संस्कृत विद्युतपत्रिका
|
भ |
व |
तां |
हा |
र्दं |
स्वा |
ग |
त |
म् |
वैदिक सृष्टिविज्ञानम् सम्पूर्णविश्ववाङ्मये
वैदिकवाङ्यमेव प्राचीनतमं विद्यते इत्यस्मिन् विषये न कुत्रापि संशयः। अधुना
वैदिकसाहित्यमधिकृत्य विश्वस्यानेकदेशेषु शोधकार्यं प्रचलति यतो हि
वैदिकसाहित्ये मानवसमाजस्य प्राचीनतमावशेषानां सम्भावना दृश्यते । कामं
आधुनिकवैज्ञानिकाः स्थूलप्रयोगाणां माध्यमेन अनेकसिद्धान्तानां स्थापनां
कुर्वन्ति किन्तु भारतीयपरम्परायां सू़़क्ष्मदृष्ट्या चिन्तयन्तः महर्षयः ‘सूक्ष्मात् स्थूलं प्रति’ इति सिद्धान्तमधिकृत्य
आत्ममननचिन्तनध्यानादिकसाधनैः सृस्ट्युत्पत्तिविषयकसिद्धान्तान् संस्कृतवाङ्मये
प्रतिपादितवन्तः । सृष्टिविज्ञानम् मूलतः
तद्विज्ञानं भवति यस्मिन् सृष्ट्याः मूलत्वात् अद्यपर्यन्तं
सृष्टिनिर्माणक्रमस्य अध्ययनं क्रियते । यद्यपि इदं सर्वं अध्ययनम् केवलं
परिकल्पनाधारितं एव भवति । अस्मिन् विभिन्नावस्थानां अध्ययनस्य गहनान्वेषणस्य
चोपरान्ते परिकल्पनाः दीयन्ते । संस्कृतवाङ्यमपि
अध्ययनदृष्ट्या द्विधा विभज्यते - वैदिकं लौकिक´्च । वैदिकसाहित्ये
वेदवेदाङ्गोपनिषद्ब्राह्मणारण्यकग्रन्थाः परिगण्यन्ते । उत्तरवर्तिनः ग्रन्थाः
लौकिकसंस्कृतवाङ्मये मन्यन्ते । यथा वैदिकवाङ्मये सर्वेषां ग्रन्थानां आधारो
वेदाः सन्ति तथैव लौकिकसाहित्यस्यापि आधारभूतग्रन्था पुराणानि सन्ति । अतः
सृस्ट्युत्पत्तिविषये वेदेन सहैव पुराणानामपि पर्यालोचनं कर्तव्यम् । सर्वप्रथमं
उभयोः वर्ण्यविषयस्य संक्षिप्तज्ञानमावश्यकम् भवति । वैदिकवर्ण्यविषयः चतुर्णां वेदानां प्रतिपाद्यविषयः द्विधा विभक्तुं
शक्यते - ‘वेदो हि
मन्त्रब्राह्मणभेदेन द्विविधिः। वेदस्य मन्त्रभाग एव ‘संहिता’ इति
नाम्नाप्यभिज्ञायते । आचार्यलौगाक्षिभास्करमतानुसारं
वैदिककर्माणामनुष्ठानकालेऽनुष्ठेयक्रियायाः तदङ्गभूतद्रव्य-देवतादीनां
स्मरणमात्रमेव मन्त्रस्य प्रयोजनं भवति । यथा तेनोक्तम्- प्रयोगसमवेतार्थस्मारका
मन्त्राः । (अर्थसंग्रहः, मन्त्रमीमांसा) ब्राह्मणविभागे आरण्यकोपनिषद्ग्रन्थानामपि समावेशः
जातः । अपरदृष्ट्या वेदस्य त्रयः विभागाः सन्ति - कर्मकाण्डं, उपासनाकाण्डं ज्ञानकाण्ड´्च । कर्मकाण्डे यज्ञादिविभिन्नक्रियाकलापानां
प्रतिपादनं विशेषरूपेण कृतम् । वेदः सर्वविधज्ञानस्य स्रोतः विद्यते।
आधिभौतिकाधिदैविकाध्यात्मिकज्ञानस्य प्रतिपादको भवति वेदः ।
मानवस्यैहिकामुष्मिक- कल्याणसाधनरूपधर्मस्य साङ्गोपाङ्गविश्लेषणं वेदेषु
सन्निहितम् । ज्ञान-विज्ञान-कला- कौशल-शिल्प-उद्योगादिषु एतादृशः विषयः न
दृश्यते यः वेदेषु न प्रतिपादितः । पौराणिकवर्ण्यविषयः वेद
इव पुराणान्यपि मानवजीवनस्य समस्तक्रियाकलापानां विषये चिन्तनं प्रस्तुवन्ति।
पुराणां वर्ण्यविषयः अधोलिखितश्लोकमाध्यमेन ज्ञातुं शक्यते- सर्गश्च प्रतिसर्गश्च
वंशो मन्वन्तराणि च । वंशानुचरितं चैव
पुराणं प´्चलक्षणम्।। पुराणानां लक्षणमिदं
किंचित्पाठभेदेन एकरूप्येण वा विष्णुपराणे, मार्कण्डेयपुराणे, अग्निपुराणे, भविष्यपुराणे, ब्रह्मवैवर्तपुराणे, वराहपुराणे, स्कन्दपुराणे, कूर्मपुराणे, मत्स्यपुराणे, गरुडपुराणे, ब्रह्माण्डपुराणे, शिवपुराणे, देवीभागवते
अन्यत्रान्यत्रापि च लभ्यते। सर्गः नाम सृष्टिः
जगतः उत्पत्तिः, प्रतिसर्गो नाम
दृष्यमानस्यास्य समये-समये प्रलयः। वंशः, उपादानभूतानां
तत्वानां देवादीनां मनुष्याणां च उत्पत्तिपरम्परा, वंशानुचरितं, तत्तद्वंशभवानां
तत्तेषां विषये यद्विशिष्य वक्तव्यम् तद्विवरणम्, मन्वंतरम् सृष्ट्यादीनां कालव्यवस्थापनम् इति सामान्येन
शब्दानामेव विवरणमपि तत्र तत्र प्राप्यते । श्रीमद्भागवते
ब्रह्मवैवर्ते च पुराणानां दशलक्षणानि अपि वर्ण्यन्ते । तत्र श्रीमद्भागवते- सर्गोऽस्याथ
विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं
संस्था हेतुरपाश्रयः ।। दशभिर्लक्षणैर्युक्तं
पुराणं तद्विदो विदुः । केचित् प´्चविधं ब्रह्मन् ! महदल्पव्यवस्थया ।।? वैदिकसृष्टिविज्ञानम् ऋग्वेदे 6-7
सृष्ट्युत्पत्तिविषयकसूक्तानि विद्यन्ते । तेषु नासदीयसूक्तम् (10/129),
हिरण्यगर्भसूक्तम् (10/121)
पुरुषसूक्तम् (10/90)
च प्रमुखानि सन्ति । नासदीयसूक्ते
उल्लिखितम्- नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमा
परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं
गभीरम् ।। न मृत्युरासीदमृतं न
तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीदवातं स्वधया
तदेकं तस्माद्धान्यन्न परः किं चनास ।। (ऋक्0
10/129/1-2) अर्थात् तस्मिन् समये असत् नासीत् सदपि नासीत्, न पृथिवी आसीत्
आकाशोऽपि नासीत् । आकाशे स्थिता भूरादयः लोका अपि नासन् । तदा कोऽपि
कुत्रापि नासीत् । तदा गहनं गभीरं जलमपि नासीत् । तस्मिन् काले मृत्युः नासीत्
मृत्योरभावोऽपि नासीत् । रात्र्याः दिवसस्य चापि भेदः नासीत् । तदेकं
ब्रह्मतत्वं प्राणयुक्तं क्रियाशून्य´्चासीत्
। तद्भिन्नं तत्परं च किंचिदपि नासीत् । अन्यत्र ऋग्वेदे उल्लिखितम्- ‘द्वा सुपर्णा सयुजा सखाया’
(1/164/20) इति । अर्थात्
अस्मिन् शरीरवृक्षे जीवात्मापरमात्मारूपिणौ द्वौ पक्षिणौ निवसतः । तयोः एकस्तु
फलभोक्ता भवति अपरश्च साक्षी । यजुर्वेदे प्रजापतेः सर्वत्र व्याप्तिः
प्रदर्श्यते- प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते
। तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ।। (यजु0
31/19) अर्थात् प्रजापालकः परमात्मा सर्वेषु पदार्थेषु
समानरूपेण विचरति । सः अजायमानो भूत्वापि बहुधा स्वकीयं रूपं प्रकटीकरोति ।
धीराः ज्ञानिनः तस्य तत्स्वरूपं पश्यन्ति येन समस्तभूतानि व्याप्तानि सन्ति । ‘अणोरणीयान्’ तथा
‘महतो महीयान्’ इत्यनयोः मूलं अक्षरतत्वं विद्यते । अक्षरब्रह्म
अयौगिकः भवति यज्ञश्च यौगिकः । अयौगिकब्रह्मैव सृष्टेः आधारः भवति । स एव
अनेकरूपेषु व्यक्तो भूत्वा सम्पूर्णसृष्ट्यां व्याप्तः भवति । वेदविद्यायां
सृष्टिविद्यायाः अस्मिन् रूपे एव विवेचनं कृतम् । अथर्ववेदेऽपि उल्लिखितम्- ‘स एति सविता महेन्द्रः’, ‘स धाता स विधर्ता स वायुः’, ‘सोऽर्यमा स वरुणः स रुद्रः स महादेवः । सोऽग्निः स
उ सूर्यः स उ एव महायमः ।।’ (अथर्व0
13/4/5) अर्थात् इन्द्र (ब्रह्म) एव सवितास्ति, स एव धाता विधाता चास्ति । स एव वायुरपि विद्यते। स
एव अर्यमा, वरुणः, रुद्रः, महादेवश्च
भवति । स एव अग्निमहादेवमहायमादिरूपेषु तिष्ठति । पुरुषसूक्ते उक्तम्- तस्माद् विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।। (10/90/5) अर्थात् तस्मात् आदिपुरुषात् इदं विराट् (व्यक्तजगत्)
उत्पन्नम् । तस्मात् विराजः (ब्रह्माण्डशरीरात्) पुरुषः (जीवात्मा) समुत्पन्नः ।
तेन एव भूमिशरीरादीनां निर्माणमभूत् । इत्थमेव हिरण्यगर्भसूक्तेऽपि सृष्ट्याः उत्पत्तेः
वर्णनं भवति । तेन हिरण्यगर्भेण सर्वप्रथमं पृथिवीद्युलोकादयः धृताः । तस्मादेव
आत्मादीनां सृष्टिः जाता । तस्मादेव मृत्युरुत्पन्ना । एवं वैदिकवाङ्मये सृष्ट्युत्पत्तेः विषये दार्शनिकी
चर्चा भवति । भूयो भूयः सू़क्ष्मातिसूक्ष्मतत्वस्य सत्तायाः वर्णनं भवति
यस्मादिदं स्थूलं जगदाविर्बभूव । पौराणिकसृष्टिविज्ञानम् विष्णुपुराणे
प्राणीनां सृष्टिप्रसंगे उक्तमस्ति यत् प्रथमं तु वृक्षाः उत्पन्नाः । मुखे
अर्थात् मानवानां प्रारम्भे सम्भवनात् इमे मुख्याः अभिहिताः । अतः परं तिर्यक्
योनयः जाताः । अस्य चत्वारः भेदा सन्ति- पशवः, मृगाः, पक्षिणः
सरीसृपाश्च । यथोक्तम्- पंचधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।। मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् । तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं पुनः ।। तस्याभिध्यायतः सर्गस्तिर्यक्स्रोताभ्यवर्त्तत । यस्मात्तिर्यक्प्रवृत्तिस्स तिर्यक्स्रोतास्ततः
स्मृतः।। (वि0पु0
1/5/6-9) पौराणिक-सृष्टिविज्ञाने
सृष्टिप्रक्रियावर्णनातिरिक्तं अवतारस्य, आयत्याः
अर्थात् मरणोपरान्त जीवस्य गतिविषयस्य वर्णनं ब्रह्माण्डस्य च वर्णनं अपि अस्ति
। अवतार-विषये डारविनविकासवादविषये च पं.बलदेवउपाध्यायमहोदयाः स्वरचिते ‘पुराण-विमर्श’ इत्यस्मिन्
ग्रन्थे लिखितवन्तः- ‘‘अंग्रेज
वैज्ञानिक डारविन ने 19वीं
शती के मध्य भाग में अपने वैज्ञानिक अन्वेषणों के आधार पर विकासवाद (ज्ीमवतल व
िम्अवसनजपवद) तत्व पश्चिमी जगत् में सर्वप्रथम प्रतिष्ठित किया । तब से लेकर आज
तक इसने ज्ञान के सब विभागों में अपना सिक्का जमा लिया है । सृष्टि के विषय में
विकासवाद का यही तात्पर्य है कि सृष्टि
दीर्घकाय प्राणियों में आविर्भूत
हुई । प्रथमतः जन्तु बुद्धि से विहीन थे और पीछे से उनमें बुद्धितत्व का विकास
सम्भव हुआ । इस प्रकार पश्चिमी जगत् में
विकासवाद सौ वर्ष से अधिक प्राचीन नहीं है । परन्तु इस अवतारतत्व की
समीक्षा विकासवाद की भित्ति पर निस्सन्देह आधारित प्रतीत होती है ।’’ (पुराणविमर्श, पृष्ठ
सं0 177) पुराणेषु ब्रह्माण्डः
मुख्यतया त्रिषु भागेषु विभक्तः वर्तते- 1.ऊर्ध्वलोकः
2.मध्यलोकः 3.अधोलोकश्च । इमेे लोकाः अपि क्रमशः षट्सु, एके सप्तसु च विभागेषु विभक्ताः सन्ति । ते एव
विभागाः ‘चतुर्दशभुवनानि’ इति नाम्ना ज्ञायन्ते । इत्थमेव सम्प्रति
पाष्चात्यवैज्ञानिकाः अपि विकासवाददृष्ट्या सृष्टिक्रमं स्वीकारयन्ति। अयं
विकासवादः द्विविधः भवति- (अ)
प्राणीनां सृजने क्रमिक-विकासः (ब)
प्राणीनां स्थितौ क्रमिक-विकासश्च। पाश्चात्यवैज्ञानिकानामनुसारं
सृष्टेः उत्पत्तिविषये केवलं परिकल्पनाधारिताः सिद्धान्ताः वादाष्च प्रतिपादिताः
। सृष्टि-उत्पत्ति-विषये सिद्धान्ताः अन्तरिक्षस्य गहनप्रेक्षणोपरान्ते जीवानां
च शारीरिकसंरचनायाः गहनाध्ययनोपरान्ते प्रतिपादिताः सन्ति । अस्मिन् क्रमे
अनेकाः विद्वान्सः स्वस्वविचारान् प्रस्तुवन् किन्तु तेषु चाल्सडार्विननामकस्य
वैज्ञानिकस्य विकासवादसिद्धान्तः सर्वप्रसिद्धः सुसंस्थापितश्च वर्तते । अयं
सिद्धान्तः उद्परिवर्तनसिद्धान्ते आधारितः वर्तते । प्रकृत्याः प्रभावेण
प्राणीनां शारीरिकसंरचानायां स्थायीपरिवर्तनमेव उद्परिवर्तनं कथ्यते । यदा वयं
विद्यमानजीवप्रजातिषु दृष्टिपातं कुर्मः तर्हि पश्यामः यत् तत्र तेषां
शारीरिकसंरचनासु पर्याप्तसमानता वर्तते । यदि तेषां
वर्गीकरणं कुर्मः तर्हि
एकं पद्धतियुक्तं क्रमं अवगच्छामः ।
अयं पद्धतियुक्तः क्रमः
एव ‘विकासवादः’ इति नाम्ना अभिधीयते । वर्तमान-वैज्ञानिक-युगे
जनाः वेदेषु तु विश्वसन्ति किन्तु पुराणेषु न विश्वसन्ति यतो हि ते चिन्तयन्ति
यत् पुराणानि कपोलकल्पितकथानां संग्रहमात्राणि एव सन्ति । अपि च भारतीयानां
मानसिकता एतादृशी अभवत् यत्किमपि पाश्चात्यविद्वद्भिः सत्यं प्रतिपादितं
तत्सर्वमेभिरपि स्वीकृतम् । जर्मनविद्वान्सः वेदेषु शोधकार्यं कृत्वा वेदानां
रहस्यं उद्घाटितवन्तः अतः परित्यक्तवेदाध्ययनाः वयं वेदान् प्रति पुनः अग्रसराः
अभवन्। केचन भारतीयविद्वान्सः अद्यापि संस्कृतग्रन्थानां मौलिकतायाः प्रतिपादनाय
प्रयासं कुर्वन्ति । ते अन्धन्यायपरम्परां नानुकुर्वन्ति । पुराणानि
कपोलकल्पितकथासंग्रहमात्राणि अवगन्तारः न जानन्ति यत् पुराणेषु वेदविद्या
तदरिक्तविद्याश्च एव आख्यानरूपे परिलक्षिताः वर्तन्ते । भारतीय-पौराणिक-काले अपि
ऋषयः जनानां मनोविज्ञानं अवगच्छन्ति स्म । वेदज्ञानं सामान्यजनानां कृते दुष्करं
भवति अतः ते सरलभाषायां आख्यानरूपे तं पुराणवेदज्ञानं निबद्धं कृत्वा
अष्टादशपुराणानां रचनां कृतवन्तः । अतः अस्मिन् समये पुराणानां सम्यगध्ययनस्य
आवश्यकता वर्तते । दार्शनिकचिन्तनमेव आधुनिक विज्ञानस्य मूलं अस्ति। पुराणानां दर्षनस्य
समानान्तराध्ययनेन एतेषां वैचारिकसाम्यं परिलक्षितं भवति । सृष्टि-विकासवादः जैविकविकासवादश्च अष्टादशपुराणेषु
प्रसंगानुसारं वर्णितौ स्तः। सृष्टेः
जीवानां विकासक्रमे यथा दार्शनिकाः वैज्ञानिकाश्च चिन्तयन्ति तथैव पौराणिकाः अपि
चिन्तनं कृतवन्तः । सृष्टिप्रक्रियायाः वर्णनं प्रायः सर्वेषु पुराणेषु कृतम्।
उदाहरणार्थं अत्र विष्णुपुराणस्य सृष्टिक्रमः द्रष्टव्यः । अत्रापि सर्वप्रथमं
वेदवत् सृष्ट्युत्पत्तेः पूर्वस्थित्याः उद्घोषणा भवति - नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभूच्च
नान्यत् । श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म
पुमांस्तदासीत् ।।(वि0पु0
1/2/23) तत्पश्चात् तत्पुरुषतः सृष्टिप्रक्रियायाः वर्णनं
भवति- विष्णोः स्वरूपात्परतो हि ते द्वे रूपे प्रधानं
पुरुषश्च विप्र । तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरं तद्द्विज
कालसंज्ञम् ।।(वि0पु0
1/2/24) अर्थात् ब्रह्मणः (विष्णोः)
प्रधानपुरुषयोरुत्पत्तिः जाता । तत्पश्चात्
महदहंकारपंचभूततन्मात्रादशेन्द्रियादीनां क्रमशः सृष्टिः भूता । यदि विष्णोः मत्स्यवाराहनृसिंहादिदशावताराणां क्रमविषयेऽपि
चिन्तनं कुर्मः तर्हि पश्यामः यत् अस्मिन् क्रमेऽपि सृष्ट्युत्पत्तिक्रमः
दृश्यते यः आधुनिकवैज्ञानिकैः प्रदर्शितसृष्टिक्रमेण सर्वथा सिद्धं भवति । श्री
के.नारायणस्वामीअय्यरमहाभागाः एकं ग्रन्थं लिखितवन्तः- ‘ज्भ्म् च्न्त्।छ।ै पद जीम सपहीज व िउवकमतद ेबपमदबम’ इति । अयं शोधग्रन्थः आंग्लभाषायां लिखितोऽस्ति ।
अस्मिन् पुराणपंचलक्षणानुसारं प्रत्येकलक्षणोपरि पृथक्-पृथक्-अध्याये विवेचनं
कृतम् । तत्र प्रथमः अध्यायः वर्तते ‘सर्ग’ (ेंतहं) इति । अस्मिन् अध्याये पंचभूतानां
निर्माणादिभिः सृष्टिनिर्माणवर्णनम् कृतमस्ति । उदाहरणस्वरूपे- ‘‘आकाशाद्वायुः
। वायोरग्निः । अग्नेरापः अद्भ्यः । पृथिवी ।’’ ‘‘थ्तवउ
।ांे टंलनय तिवउ टंलनए ।हदपय तिवउ ।हदपए ।चंेय ंदक तिवउ ।चंेए च्तपजीअपण् ॅीमद
जीम ूीवसम नदपअमतेम पे कमेेवसअमकए जीम तमअमतेम चतवबमेे वइजंपद व िच्तपजीपअप
उमतहपदह पदजव ।चंेए ।चंे पद ।हदपए ंदक ेव वदण्’’ (पृ0 सं0 30) पं.बलदेवउपाध्यायमहोदयानां
‘पुराण-विमर्श’ इति नाम्नि पुस्तके ‘पौराणिकसृष्टितत्वं’ इति
नाम प्रसंगे नवसर्गात्मिकायाः
सृष्ट्याः वर्णनमस्ति । अस्मिन्
ब्रह्मसर्गः, भूतसर्गः, वैकारिकसर्गः, मुख्यसर्गः
(अविद्यासर्गः), तिर्यक्सर्गः, देवसर्गः, मानुषसर्गः, अनुग्रहसर्गः, कौमारसर्गः
इतिक्रमे सृष्टिजैविकविकासक्रमः प्रदर्शितः । पुराणेषु या कालगणना क्रियते तस्यानुसारं पृथिव्याः
आयुपरिमाणं तावदेव भवति यावत् आधुनिकवैज्ञानिकाः प्रवदन्ति । अतः वैदिकपौराणिककालेऽपि सृष्ट्युत्पत्तिविषयकसटीकचिन्तनपरम्परा
आसीत् । मुकेशकुमारटेलरः एम.ए. (संस्कृत), नेट-जेआरएफ ------------------------------------------------------------------------------------------------ |
|