ISSN 0976-8645

 

Jahnavi.jpg

प्रकाशकीयम्

1-Copyof100_6705.JPG

बिपिन कुमार झा

साहित्यविभागः

राष्ट्रियसंस्कृत संस्थानम्,

 पुरी, ओडिशा

 

शङ्करः पार्वतीनाथः सर्वेषां च हृदिस्थितः।

शङ्करश्चापरो विद्वान् शङ्करश्शङ्करोतु नः॥

 

अयि गीर्वाणीसमाराधनतत्पराः!,

इहलोके मानवजीवने क्षणा आयान्ति यान्ति च। तत्र पुण्यास्ते क्षणाः यत्र भगवन्निर्देशनं श्रृण्वन् जनः किमपि  महत्त्वमयङ्कार्यमारभते। अपि च समारब्धकर्मपरिसमाप्तये सपरिकरबन्धनमुद्यमञ्च करोति। अस्मत्कृतेऽयम्महत्प्रमोदावसरो यत् सारस्वत-निकेतनमित्याख्येन जालपुटमाध्यमेन प्रचाल्यमानं संस्कृतसंरक्षणसंवर्धनरूपकार्यन्तदनुस्वीतेयं जाह्नवीति नामधेयाऽन्तर्जालीयशोधपत्रिकाऽऽरम्भतस्सतं जाह्नवीव प्रवाहमानाऽस्ति।

भागीरथरथखातावच्छिन्नजलप्रवाहरूपेयम्परमपवित्रपतितपावनी पत्रिका नीलाद्रिवसतस्त्रैलोक्यपरिपालकश्रीजगन्नाथशिवयोरनुकम्पया विविधेस्थलेषु ज्ञानवारिणा मनस्तोषन्निधाय, प्रकृतेऽष्टमाङ्के पञ्जाबविश्वविद्यालये संस्कृतविभागे विविधपदमलङ्कुर्वता नैकशास्त्रकृतभूरिपरिश्रमेण श्रीमता शङ्करजी-झामहाभागेन सुरसरस्वतीसमाराधनतत्पराणाम्पुरतो लोकार्पयिष्यते।

गतेष्वङ्केष्वनेकास्त्रुटय पाठकवृन्दैस्सूचितास्तासाम्परिष्कारमिह यथासाध्यङ्कृतमस्माभिः। पुनश्च याः काश्चित्त्रुटयो नयनपथे आगच्छेयुः, अवश्यमेव सपदि  सूचयन्तु भवन्तो येन पत्रिकायास्सौन्दर्याभिवर्द्धनं समयेन भविष्यति।

अष्टमाङ्के ये केचिद्विद्वांसः, विदुष्यः, शोधार्थिनः, संस्कृतानुरागिणश्च महत्परिश्रमं विधाय स्वकीयलेखान् प्रेषितवन्तस्तेभ्यस्सर्वेभ्य पत्रिकापक्षतस्सादरङ्कार्तज्ञन्तनोमि। अपि च लेखप्रेषयितृविद्वद्भ्यो मन्निवेदनं यत् ते ’यथानिर्दिष्टं’ शोधपत्रप्रेषणङ्कुर्युः। अन्यथाऽऽस्माभिस्संशोधनसमये प्रकाशनसमयेऽपि च ’आर्काइव’ इत्यत्र संरक्षणे महत्काठिन्यमनुभूयते। उदाहरणरूपे केचित् MS-Word रूपे प्रेषणमकृत्वा JPG आदिरूपे प्रेषणङ्कुर्वन्ति, अनेन महती समस्या भवति संशोधने। यदाकदाचिदपि भवन्तश्शोधपत्राणि प्रेषयन्ति, तत्र पादटिप्पणी (फुटनोट), सन्दर्भग्रन्थाः (बिब्लिओग्राफी), कूटशब्दाः (की वर्ड), शोधसारः (अबेस्ट्रैक्ट), प्रतिज्ञापत्रकञ्च (अण्डरटेकिंग फार्म) अवश्यमेव स्युः।

अग्रिम्माङ्को नवमाङ्को विशेषाङ्करूपे भविष्यति। यस्य लोकार्पणं विविधशास्त्रपरायणस्य श्रीमतः डा. नारायण दाशमहोदयस्य निर्देशने कलिकातानगरे आगामिफेब्रुअरीमासस्य प्रथमे सप्ताहे भविष्यतीति निश्चयः। अङ्कस्यास्य चयनितलेखानां प्रकाशनं लोकार्पणञ्च मुद्रितग्रन्थरूपे भविष्यति। नवमाङ्कस्य कृते 15th Decmber, 2011 यावत् एव प्रेषयितुं शक्यते। तत्र  सम्यक् पूरितम् undertaking form भवेदेव।

पत्रिकायाम्प्रकाशनकाले समीक्षार्थं (रिव्यूकृते) विदुषां साहाय्यं सर्वथाऽपेक्षते। ये केचिदपि विद्वांसो विदुष्यश्च साहाय्यङ्कर्तुमिच्छन्ति कृपया सविवरणं jahnavisanskritjournal@gmail.com CC to kumarvipin.jha@gmail.com इत्यत्र सूचयन्तु।

विश्वसीमि यद्भवन्तस्सर्वथा प्रकाशनकार्येषु साहाय्यन्निर्देशनञ्च करिष्यन्ति येनेयं ज्ञानत्रिपथगा (संस्कृत-हिन्दी-आङ्ग्लानि) गङ्गा सर्वदा प्रवाहमाना स्यादिति शम्। अन्ते संस्कृतमातरम्प्रणम्य भवताङ्करकमलयोस्समर्प्यते पत्रिकेयम्...।

सुरसरस्वतीसमुपासकः

बिपिनकुमारझा

देवोत्थान-एकादशीव्रतम्