ISSN 0976-8645

 

Jahnavi.jpg

 

भाषायाः स्वरूपं महत्त्वं च

                                                                                           ऋषिराजः

                                                                                    शोधच्छात्रः (शिक्षाशास्त्रविभागः)

                                                                        श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्

                                                                                    नवदेहली-16

            मानवजीवने भाषायाः महत्त्वपूर्णं स्थानं विद्यते। भाषा मानवानां श्रेष्ठा ज्योतिः। भाषा अस्माकं जीवनस्य अविभाज्यम् अंगं वर्तते। उक्तमपि ‘तां द्योतमानां स्वयं मनीषाम्’  भाषा तेजोमयी सुखदायी च अस्ति। अस्माकं जीवनस्य भाषां विना कीदृक् स्वरूपं भविष्यति इति वयं कल्पनामपि कर्तुं न शक्नुमः। विदन्त्येव सर्वे यत् सकलचराचरपंचतत्त्वांचिते प्रपंचे अनादिकालादेव लोकव्यवहारनिर्वहणाय भाषैव जुषते प्राधान्यत्वम्। समग्रेऽस्मिन् जगति व्याप्तानां चेतनाचेतनानां भावाभिव्यक्तये भाषायाः साधनत्वं परिलक्ष्यते। विचाराभिव्यक्तेः मुख्यं साधनं भाषेति सर्वैरंगीक्रियते। सामान्यरूपेण भाषा नाम व्यक्ता वाक् अर्थात् भावाभिव्यक्ते प्रयुक्तानां सार्थकशब्दानां समष्टिरेव। भाष्यते व्यक्तरूपेण किंचिन्मनोगतमभिव्यंज्यते इति भाषा, भाष् व्यक्तायां वाचि इति धातोः ‘गुरोश्चहलः’ इति स्त्रीप्रत्यये टापि भाषेति सिद्धयति (भाष्  अंग्  टाप् = भाषा ) यस्य योगार्थो भवति व्यक्तरूपेण जल्पनम्। चिन्तनस्य विचारविनमयस्य च प्रबलमाध्यमरूपेण मानवविकासस्य प्रमुखसाधनत्वेन मानवसमाजनिर्माणस्य विकासस्य च निदानत्वेन भाषायाः महत्त्वं विद्वद्भिः अंगीकृतम्। मानवसभ्यताकलासंस्कृतिभ्यां सह बौद्धिकसामाजिकभावात्मकविकासे भाषाया विशिष्टमेव स्थानं भवति। मानवस्य भावाभिक्रमे भाषायाः उद्गमोऽभवत्। अस्य विकासक्रमस्य महत्ता छान्दोग्योपनिषदः एतेन मन्त्रेण स्पष्टीभवति। तस्याधारेण भाषा ‘रसः’ इति संज्ञयाभिधीयते। यथा-

‘पुरुषस्य वाग् रसः वाच ऋग् रसः’

            अर्थात् मानवानां स्वमनसि विद्यमानानामनुभावानामभिव्यक्तिस्वरूप क्रमबद्धसार्थकध्वनिरेव भाषा। येन कारणेन भाषा ‘रसः’ इति शब्दस्वरूपे अभिहिता भवति। अतएव भाषा नाम अभिप्रायप्रकटनं टमीपबसमे व वनहीजेद्ध साधनम्। ॅपससपंउ श्रंउमे महोदयस्याभिप्रायः अस्ति यत्- ‘मानवः कश्चन् भाषमाणः पशुः’ ऋग्वेदे इयं ‘अमृतस्य केन्द्रम्’ देवानां जिह्वापि कथिता। यथा- ‘जिह्वा देवानाममृतस्य नाभिः’  इति।

            देवानाममृतस्य नाभिस्वरूपा भाषा स्वव्यापकाऽर्थे बाह्यव्यवहाराणामान्तरिकव्यवहाराणां च संचालनं करोति। वाक्यपदीयकारस्यानुसारेण भाषायाः स्वरूपम्-

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।।

            वाक्यपदीयकारस्य उपर्युक्तकथनेन सुस्पष्टीक्रियते यत्-अनादिनिधनस्य ब्रह्मणः अक्षरात्मकस्य वर्णात्मकस्य ध्वन्यात्मकस्य शब्दतत्त्वस्य स्फोटात्मकस्य शब्दस्य तद्रूपं भाषा अस्ति यतः जगतः प्रक्रिया अर्थभावेन विवर्तते’ तात्पर्यम् अस्ति यत्-अर्थावबोधकारकः शब्दो भाषा अस्ति। भाषा लोकव्यवहारं चालयति, यदि भाषा न स्यात् जगदिदं गाढे तमसि निमज्जेत्। भाषां विना जनाः नैजमाशयं प्रकटयितुं न प्रभवेयुः। अत काव्यादर्शे आचार्यदण्डिना उक्तम्-

इदमन्धतमः  कृत्स्नं  जायेत भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।

भाषाविद्भिः भाषायाः परिभाषा बहुभिः प्रकारैः परिभाषिताऽस्ति-

1.         स्ंदहनंहम उंल इम कमपिदमक ंे ंद ंतइपजतंतल ेलेजमउ व िअवबंस ेलउइवसे इल उमंदे व िूीपबीए ीनउंद इमपदहए ंे उमउइमते व िं ेवबपंस हतवनच ंदक चंतजपबपचंदजे पद बनसजनतम पदजमतंबज ंदक बवउउनदपबंजमण् -इन्साइक्लोपीडिया ब्रिटैनिका

2.         भाषाविचारयोर्मध्ये अत्यधिकं भिन्नता नास्ति। वस्तुतः विचारवस्तु आत्मनः अध्वन्यात्मिका वार्ता विद्यते। परन्तु तदेव यदा ध्वन्यात्मिका सम्भूय मुखाद् बहिः प्रकटी भवति तदा भाषा इति कथ्यते। - प्लाटो

3.         ध्वन्यात्मकशब्दैः विचाराणां प्रकटीकरणमेव भाषा। . ैूमंज

4.         भाषोच्चारणावयवैः समुच्चारितानां यादृच्छिकध्वनिप्रतीकानां सा व्यवस्था अस्ति यस्याः माध्यमेन कस्यापि समाजस्य जनाः परस्परं विचाराणाम् आदान-प्रदानं च कुर्वन्ति।  -डा. भोलानाथतिवारी

5.         । स्ंदहनंहम पे ं बवउचसमग ेलेजमउ व िेचममबी ींइपजेण् दृभ्ंबामज

6.         प् ूपसस बवदेपकमत ं संदहनंहम जव इम ं ेमज ;पिदपजम वत पदपिदपजमद्ध व िेमदजमदबमेए मंबी पिदपजम पद समदहजी ंदक बवदेजतनबजमक वनज व िं पिदपजम ेमज व िमसमउमदजेण् . ब्ीवउेाल

            सामान्यतया भाषायाः परिभाषारूपेण सर्वेषामभिमतमस्ति यत्-भाषा यादृच्छिकवाचिक- ध्वनिसंकेतानां सा पद्धतिर्यया जनाः परस्परं विचारस्य विनिमयं कुर्वन्ति। भाषा तादृशी यादृच्छिकरूढध्वनिसंकेतप्रणाली भवति यामवलम्ब्य जनाः परस्परं विचारविनिमयं कुर्वन्ति। भाषां विना जगद्व्यवहारः कथमपि न सम्भवति। किं×च लोकानां प्रवृत्तिः निवृत्तिरपि शब्दादेव सम्पद्यते। शब्दं विहाय अर्थव्यवहारः न जायते। तदुक्तम्-

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।

अनुविद्धमिव   ज्ञानं  सर्वं  शब्देन भासते।।

अपि च वाक्सूक्ते उक्तम्-

अहमेव वाता इव प्रवामि, आरम्भमाणा भुवनानि विश्वाः।

शब्ददेव जगतः सृष्टिः अतः उक्तम्-

यं कामये तमुग्रं, कृणोमि, तं ब्राह्मणं तमृषिं तं सुमेधाम्।

            यद्यप्यक्षिनिमीलनेन हस्तपादादि चालनेन, अन्यैः इंगितेश्चापि स्वाभिलाषं प्रकटयितुं शक्यते, तथापि शब्दः एव प्राधान्येन मानवानां प्रवृत्तौ च निमित्तम्। अतः उक्तम्-

ज्ीवनहीज पे पउचवेेपइसम ूपजीवनज ूवतकेए ज्ीवनहीज पउचमसे ंबजपवदए ंबजपवद बतमंज ींइपजए ींइपज वितउे बींतंबजमतए बींतंबजमत कमबपकमे कमेजपदलण्.श्रीवद क्मूमल

यास्केन पाणिनिना चाऽपि लोकव्यवहृतभाषार्थे भाषाशब्दः एव प्रयुक्त-

‘भाषायामन्वध्यायं च’

‘भाषायां सदवसश्रुवः’

भाषा सम्बन्धिचिन्तनं वेदादिष्वपि लभ्यते यथा-

उत त्वः पश्यन् न ददर्श वाचम्, उत त्वः शृण्वन् न शृणोत्येनाम्।

उतो    त्वस्मै    तन्वं   विसस्रे,  जायेव  पत्युशती  सुवासाः।।

            अर्थात् भाषा सुस्पष्टा सुन्दरविन्यासयुक्ता स्यात् येन श्रोता वक्तृणामाशयावबोधने झटिति समर्थो भवेत्। भाषा स्वयमेव सतां दधाति। उक्तमपि-‘तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम्’।  भाषाणामनेकरूपता पृथक्-पृथक् संराजते। भाषा सामान्यजनजीवनेषु प्रविश्य जीवति। भाषैव एतादृक् शक्तिमती या हि सम्पूर्णं संसारं एकसूत्रे समायोजयितुं समर्था। स्वभाषा भाषाविद् जनान् एकसूत्रो बध्नाति। तस्मात् भिन्नाः सन्तोऽपि जनाः एकतामनुभवन्ति। विश्व-भाषा, विश्व-मानवान् एकस्मिन् सूत्रो संयोज्य विश्वबन्धुत्वभावनां प्रति नमति। उक्तमपि-‘अहं राष्ट्री संगमनी वसूनाम्’।

 

शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी।

यन्नेत्रः   प्रतिमात्मायं   भेदरूपः   प्रतीयते।।

            वस्तुतः सभ्यतायाः संस्कृतेश्च आधारः भाषा एव अस्ति। वस्तुतः भाषामाश्रित्य एव मानवाः पशुतामपहाय मानवतायाः सोपाने आरूढाः अभवन्। मानवस्य सर्वविधप्रगतेराधारः भाषा एव अस्ति। भाषायां कर्तृत्वं धर्तृत्वं हर्तृत्वं च विद्यते। रचनात्मकं कार्यं विभिन्नाश्च योजनाः निर्वाचनादिकं शिक्षणं रक्षणं वैज्ञानिकं यात्रा व्यापारः चिकित्सादिकं प्रौद्योगिकं यत्किमपि कार्यं तत्सर्वं भाषया एव सम्पद्यते। भाषा एव समाजं दधाति यदि भाषा न अभविष्यत् तर्हि मानवसमाजस्य उन्नतिः न अभविष्यत्। यतोहि भाषा एव मानवानां तत्त्वं यस्मात् सर्वविधव्यवहारः प्रवर्तते। उक्तमपि - ‘तेन जीवन्ति प्रदिशश्चतस्रः’।  भाषायाः प्रभावात् चतस्रः दिशाः व्यवस्थिताः सन्ति।

            मानवजीवनं अल्पकालिकं विद्यते। तस्य शक्त्यः निर्धारिताः सन्ति। तथापि भाषायाः माध्यमेन मानवस्य कियान् विकासः संजातः। साम्प्रतं विश्वस्मिन् अनेकाः सामान्याः प्रायोगिका वा विद्याः विकासं गताः। मानवेन अप्रत्याशितं ज्ञानं विज्ञानं च वृद्धिं प्रति नीयते। विद्वांसः निरन्तरं ज्ञानसाधनायां रताः। अनेन प्रकारेण मानवसंस्कृतेः भव्यनिर्माणं जायते। एतदेव दैवीशक्तेः विकासः अनुप्रवेशो वा। जन्मतः मानवः पशुरेव भवति। आहार-निद्रा-भय-मैथनुप्रभृतिगुणेषु मानवे पशौ च अभेदः। उक्तमपि-‘आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम्’  तथापि मानव-सविधेः अमूल्या निधिरस्ति भाषा। मानवः प्रयत्नेन भाषाम् अर्जयति। अनया भाषया मानवः ज्ञानसागरम् अधिगच्छति। सः सभ्यो संस्कृतो भूत्वा जीवनम् आनन्दप्रदं प्रकल्प्य पशुत्वं च परित्यज्य देवत्वमार्गम् अधिगन्तुं समर्थो भवति। उक्तमपि पतंजलिना-‘एकः शब्दः सुज्ञातः सुष्ठुः प्रयुक्तः स्वर्गे लोके कामधुग्भवति’।

            प्रत्येकं देशस्य स्वसंस्कृतिः भवति। तस्यां च संस्कृत्यां तस्य देशस्य व्यवहारलोकाचाराणां वा वर्णनं समुपलभ्यते। तस्याः संस्कृत्याः संरक्षणार्थं संवर्धनाय च कस्या अपि भाषायाः नितान्तमावश्यकता भवतीति ज्ञातव्यम्। इयं भाषा सामान्यतः जनसाधारणस्य भाषायाः भिन्ना भवति। जनसमुदायश्च इमां भाषां श्रद्धया अवलोकयति। इयं भाषा यद्यपि अल्पजनैः अवगन्तुं शक्यते तथापि समाजे प्रतिष्ठां धारयति।

 

सन्दर्भग्रन्थाः -

1.         अथर्ववेदसंहिता, पं. रामस्वरूप शर्मा गौड, चौखम्बा संस्कृत प्रतिष्ठान, 38 यू. ए. बंगलो रोड, जवाहर नगर, दिल्ली-7, 1990

2.         अष्टाध्यायी सूत्रपाठः        श्रीनारायणमिश्रः, चौखम्भा सुरभारती प्रकाशनम्, वाराणसी, प्रथमसंस्करणम्, 1970

3.         ऋग्वेदसंहिता     सायणभाष्य, कृष्णदास अकादमी, पो. बा. 118, (चित्रा सिनेमा बिल्डिंग) चौक, वाराणसी, 1983

4.         काव्यादर्शः, दण्डिः, श्रीशिवनारायणशास्त्री, परिमल पब्लिकेशन्स, प्रथमसं. 1988

5.         छान्दोग्योपनिषदः, उपनिषत्संग्रहः, पं. जगदीशशास्त्रिणः, मोतीलालबनारसीदासः, दिल्ली, 1984

6.         निरुक्त   विद्यामार्तण्ड पं. सीताराम शास्त्री, परिमल पब्लिकेशन्स, 27/28 शक्तिनगर, दिल्ली-7, 2002

7.         भाषाविज्ञान, डा. भोलानाथतिवारी, किताब महल एजेन्सीज, सरोजनी नायडू मार्ग, इलाहाबाद

8.         वाक्यपदीयम्, भर्तृहरिः, पं. रघुनाथशर्मा,   सम्पूर्णानन्दसंस्कृतविश्वविद्यालय, वाराणसी, प्रथमसंस्करणम्, 1963

9.         व्याकरणमहाभाष्यम् (प्रदीपोद्योतौ),          पतंजलिः, कैयटनागेशौ, चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली, द्वि. सं. 1988

10.       संस्कृतहिन्दीशब्दकोषः, वामनशिवराम आप्टे, रचना प्रकाशनम्, जयपुरम्, 2007