front cover.jpg

·       प्रस्फुटम्

 

·       सम्पादकीयम्

 

·       प्रकाशकीयम् (प्रारभ्य चोत्तमजनाः न विरमन्ति मध्ये॥)

 

·       साहित्यानुरागः

 

·       सम्बोधने च, डॉ रामसलाही द्विवेदी

 

·       अपौरुषेया : खलु नित्यवेदा :, डॉ. कृष्ण काकलवार

 

·       समासशक्तिसमीक्षा, डा० सदानन्द झा

 

·       व्याकरणशास्त्रे सिद्धान्तकौमुद्याः अनिवार्यत्वम्, डा० लीलाबिहारी चौधुरी

 

·       गीतोक्त विज्ञानवाद अर्थात् ब्रह्मविद्या, सच्चिदानन्द मिश्र

 

·       शब्दों की नानार्थकता- संगणकीय भाषाविज्ञान के मार्ग में एक अवरोध, बिपिन कुमार झा

 

·       अग्निष्टोमयागस्य प्रकृतियागत्त्वम्, ओंकार सेलूकरः

 

·       Conception of God in Nyāya-Vaiśesika: with special reference to Nyāyakusumāρjali, C. Soni

 

·       ज्योतिषशास्त्रे संहितास्कन्धस्य लोकोपकारकत्वम्, सुनीलदत्तः

 

·       Dosa, Vritti and Rīti in Dhvani community, Chitresh Soni

 

·       श्रीकृष्णवल्लभाचार्यानुसारेण योगदर्शनस्य महत्वम्, Dinesh, LBS, New Delhi

 

·       ज्योतिषशास्त्रे रोगमीमांसा, डॉ0 प्रदीपकुमार झा,

 

·       लिट्लकारार्थविवेचनम्, रामसेवक झा

 

·       ‘‘आधुनिक षिक्षायां कक्षावातावरणम्’’  राजवीरः

 

 

 

·       शृङ्खला

 

·       ग्रन्थसमीक्षा, डा.नारायणदाशः

 

·       क-कारात् परं ख-कारः एव किल?, Dipesh V Katira

 

·       मिथिला राज्य की प्रासंगिकता, रामसेवक झा


 

सम्पादकीयम्

डा० सदानन्द झा

 

सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री

 

संहारे चापि यस्या जगदिदमखिलं क्रीडनं चा पराख्या।

 

पश्यन्ती मध्यमाऽथो तदनु भगवती  वैखरी वर्णरूपा

 

साऽस्मद्वाचं प्रसन्ना विधि हरि गिरिशाराधिताऽलङ्करोतु॥

 

अये शास्त्रपरिशीलनदत्तादरा विद्वत्प्रवराः सुरभारतीपदकमलानुरागिणश्च,

 

जगतः प्रथमान्तर्जालीये मेल-जाह्नवी संस्कृत त्रैमासिक पत्रिकायाः षष्ठाङ्कं विदुषां पाठकानां पुरस्तादुपस्थाप्य नरीनृत्यते मे मनः। अस्याः पत्रिकायाः संकलन-सम्पादन-मुद्रणाधिभारः विभिन्नराज्यानां कतिपय सारस्वत साधकेषु न्यस्तः तेषां विशेषानुरोधादहं धुरिनियोजितः सोत्साहं सानन्दं च तमंगी कृतवान्।

 

राष्ट्रियान्ताराष्ट्रियाणां शतशोलब्धख्यातीनां विदुषां साहाय्येनेयं पत्रिका अल्पीयस्येव काले मानक पत्रिका श्रेणीं (ISSN) सम्प्राप्तेति प्रीतिर्मे स्वाभाविकी।

 

इदानीं जाह्नव्या माध्यमेन देशेषु महत्वाधायिनः संस्कृतग्रन्था अनूद्यन्ते, अभिनीयन्ते, प्रचार्यन्ते सम्मान्यन्ते च। तत्वान्वेषणपरायणामाचार्यानां

 

शोधनिबन्धाः प्रकाश्यन्ते च। एषा पत्रिका राजनीतिविमुखा आक्षेपरहिता च विद्यते। यद्यपि व्यालमुखवर्तिमणि परिष्करणमिव संस्क्रृतपत्रिका संचालन कार्यमपि दुष्करं भवति तथापि समेषां तत्वचिन्तकानां संस्कृतानुरागिणामवलम्बमासाद्य सितपक्षीया चन्द्रकलेव वर्धते वर्धिष्यते चेति मे विश्वासः | विदन्त्येव विद्वांसो यदधुना विज्ञानप्रभावात्  सम्पूर्णे जगति कुटुम्बायमाने अस्याः सुरभारत्याः प्रचारप्रसारश्च सुकरः संवृत्तः अतोऽस्या लोकार्पण कार्यक्रमाः विभिन्नप्रान्तेषु सम्पन्ना अभूवन्।

 

अस्याः प्रथमांकस्य सप्ताचलाधिपतेः वेङ्कटनगर्यां तिरुपतौ संस्कृत मानित विश्वविद्यालये प्रो० हरेकृष्ण सत्पथिमहाभागेन द्वितीयांकस्य वाराणस्यां हिन्दूविश्वविद्यालये कुलसचिवपदमलङ्कुर्वता तत्र भवता के० पी उपाध्यायेन तृतीयांकस्य मिथिलानगर्याम् उद्यानग्रामे प्रो० रामजी ठाकुर महाशयेन तुरीयांकस्य अमेरिकाख्ये संयुक्त राज्ये अटलाण्टा नगरे डा० दीनबन्धु चन्दौरा महाभागेन लोकार्पण कार्यक्रमः सम्पादिता सन्ति। सर्वत्र शताधिकाः शास्त्रनिष्णातंतयोविद्वांशः स्वकीयामुपस्थितिं वर्धापनं च प्रदत्तवन्तः। विगत पञ्चमांकस्य लोकार्पणं हस्तिनापुर्यस्थलालबहादुरशास्त्रिराष्ट्रियमानितविश्वविद्यालये अकस्मात् कुलपतिपादानामस्वास्थ्य कारणात् कुलसचिवेन बी०के० महापात्रमहोदयेन प्रो०कमलाभारद्वाज, प्रो० शशिप्रभा जैन, प्रो० लक्ष्मीश्वर झा, प्रो० भवेन्द्र झा, प्रो० देवी प्रसाद त्रिपाठी, प्रो० प्रेम कुमार शर्मा, प्रो० पीयूषकान्त दीक्षित, प्रो० रमेश कुमार पाण्डेय, प्रो० हरेराम त्रिपाठी, डा० सुन्दरनारायण, डा० नीलम ठगेला, डा० मीनाक्षी मित्रा, डा० एम० जयकृष्णन्, डा० भारतभूषण प्रभृतीनां विदुषामुपस्थितौ सोल्लासं सम्पादि। तत्कार्यक्रमव्ययादिभारः विशिष्य उपकुलसचिवेन विनोद मिश्रेण वोढ इति तस्मै सुरसरस्वती समर्पितात्मने सानति कृतज्ञता ज्ञाप्यते।

 

 षष्ठाङ्कस्य लोकार्पणकार्यक्रमः प्रयागस्थ रामकृष्णमिशन सेवाश्रमे निश्चितोऽस्ति। यत्रस्माकं सौभाग्यात् इलाहाबादोच्च नायालयकार्यवाहक मुख्यन्यायाधिपतिचरैः माननीय न्यायमूर्ति पलोकवसु महाभागैः स्वनामधन्यैः  नयैकबद्धपक्षपातैः सर्वस्वदानरसिकैः तल्लोकार्पणकार्यक्रम सम्पादनाय स्वीयानुमतिं प्रदायि।

 

उक्तसमस्तकार्यक्रमस्य अध्यक्षतां वक्ष्यन्ति अद्वैतवेदान्तमतप्रवर्तकाः स्वामिवर्याः श्रीमन्तस्तत्रभवन्तः निखिलात्मानन्द महाराज महाभागाः। स्वामिवर्याणां विषये किमपि कथनं  नो भाष्कराय दीपदानमिव जायेत। काले काले लोकानुग्रहाय सत्पथप्रदर्शनाय च एतादृशां महात्मनां प्रादुर्भावं विदधती भारतभूः विश्वमुपकुर्वती एवं समुज्ज्वलं यशः प्रसारयतितराम् । अतस्तेभ्यः हार्दिकीं कृतज्ञतां प्रकटयति समस्त जाह्नवी परिवारः। विगत पंचमाकालेखानां साधु संशोधनं  तकनीकिकारणात् न समभवदिति दूयते मे मनः। एतदर्थं सर्वानालेखप्रेषकान् सहृदय विदुषः सादरं क्षमां याचे। अत्र निवेदनं यत् विहितप्रक्रियानुसारेण शोधनिबन्धा  संप्रेषणीया यतो हि  अग्रे त्रुतिर्न भवेत् इति।

 

विविधराज्येभ्यः सुप्रथित् यशसां कृतभूरिपरिश्रमाणां पण्डितानां शोधपूर्णा नानाशास्त्रीय निबन्धा संप्राप्ताः सन्ति येषां कृपाबलेनेयं विश्वप्रथमासंस्कृतपत्रिका स्वीयां महतीं प्रतिष्ठामवाप्य सारस्वतरंगस्थले नरी नृत्यमाना विद्यते तेभ्यः पण्डितप्रवरेभ्यः सादरं कृतज्ञतां ज्ञापयामि।

 

शिवसिरशि वसन्ती संविदानन्द नीरा

 

हृदय कलुषु पुंजं प्रक्षिपन्ती विदूरे।

 

तिमिततति मुदस्य ज्योतिषालोकयन्ती

 

प्रवहतु भुविभव्याजाह्नवी कापि दिव्या॥

 

लखनौरम्                                                                                                            विद्वच्चरणचञ्चरीकः

 

२७.०४.११                                                                                                         झोपाख्यः सदानन्दः

 

प्रकाशकीयम्

 

॥प्रारभ्य चोत्तमजना न परित्यजन्ति॥

 

बिपिन कुमार झा

CISTS, IIT, Bombay

 

कस्यचित् वृक्षस्य शाखायां कृतकमीनः बद्धः आसीत्। द्रोणाचार्यः गाण्डीवधारिणम् अर्जुनम् अपृच्छत्- किं दृश्यते? अर्जुनस्य उत्तरम् आसीत्, "यतद् भेदनीयं तद् मीनस्य नेत्रम्" इति । लक्ष्यप्राप्त्यर्थं लक्ष्यसन्धानं परमावश्यकं भवति। कथितम् अपि अस्ति-

आरभ्यते नखलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहता विरमन्ति मध्याः।

विघ्नैः पुनः पुनरपि प्रति हन्यमानाः

प्रारभ्य चोत्तमजना न परित्यजन्ति॥

(इति नीतिशतके)

 

’सारस्वत-निकेतन’माध्यमेन देववाण्याः प्रचारः प्रसारश्चैव ध्येयम् अस्ति अस्माकम्। तत्रापि अनेकेषु विघ्नेषु समुपस्थितेषु अपि नितरां लक्ष्यपथि अग्रसराः सन्तः वयं ’जाह्नवी’ इत्याख्यायाः संस्कृत-विद्युत्-शोधपत्रिकायाः माध्यमेन साहित्यानुरागिणां, संस्कृतप्रेमिजनानां च कृते शोधपत्राणां, सर्जनात्मकानाम् आलेखानां च प्रकाशनं कुर्वन्तः स्मः।

       अस्मिन् षष्ठाङ्के ये केचन सहयोगिनः सन्ति तेषां कृते धन्यवादाः। विशेषरूपे परिशीलन-टङ्कणप्रभृति कर्मसु सहयोगार्थं मित्रवरदिपेशं प्रति तथा सहधर्मिणींवर्षां प्रति च हार्दं कार्तज्ञं प्रकटयामि। 

       अत्र इदं सूचयन् मोमुद्यते मे चेतः यत् सारस्वत-निकेतनस्य नूतनं जालपुटं सज्जितम् अस्ति। यस्मिन् Blog, Audio, Video, Pics इत्यादीनां  Download, Uplod, View इत्यादीनां सुविधा अस्ति। एतत् यथा शीघ्रं www.sarasvatniketanam.com इत्यत्र उपलब्धं भविष्यति।

सादरम्

बिपिन कुमार झा


 

‘सम्बोधने च’

                                                                          डॉ0 रामसलाही द्विवेदी

                                           व्याख्याता ;व्याकरणविभाग

                                   श्रीला०ब०शा०रा०सं०वि० 

                                           ;मानितविश्वविद्यालयः च

          सम्बोध्नाध्क्यिेपि प्रथमाविधनार्थं सूत्रामिदम्। पूर्वत्रा सूत्रो अनर्थकेभ्यः ‘हुं’, ‘पफट्’ इत्यादिभ्यः प्रथमाविधनार्थम्, मात्राग्रहणाच्च प्रत्ययनियमस्यैव सिsान्तत्वं व्यवस्थापितम्। तस्य स्वरूपन्तु प्रातिपदिकार्थेएव प्रथमा इत्यादिरूपम्। अत्रा सम्बोध्नार्थः प्रातिपादिकत्वसमासाध्किरणेन न भाषते। अतः अर्थान्तरतया भाषमाणत्वात् व्यावर्त्यकुक्षौ समापतितः तदाध्क्यिे{पि प्रथमाविधनार्थं सूत्रामिदम्। ‘सम्बोध्ने’ इतिसप्तम्यन्तΧचेति अव्ययपदम्। चकारात् प्रथमायाः समुच्चयो विध्ेयः। अत्रा{पि ‘प्रातिपदिकात्’ इत्यस्य अध्किारः। तत्रा प्रातिपदिके सम्बोध्ने इत्यस्य स्वनिरूपितवृत्तिमत्वसम्बन्ध्ेन अन्वयः तदेव ग्रन्थकारः आह ‘तत्रावर्तमानादित्यर्थः’। एतेन सम्बोध्नार्थः प्रकृत्यर्थ एव न तु प्रत्ययार्थः। प्रत्ययायानां द्योतकत्वमेव इति राsान्तो{पि विरुsड्ढति। तत्रा सम्बोध्नं किम्? इति प्रश्ने समाध्त्ते सम्बोध्नमभिमुखीकरणम्। अर्थात् अभिमुखीभवनानुकूलो व्यापारः। स च सम्बोध्नविभक्त्यन्तपदघटितवाक्यप्रयोगरूपः। प्रयोक्तृनिष्ठश्च सम्बोध्नस्य पफलमुपादयतिं तत्पफलं प्रवृत्तिनिवृत्तीत्यादिना। प्रवृत्तिश्च निवृत्तिश्च इति द्वन्द्वोपपादनेन प्रवृत्तिः इति पृथग्पफलंनिवृत्तिश्चेति पृथग्पफलमिति प्रतिभाति। इदन्तु स्वभावसिsं यत्यत्रा{पि सम्बोध्नविभक्त्यन्तपदघटितवाक्यप्रयोगः क्रियते, तत्रा क्वचित् प्रवृत्तिः निवृत्तिश्च प्रतिभासेते। यथा ‘हे राम! मां पाहि’ इत्यादौअभिमुखीभवत्रामोद्देश्यकप्रवर्तनाविषयो रक्षणमिति बोध्ः सुस्पष्टः। तेना{पि प्रवृत्तिः स्पष्टम्प्रतिभाति। निवृत्तेस्तु ‘हे मैत्रा! अग्रे व्याघ्रो{स्ति’ इत्यादि उदाहरणम्। प्रवृत्तिनिवृत्ती च सम्बोध्यस्यैव भवतः अयΧच नागेशसिsान्तः भर्तृहरिराsान्तमुपजीव्यति। तत्रोक्तΧच हरिणा-

सिsस्याभिमुखीमात्रां      सम्बोध्नं      विदुः

प्राप्तस्याभिमुख्योः ह्यर्थात्मा क्रियास्तु विनियुज्यते।

सम्बोध्नं    वाक्यार्थः  इति वृsेभ्यः आगमः।।

          अत्रा सिsस्येति कथनेन सम्बोध्यतावछेदकरूपेण भासमानस्य अर्थस्य संग्रहः करणीयः। अतो सम्बोध्यस्य अनुवादविषयत्वमेव उपगच्छति। तदेव नागेशो{पि स्वग्रन्थे आह ‘सम्बोध्यतावच्छेदकरूपेणेत्यादिना।अयम्भावः यो हि सम्बोध्नार्थः स सिsवस्तुविषयः। अतः अनुवादरूपविषयः एव। तेन यावत्तस्य सिsिर्न भवति, तावदनुवादकविभक्तेः कल्पना{पि न कर्तुं शक्यते। अतः सिsार्थमुपादाय एव सम्बोध्यार्थस्यस्वोद्देश्यत्वेन प्रवर्तनात्वं सम्भवति।

सम्बोध्नान्तं कृत्वो{र्थाः कारकं प्रथमो वतिः।

धतुसम्बन्धध्किारनिष्Βमसमस्त       Χा्।।

तथा यस्य च भावेन षष्ठी   चेतुद्वितं द्वयः।

साध्ुत्वमष्टकस्या{स्य  क्रिययैवा{वधर्यताम्।।

          इति कारिका{पि भट्टसिsान्तं समर्थयति। यस्यां क्रियायां सम्बोध्नान्तपदस्य अन्वयः सा च क्रिया कीदृशी भवेत्तर्हि उच्यते विध्ेयभूतेति स्वाभावात्। क्रियायाः विध्ेयबोध्कत्वाच्च। तदृश्यां क्रियायांसम्बोध्यार्थस्य अन्वयः उद्देश्यतयैव सम्भवति उद्देश्यत्वΧच सिsस्यैव। न च एवम्भूतव्याख्याने ‘राजा भव युध्यस्व’ इत्यादिवाक्यानां का गतिरिति तर्हि उच्यते व्यवस्थस्यैव प्रयोगः। व्यवस्था च प्रथमं ‘राजा भव’ ततःराजन् युध्स्व! यतः यावत्राजत्वं न सिsड्ढति तावत्राजत्वादेः सम्बोध्यतावच्छेदकतया भानं कर्तुं न शक्यते। अतः व्यवस्था उपपाद्या।

          इदानीं ‘राम मां पाहि’ इत्यादिविषयकं व्याख्यानमुपस्थाप्यते। अत्रा पूर्वं श्रीदीक्षितमतमवलोकनीयम्भवति-दीक्षितमते ‘राम मां पाहि’ इत्यादेः रामसम्बन्ध्सिम्बोध्नविषयः मत्कर्मकं रक्षणमिति बोध्ःमनोरमाग्रन्थे उपपादितः। तेषाΧच इयमुक्तिः ‘सम्बोध्नं प्रकृत्यर्थम्प्रति विशेष्यं क्रियाम्प्रति विशेषणमिति सिsान्तः’ इति। अत एव सम्बोध्नविषये ‘राम’ इत्यस्य विशेषणत्वमवलोक्यते। परन्तु भट्टनागेशः इदΒ सहते।तदेव आह - ‘तत्रा वर्तमानात् इत्यर्थः’। अर्थात् सम्बोध्नार्थः प्रकृत्यर्थम्प्रति विशेषणमेव। तेन ‘राम मां पाहि’ इत्यादौ रामः सम्बोध्यः। तत्रौव स्वोद्देश्यकत्वरूपसम्बन्ध्ेन सम्बोध्यार्थः विशेषणम्, रामस्य चस्वोद्देश्यकप्रवर्तनाविषयत्वसम्बन्ध्ेन विध्ेयभूतक्रियायामन्वयः सुस्पष्टः। क्रियायाम् अन्वयादेव कर्तृकारकत्वव्यवहारो{पि उपपद्यते। तिघ्समानाध्किरणे प्रथमा’ इति वार्तिकमपि न विरुध्यति। अतः भट्टनागेशमते ‘राममां पाहि’ इत्यस्य अभिमुखीभवत्रामोद्देश्यकप्रवर्तनाविषयो रक्षणमिति बोध् एव।

          अभिमुखीभवदित्यस्य च्विप्रत्ययान्तत्वेन अनभिमुखस्य अभिमुखीभवनिमित्यर्थः। अतः भट्टमते दीक्षितमतापेक्षया विशेष्यविशेषणभावस्य वैपरीत्यमवाप्यते। तदेव अग्रे साध्यति। ‘व्रजानि देवदत्त’ इत्यादिना।अत्रोयं हरिकारिका-

सम्बोध्नपदं यच्च तत्क्रियायां विशेषणम्।

व्रजानि देवदत्तेति  निघातो{त्रा तथा सति।।

          अयम्भावः ‘आख्यातं सविशेषणं वाक्यम्’ तच्चेद्वाक्यं समानवाक्यम्। तत्रा आमन्त्रिातस्य पदात्परस्य निधतो भवति। आमन्त्रिातत्वΧ‘सामन्त्रिातम्’ इति सूत्रोण सम्बोध्ने या प्रथमा तदन्तमान्त्रिातं स्यात्इत्यर्थकेन सम्बोध्नान्तम् आमन्त्रिातम्भवति। यद्यत्रा सम्बोध्नान्तं पदं क्रियायां नान्वेति तर्हि सविशेषणम् आख्यातं न भवति। अतः निघाता{सिsिः स्पष्टैव। ननु ‘व्रजानि’ इत्यस्य उत्तमत्वात् अस्मद् एव कर्तृत्वमुपपΒंतर्हि कथमन्वयः इति समादधनः आह ‘जानीहि इत्यादिशेषः बोsव्यः’ अर्थात् ज्ञाधत्वर्थे व्रजनस्य कर्मत्वेन देवदत्तस्य उद्देश्यतया अन्वयात् न दोषः। तदेव अग्रे आह तत्रा व्रजनस्य कर्मत्वादित्यादि। ‘देवदत्त व्रजानि’ ‘जानीहि’ इत्यत्रा परस्परं एकवाक्यत्वमुपपादयति ‘एकतिघ्वाक्यमित्यादिता। अर्थात् ‘एकतिघ्वाक्यमिति’ यद्यस्ति वाक्यलक्षणं तर्हि अत्रा तिघ्द्वयस्य सत्वात् कथमेकवाक्यत्वमित्यस्ति प्रश्नः? उत्तरयति च ‘श्रूयमाणएकतिघादिना’। अर्थात् श्रूयमाणं यत्रौकतिघ् तत्रा शेषो बोध्यः तर्हि शेषत्वेन यदि जानीहि पदस्य उपस्थितिः तर्हि एकतिघ्श्रूयमाणत्वमपि नष्टमिति चेΒ। यथा ‘पिध्ेहि’ इत्यादि पदादेव सामर्थ्यात्द्वारादीनामध्याहारे{पि केवलमाख्यातस्यैव वाक्यत्वं सिsड्ढति तथैव अत्रा{पि सामर्थ्यात् अध्याहृतस्य जानीहि इत्यस्य अर्थो{पि व्रजानि इत्यादेरेव इति अवगन्तव्यः। वस्तुतस्तु एकतिघर्थमुख्यविशेष्यकत्वं वाक्यत्वम्’।अतएव ‘पचति’ ‘भवति’ इत्यनेन ‘पश्य मृगो धवति’ इत्यत्रा क्रियापदद्वयस्य प्रयोगे{पि न क्षतिः। एवमेव अत्रा{पि बोsव्यम्। अत एव आह उद्देश्यविध्ेयकाववाक्यार्थः। ‘व्रजानि’ इति उद्देश्यम्, ‘जानीहि’ इतिविध्ेयम्। अत्रा व्रजानि इत्यत्रा ‘प्राप्तकाले लोट्’ सूत्राΧ‘प्रैषातिसर्गप्राप्तकालेषु’। अत्रा मां हि परस्परमुद्देश्यविध्ेयभावः भासते, सा आकाघ्क्षाभाष्यः। अतः वाक्यार्थरूपः। तेन ‘अभिमुखीभवत्देवदत्तोद्देश्यकमत्कर्तृकप्राप्तकालविशिष्ट- व्रजनकर्मकं प्रेरणाविषयीभूतज्ञानमिति वाक्यार्थः। अत्रा सर्वत्रा{पि एकवाक्यत्वमव्याहतम्। अत्रा अभिमुखीभवनानुकूलव्यापार एव सम्बोध्नार्थः। अतः स पदार्थः।उद्देश्यविध्ेयभावस्तु वाक्यार्थ एव। तस्मात् निघातत्वमव्याहतम्। सम्बोध्यस्य विध्ेयभूतक्रियान्वयसिsान्तस्य अन्यदपि पफलमुपपादयेति ‘अत एव गच्छ’ इत्यादिना अर्थात् ‘ध्घ् िमुर्ख’ इत्यत्रासम्बोध्नविभक्त्यन्तपदसामर्थ्यात् ‘गच्छ’ इत्यादिक्रियायाः अध्याहारे औचित्यात् तत्रौव अन्वयात् ध्घ्मिुर्खयोः परस्पराभिसम्बन्धभावात् ‘उभसवर्तसोः कार्या ध्गिुपर्यादिषु त्रिषु’ इत्यादिना न द्वितीया। अनध्याहारे तु तस्यक्रियाविशेषत्वाभावात् सम्बोध्नान्तत्वं न सम्भवति। अतः ध्घ् िइत्यभिसम्बन्धत् द्वितीया निर्बाध।




 

अपौरुषेया : खलु नित्यवेदा :

                                                                                                                                                          डॉ. कृष्ण काकलवार

संस्कृतोपन्यासक: केन्द्रीय विद्यालय, गुलबर्गा

 

वेदा:खलु विश्वस्यैव प्राचीनतमं साहित्यम्। वैदिक साहित्यस्य सर्वादिशयवैशिष्ट्यं न शब्दै: अभिवक्तुं शक्यते। संस्कृत साहित्यस्य वैशिष्ट्यं सत्सर्वमपि वैदिकसाहित्यस्यैवेति नातिशयोक्ति: । अत्रैव भारतीयवाङ्मयस्य उपजीव्यम् विद्यते। इतरेतर साहित्यवस्तूनि वेदानामा श्रयमुखेन राराजन्ते। वेदेषु विद्यमान कर्मकाण्ड:, तदन्तर्गत यज्ञभागादय: मानवजीवनस्य उपस्फोरका: भवन्ति। उत्तरोत्तरं उपनिषद: जीवनदर्शिका: भवन्ति

चतुर्दश विघासु मानवजीवनयोग्यमार्गणाम्दिग्दर्शनं वर्तते इत्यत्र नास्ति कोऽपि - सन्देह:। ""अंगानि वेदाचत्वारो'' अर्थात्

शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा।

कल्पचेति षडड़गानि वेदस्याहुर्मनीषिण : ।।

इत्युःत दिशा चतुर्वेदा:, षडंगानि, मीमांसा - न्याय - पुराण - धर्मशास्त्राणि इति चतुर्दशविद्या; प्रथिता; सन्ति। ""अनन्ता वै वेदा;'' अत एव वेद: अनादि: । अनन्तत्वात् अपौरुषेयत्वाच्च नित्या: भवन्ति। वेद: इत्यस्य कोऽर्थ ? इत्याकांक्षायां - आत्मा, धर्म, कर्म, पाप, पुण्यानां एवं लोक - कोकान्तरणां गहन विषयाणां परिज्ञानमिति। एतादश गम्भीर विषयाणां परिज्ञानं अन्यसाहित्यं कदाचित् दीयेत परं तत्सर्वं वेदपरिज्ञानं इति वक्तुं न शक्यते। अस्मांक इन्द्रियमुखेन यत् ज्ञायते तत् प्रत्यक्षम् तर्कमुखेन यदनुमीयते तत् अनुमानमिति उच्यते। परं यत् प्रत्यक्षेण अनुमित्या वा ज्ञांतु न शक्यते तत् वेदमुखेन ज्ञातुम् शक्यं भवति। एतादृशं शब्दप्रमाणीभूतम् ज्ञानं वेद इति नाम्ना श्रूयते। तदेवोक्तम् -

प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।

एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता।।

एवं वेदमुखेन सर्वमपि ज्ञातुं शक्यते। अयं वेद: ज्ञानराशि: शब्दराशिच। केवलम् मानव: एव शब्दमुखेन ज्ञानं प्राप्तुं शक्नोति, इतरेषां प्राणिनां तु शब्दानां उच्चारण सामथ्र्यं उत तेषां अर्थज्ञानं वा न भवति। परं अयं मानव: दैवदत्त सामथ्र्यात् वेदम् सस्वरं पठन् तस्यार्थमपि ज्ञातुं शक्नोति।

वेदानां संख्या समग्ररुपेण निर्णेतुम् कοकरं भवति। तथाऽपि ब्राह्मणस्य भरद्वाजऋषे: वेदाध्ययनशीलसन्दर्भं स्मर्तंु योग्यं भवति-""महतो भूतस्ययन्निश्व सितम् तदृग्वेदो यजुर्वेदो सामवेदोऽअथर्वांगिरस:'', इति वाःयेन वेदा: चत्वार: इति सिध्यति। युगप्रभावं, जनानांच बुद्धिशक्तिं मनसिनिधाय सर्वेषां सुलभं यथा स्थात् तेनैव मार्गेण अनन्त वेदा: चतुर्धा विभक्त:। ""वेदान् विशेषेन अंसयति अर्थात् विभाजयति इति कारणात् कृष्णद्वैपायनस्य नाम वेदव्यासेति सार्थकं भवति''। (अंस-समाघाते) तत्स्वरुपं संक्षेपेण एवम् ज्ञातुं शक्यते यत् - ""नियताक्षरावसानछंन्दो निबद्धा ऋक् अनियताक्षरावसानो यजु:, गानार्थ गृहीता ऋकसाम, राजाभिषेकादि कर्मविनियोज्यं शान्ति पौराणिकादि प्रधानं अथर्ववचनम्'' इत्युΊे अक्षरनियमसंयुतं छन्दोबद्धं स्तोत्रं ऋक्, अक्षर नियमरहितं छन्दोविहीनं अथवा न्यूनं गद्यमयम् स्तोत्रं यजु:यत्र च यज्ञानां निकटतमसम्बन्ध:। एतत् न केवलं यज्ञापरं किन्तु ज्ञानपरं च भवति। यजुर्वेद कृष्ण एवं शुःल भेदेन द्विधा। कृष्णायजुर्वेदस्याध्ययनं दक्षिणभारते प्राचुर्यं भजते। ""गीतिषु समाख्या'' इति उक्तदिशा ऋङ््मन्त्राणां गानयोजनमेव सामवेद:। अत्र 275 स्वतन्त्रमन्त्रा: सन्ति। अथर्ववेदे तु राज्याभिषेक;, अभिचार;, मारणादि प्रेतनिवारक मन्त्रा: सन्ति। एतासाम शाखनां पाठηक्रमे भेदे सत्यपि तात्पर्यार्थे न कोऽपि भेद:। महाभाष्यकार: पतंजलि: स्वभाष्ये ऋग्वेदस्य 21 शाखा: यजुवेदंस्य 101 शाखा:, सामवेदस्य 1000 शाखा: अथर्ववेदस्य 9 शाखा: इति प्रत्यपादयत् 1 एवम् 1931 शाखा: उपलब्धा:आसन्। रन्तु इदानीम् केवल 12 शाखा: एव दरीदृश्यन्ते। एतास्वपि कचन नοप्राया: भवन्ति।

प्रत्येकं वेद: सांहिता, ब्राह्मण, आरण्यक उपनिषत् भेदेन चर्तुा विभक्त:। मन्त्रभागे इन्द्र, वरुण, Ύि, इत्यादीनां स्तोत्रं क्रियते। प्रकृते: सौन्दर्यकारणात् आकृπा: सन्त: ऋषय: प्रथमं अतीन्द्रियं अनुभवं प्राαुं उषस्, सूर्य, चन्द्रं प्रति विशेष ध्यानं ददु:। एतत् सर्वम् अतीन्द्रियशΊे: स्थूलमाविर्भावं इति चिन्तयन्त: मन्त्रान् यज्ञयागादीनां समये पठन्ति स्म। द्वितीयमेव ब्रह्मण भाग: - अत्र यज्ञयागादीनाम् विधानं प्रस्तूयते। यागसमये प्रयोज्यमान वस्तूनां उल्लेख: एवं पुरोहितानां संख्या इत्यादिकं अत्यन्तं सविस्तरं प्रतन्यते। तृतीये आरण्यके निवृत्तिधर्मरतानां सन्यासिनां एवं अरण्ये अध्ययनशीलानां ऋषि-मुनीनाम् जीवनपद्धतिच प्रस्तूयते। चतुर्थ: भाग: एव उपनिषत् भवति। भागस्यास्य अपरं नाम वेदान्तमिति। अत्र तΞवप्रधानं वस्तु विभिन्नआयामेषु विस्तृतं भवति। उपनिषद् संख्या शताधिकेति मुक्तिकोपनिषत् प्रतिपादयति। एतासु सर्वा न मुख्या: परं दशोपनिषद: प्रमुखं स्थानं भजन्ते। ऋग्वेदे ऐतरेय एवं कौशितकी, सामवेदे छान्दोग्यं एवं केन अदि उपनिषद, कृष्णयजुर्वेदे तैत्तरीय, कठ श्वोताश्वतरादय: समाविजा: भवन्ति। एतासामुपरि श्रीमत् शंकरभगवत्पादा:, श्रीरामानुजाचार्या: श्रीमन्मध्वाचार्या: अपि स्वमतानुसारं व्याख्यां चक्रु:।

अपौरुषेयत्वम्

वैदिकसाहित्ये दर्शनशास्त्राणां प्रमुखम् स्थानं वर्तते। वेद प्रामाण्यमनुसृत्य प्रसृतं दर्शनं वैदिकदर्शनम् तद्भिन्नं तद्भिन्नं अवैदिकमिति कथ्यते। वेदानां कर्तृत्वविषये बहव: बहुधा विवदन्ते। केचित् तं अपौरुषेयमिति मन्यन्ते, अपरे केचन ईश्वरकर्तृकंमिति मन्यन्ते, अन्ये केचन यस्य मन्त्रस्य य: ऋषि प्रोक्त: स एव तस्य प्रणेतेति मन्यन्ते। केचित् जीवनानुभवा-नाम् संग्रहमिति मन्वते।

सांख्य-वेदान्त-मीमांसकमतेन वेदा: अपौरुषेया: नित्याच। सर्वाण्यपि धर्मशास्त्राणि पुराणानि च वेदानामपौरुषेयत्वमेव स्वीकुर्वन्ति। ये ऋषय: मन्त्रविशेषै; सह सम्बद्धा: तेऽपि तेषां मन्त्राणां दृजार: एव न तु कर्तार: । एवमेव तदनन्तरकाले प्राα द्धैत्-अद्वैत-विशिजाद्वैत-दर्शनकारा: अपि वेदानाम् अपौरूषेयत्वमेव प्रत्यपादयन्।

श्रीमन्मध्वसिद्धान्त प्रतिπापनाचार्या: श्रीमदानन्दतीर्थ भगवत्पादा: वेदस्यापौरुषे-यत्वं अत्यन्तं सरलं सुन्दरं मनोज्ञतया च प्रतिपादयन्ति।

""न चैतेषां वचनानामेवाप्रामाण्यम्। अपौरुषेयत्वाद्वेदस्य। इतिहास पुराण: पचमो वेदानां वेद इति तद्गृहीतत्वाच्य। न चापौरुषेयं वाःयमेव नास्तीति वाच्यम्। तदभावे सर्व समयाभिमत धर्माधसिद्धे:। यस्य तौ नाभिमत् नासो समयी। समयप्रयोजनाभावात्। न चौतेन लोकोपकार:। धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपरकारस्यैव प्राαे:''

(विष्णुतΞव निर्णय: - प्रथमपरिच्छेद:)

वेदास्सर्वेपि मानवनिर्मिता:। एते सर्वेऽपि वाःयसमुदायभागा:, मानवैर्विना नान्येनापि रचयितुम् शक्या:, पुरुषकर्तृकत्वात् अप्रमाणवाःयानाम् संयोजनसिद्धे:, धर्म-अधर्मादीनां वेदवाःयै: सिद्धिरपि असम्भवात् न च वेदानाम् प्रामाणमिति पूर्वपक्षे जाते, श्रीमदाचार्या: एवं समादधति-वेदा: न पुरुषकर्तृका:। एते वेदा सर्वदेश - सर्वकालेष्वपि नित्यरुपेण तिπन्ति। न किचिदपि व्यत्यस्तरुपमनुभवन्ति। केवलं उच्चारण-अभ्यास-श्रोत्रेन्द्रियमुखे अनुगम्यत्वात् अपौरूषेयत्वमं सिध्यति। पिप्लादीनाम् श्रृतिरित्युΊे श्रुतिरियं पिप्लादे: पूर्व असीदिति तत्तत्पूर्व कालनिर्देशात् अतिप्राचीनता सिध्यति। वेदा: सर्वे परमात्मन: बुद्धौ सदा प्रतिπापिता सन्त: जगत: सृष्टेः पूर्व तस्य मुखकमलात् बहि: निस्सृत्य चतुर्मुखब्रह्मणे परमात्मा उपदिशति। चतुर्मुखब्रह्मा नारदादीन्, नारदाय: अन्यदेवान् उपदिशन्ति। एवमेव गुरुशिष्यपरम्परामुखेन मनुकुलम् अधिगच्छन्ति। अत: एते वेदा: न पुरुषकर्तृका इति।

अन्ये केचन अपौरूषेयत्वम् एवं प्रतिपादयन्ति। वेदानामपि यदा उच्चारणं भवति तदा उत्पत्ति:, उच्चारणानन्तरं शब्दनοत्वात् तस्यनाश: इति चेत् न । यतो हि वेदा: अस्माभि: स्वातन्त्रेण नोच्चारिता:, परं अन्येभ्य: उपदेशमुखेन अधीत्य तै यथोद्दिष्टं पुनरूच्चारिता: इति। वेदानाम् अध्ययन-अध्ययनपरम्परा चतुर्मुखब्रह्म पर्यन्तं प्रचलति। तस्य ब्रह्मण: अपि एक: गुरु: भवति। परं परब्रह्मण:न कोऽपि गुरु:, भगवत: तस्य स्वयमेव गुरुत्वम् नान्य: कचित् भगवत: बुद्धौ प्रतिजापितस्य वेदस्य उपदेश: प्रथमम् चतुर्मुख ब्रह्मण: भवति। चतुर्मुख ब्रह्म अभ्यासबलेन देवान् उपदिशतीति एवमेव परम्परागत्या प्राαत्वात् अपौरूषेयत्वम्। म्ना-अभ्यासे इत्यस्माद्धातो: आम्नाय इति शब्दस्योत्पत्ति:। आम्नाय इत्यस्यार्थ: वेद:इति। श्रुतिगोचरत्वात् श्रुति: इति।

एवं रीत्या अनादि एवं नित्यस्य भगवत: अस्तित्वमड़गीकर्तृणां वेदानामपौरूषेयत्वमड़गीकारे न कापि क्षति:। विनाशरहितेन भगवता सांक वेदा: प्रसृता: सन्ति। भगवत: नाशरहितत्वे सिद्धौ तस्य नि:श्वसितभूत वेदानां कथम् नाश: ? एवं कर्तृत्वचेति? श्रीम‚ाय-तीर्थ श्रीमƒरणा: एवं स्पοऽकुर्वन्ति यत्-

अध्येतृणां अध्यापकानां च पूर्वतनमेवेदम्।

अधीमहे अध्यापयामच इति प्रतिपत्ति:।

अत एव श्रीकृष्णाश्रीमद् भगवद् गीतायां वेदान्त शास्त्राणां रचयिता इत्युवत्वा वेदैरहं गम्य: इति स्वयमुद्घोषयति-

""वेदान्तकृत् वेदविदेवचाहम्'' (गीता 15/15)

अस्मिन् सन्दर्भे श्रीमद्राघवेन्द्रतीर्थ श्रीमच्चरणा: स्वकीय गीताविवृतिर्नाम व्याख्याने वेदविदेव चाहं इत्यस्य व्याख्यान सन्दर्भे श्रीमद्भगवत›ोकमुद्धृत्य भगवानेव वेदानां- स्वरूपज्ञाता न तु तेषां कर्ता इति प्रतिपादयन्ति-

किं विधत्ते किमाचοे किमनूघ विकल्पयेत्

इत्यस्या φदयं साक्षान्नान्योमद्वेद कचन।

मां विधत्तेऽमिधत्ते मां विकल्प्योऽप्योह इत्यहम्।।

                                      (भागवत 11-21-42)

वसिπ-विश्वामित्रादय: ऋषय: गुरो: सकाशे अभ्यांस विना केषाचन मन्त्राणां द्रजार: भवन्ति। परं न कुत्राऽपि तै: स्वरचितत्वेन प्रोच्यते। पूर्वस्मिन् जन्मनि अधीतमन्त्राणां भगवद नुग्रहबलात् अस्मिन् जन्मनि स्फुरणं भवतीति प्रकटηते।

जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादत:।

मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वत:।।

अत एव मन्त्रद्रजार: मन्त्राणां ऋषय: भवन्ति, परं न कस्यापि रचयितार : ""अतीन्द्रियत्वात् परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम्'' -

(ऋग्भाοटीका - सायणाचार्य)

वैदिक दार्शनिका: पूर्वाग्रहपीडिता: सन्त: भावकबुद्धया वेदानामपौरूषेयत्वं न परिकल्पयन्ति, परं वेदा: एव स्वयमपौरूषेया: इति उद्घोषयन्ति-

""नित्यावेदा समस्ताच शश्वता: विष्णु बुद्धिगा:'' स्मृतिवाःयमिदं वेदानां नित्यात्वं प्रतिपाध विष्णुबुद्धि गम्यत्वम् प्रकटयति। विष्णो: नित्यत्वेन नाशाभावात् तद्- बुद्धिगत वेदानामपि नित्यत्वं एवं अपौरूषेयत्वच। बुद्धिगतवेदानां उपदेश: चतुर्मखब्रह्मण: नित्यरुपेण भवतीति श्रीमन्मध्वाचार्या: प्रतिपादयन्ति-

वैकुण्ठस्याखिला: वेदा: उद्गीर्यन्तेनिश्ंयत:

द्वादशस्तोत्रम् 1-7

एवच वेदस्यपौरूषेयत्वासाधने अनेक कारणानि दरीदृश्यते, परं अपूर्व वाङ्मयराशे : वेदस्य न कुत्राऽपि कर्तृत्वनिर्देश, सूच्यरूपेणाऽपि लभ्यते। तथा च वेदे सαस्वरा विना विकारं अनुभूय परम्परा रूपेण यथास्वरूपं राराजन्ते। यदि मानव व्यवस्था अथवा पुरूषकर्तृत्वं चेत् एतादशी अनितरसाधारणस्थिति: नोपलभ्येत।

किच अयं वेद: सर्वषां ज्ञानप्रभेदानां अकरो भूत्वा, विश्वोत्पत्ति विकारस्य व मूलभूतमिति पाश्चिमात्य विमर्शक : Vedas are not only the precursors of Indian Philosophy but also of the puranas one of the main object of which is to describe the orgion of the world

Sanskrit literature - Macdonel