्दृश्यते।

1.    भ्वादिगणस्थगत्यर्थकधातवो यथा- स्पदिकिञ्चिच्चलने, अतसातत्यगमने, षिधगत्याम्, अर्दगतौ याचने च, सेकृ, स्रेकृ, स्रकि, श्रकि, श्लकिगतौ। ककि, वकि, श्वकि, त्रकि, ढौकृ, त्रौकृ, ष्वस्क, वस्क, मस्क, टिकृ, टीकृ, तिकृ तीकृ- इत्यादयस्सन्ति।

2.    अदादिगणे- हनहिंसागत्योः (हन्धातोः प्रयोगः हिंसायामेव प्रसिद्धः, परन्तु अयङ्गत्यर्थकोऽपीति ध्येयम्) इण् गतौ, या प्रापणे, वागतिगन्धनयोः, द्रा कुत्सायां गतौ इत्यादयः।

3.    जुहोत्यादिगणे- ओहाङ्गतौ, ऋ, सृ गतौ एते गत्यर्थकाः अत्र।

4.    दिवादिगणे- स्रिवु गतिशोषणयोः, इष गतौ, ईङ्गतौ इति।

5.    स्वादिगणे- हिगतौ वृद्धौ च, तिग्गतौ इति।

6.    तुदादिगणे- ऋषी गतौ, जुडगतौ, शुनगतौ, पिगतौ इति।

7.    रुधादिगणे- अञ्जुव्यक्तिम्रक्षणकान्तिगतिषु, ओविजीभयचलनयोः।

8.    तनादिगणे- ऋणुगतौ।

9.    क्र्यादिगणे- ॠगतौ, व्रजसंस्कारगत्योः, श्वर्तगत्याम्।

पुनश्च कण्ड्वादिगणे धातुत्रयङ्गत्यर्थकम्प्रतिभाति- चरणवरणगतौ, तरणगतौ इति।

अनेन प्रकारेण संक्षेपतः प्रदर्शितो मया। वस्तुतो धातुपाठे सर्वाधिकधातवो गत्यर्थका एव। इदानीं सर्वत्र प्रचलितधातुप्रयोग एव दृश्यते; परन्तु यदा शब्दविवेचनम्भवति, तदा सम्पूर्णधातुपाठ एव शरणम्। वैय्याकरणाः अव्यावहारिकाः भवन्ति इति प्रायः जनानाम्मतम्, यतोहि वैय्याकरणास्तु पाठाधारेण कार्यङ्कुर्वन्ति, लोके सः धातुः प्रसिद्धः भवतु अथवा अप्रसिद्धः। केचन वदन्ति यत् अप्रसिद्धधातूनाम्प्रयोगो न भवेत्; परन्त्वत्र विचारणीयो भवति यत् यदि वयं सर्वेषां धातूनाम्प्रयोगे न जागरुको भवामः; तर्हि या दशा इदानीं वैदिकशब्दानामस्ति, सा एव अत्रापि भविष्यतीति मे मतिः। मन्ये, वैदिकशब्दानाम्प्रयोगः लोके न भवितुमर्हति किञ्चित्पार्थक्यात्। अत्र तु तादृशी व्यवस्था न। यथा छात्राः इदानीं पेट्रोलस्य, डीजलस्य, रेलवेस्टेशने, रुकिष्यति, खरीदवान् इत्यादिशब्दानाम्प्रयोगङ्कुर्वन्ति। न जानेऽहङ्कथमेतादृशी दुस्थितिः। अतोऽहन्निवेदये यदस्मिन् विषये वयन्न जागरुको भवामश्चेत् के भविष्यन्ति? इति विचार्य विदुषां श्रेष्ठानां संस्कृतज्ञानाञ्चरणकमलयोस्साष्टाङ्गप्रणामकुसुमाञ्जलिं वितीर्य विरमामि विस्तरात्।

॥इति शम्॥


 

सन्दर्भग्रन्थसूची

         शास्त्री, चारुदेव, भगवत्पतञ्जलिविरचित व्याकरणमहाभाष्य (प्रथम नवाह्निक), मोतीलाल बनारसीदास, वाराणसी

         झा, डा. नरेश, महर्षि पाणिनिविरचिता अष्टाध्यायी शान्ति संस्कृतहिन्दीव्याख्याविभूषिता, चौखम्बा सुरभारती प्रकाशन, वाराणसी

         लघुसिद्धान्तकौमुदी, श्रीमद्विद्व्द्वर-वरदराजाचार्यप्रणीता, गीताप्रेस, गोरखपुर

         झा, डा. नरेश, महामुनि-पाणिनिप्रणीतः धातुपाठः, सार्थः सप्रयोगश्च, चौखम्बा सुरभारती प्रकाशन, वाराणसी

 

 



[1] भगवत्पतञ्जलिविरचित व्याकरण महाभाष्य (प्रथम नवाह्निक), पृ० १९ मूल

[2] वासुप्यापिशलेः, 6.1.92

[3] तृषिमृषिकृषेः काश्यपस्य, 1.2.25

[4] अड्गार्ग्यगालवयोः, 7.3.99

[5] तथैव

[6] ई चाक्रवर्म्मणस्य, 6.1.130

[7] ऋतो भारद्वाजस्य, 7.2.63

[8] लङः शाकटायनस्य, 3.4.111

[9] लोपः शाकल्यस्य, 8.3.19

[10] गिरेश्च सेनकस्य, 5.4.19

[11] अवङ्स्फोटायनस्य, 6.1.123

[12] लघुसिद्धान्तकौमुदी, पृ० सं० 10 टिप्पण्ण्याम्।

[13] इति वचनं प्रसिद्धमेव।