संस्कृत विद्युतपत्रिका



 

 

ENGLISH

तां

हा

र्दं

स्वा

म्

 

   

     

   

 

 

 

रोगविचारः निदानपक्षस्य ज्योतिषमूलेनान्वेषणं च

प्रो0 सच्चिदानन्द मिश्र

गतांक से आगे

रोगोत्पत्तौ कारणम् -

      वातः पित्तः कफश्चेति त्रयो दोषाः समासस्ततः।

      विकृताः विकृतं देहं घ्नन्ति ते वर्त्तयन्ति च।।

वातपित्तकफादयः दूषिताः सन्तः देहं दूषयन् रोगान् जनयन्ति। एतेषां कारकग्रहाणां निष्पत्या ग्रहायोगाद् रोगाः रोगजन्य दोषैः ग्रहयोगादीनां निर्धारणं महदायाशेन संभवतीति।

रोगोत्पत्तौ योगाः -

      रोगस्य चिन्तामपि रोगभावस्थितैर्ग्रहैर्वा व्ययमृृत्युसंस्थैः।

      रोगेश्वरेणापि तदान्वितैर्वा द्वि×यादिसंवाद् वशाद् वदन्तु।। 

अर्थात् षष्ठभावः षष्ठेशः षष्ठास्थितग्रहः युतिः दृष्टिश्च विभिन्नग्रहयोगादि सापेक्षत्वेन रागोत्पादकानां द्वि×यादिकानां योगेन भवति इत्यपि निष्कर्षः।

कालपुरुषस्या¯विभागः - काल नरः - मानवश्च -

      शीर्षमुखबाहुहृदयोदराणि कटिबस्तिगुह्यसंज्ञानि।

      उरुजानूजङ्घे चरणाविति राश्योऽजाद्याः।।

      कालनरस्यावयवान् पुरुषाणां चिन्तयेत्प्रसवकाले।

      सदसदग्रहसंयोगात् पुष्टाः सोपद्रवास्ते च।।  

 

अर्थादित्यनेन वर्षफलं देशफलं लग्नसापेक्षत्वेनाजन्मनिधनान्तं सारावली प्रमाणेन जातक पारिजात प्रमाणेन च काल पुरूषानि प्रायेण शरीरे प्रभावश्च मानवीय शुभाशुभफलं तथा¯ानां निःरोगत्वं रूग्णत्वं च निश्चियते। कथमित्यत्र पाराशररदीनां विधानानि प्रमाणभूतानि। वराहस्यायमुपक्रमः पिण्डेन ग्रह्माण्डीयं ब्रह्माण्डीयेन पिण्डीयं साम्यं भनक्ति।

क्षयरोगः -

      तत्र मृतौ वा कुजराहुभ्यां क्षयः।।1।।

      चन्द्रदृष्टौ निश्चयेन।।2।।     

क्षयरोग अत्यथः। रक्त पित्तमज्जादीनां वात योगेन क्षयकारकः। मात्रानिर्धारणमायुर्वैज्ञानिक प्रयोगेन गम्यमिति। अष्भावः मृत्युभावः रन्ध्रभावश्च। अर्थात् 8 भावे $ कुजः $ राहुः = क्षयरोगः। यद्यस्मिन् योगेचन्द्रदृष्टिस्तदा निश्चयेन क्षयरोगः समुत्पद्यते। रक्तस्थ जलस्य तथा वक्षस्थ कफस्य विकारेणायं रोगः समुत्पद्यते।

व्रणरोगः -

      लि¯स्याभयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः।। 

अर्थात् षष्ठभावः $ लग्नेशः $ मंगलः = व्रणरोगः। अत्र पित्तस्य प्राधान्यं रक्तमज्जादिषु विकारश्च। कथमिति शरीरक्रिया विज्ञानं शरीरसंरचना विज्ञानं योगमूलेनायुर्विज्ञानमूलेन सम्बद्धमिति।

व्रणरोगः -

      रोगेशो लग्नपो यस्य निधनस्थोऽपि जन्मनि।

      व्रणोदयस्तु सर्वा¯े स पापो न व्रणं दिशेत्।।  अर्थात् 8 भावः $ षष्ठेशः $ लग्नेशः = सर्वा¯े व्रणरोगः। यदि कश्चित्पापोऽपि भवेत्तदा न व्रणः। पापग्रहेषु सू. सपाप चन्द्रः, बुधः, मंगलः, शनिः, राहुः केतुश्च। शनि व राहुः कुजवत् केतुरिति केचित्।

ग्रहपीडनाच्छान्तिः - शान्तिकल्पः - द्वयोः तमोग्रहयोः साहचर्यत्वेन फलप्रदायकत्वमिति स्वकीयबिम्बाभावात् छायारूपत्वं तमोमयं च रूपमस्य।

      देवब्राह्मणवन्दनादगुरुवचः संपादनाद् प्रत्यहं -

      साधूनामभिभाषणाच्छुतिरवाच्छ्द्रेयः कथा कर्णनात्।।

      हेमादध्वरदर्शनाच्छुचिमनो भावाज्जपाद्दानतो

      नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम्।।

अर्थात् ऋषिपरम्परानुगामिनः देवभक्ताः पितृणां तोषकाः सन्मार्गपरायणाः शान्तिकल्पोक्त विधानेन चरणशीलाः ग्रहपीडनात् कष्टं न प्राप्नुवन्ति। यतः मं0 $ 0 $ रा0 एतेऽर्बुदकारकाः दारूणत्वेन पित्तवातादीनां विकारेण सर्वग्रहयोगादि प्रमाणैः यतः सन्ति।

ग्रहदोषशमनार्थमौषधयः -

      लाजाकुण्डबलाप्रियङ्गुधनसिद्धार्थैनिशादारुभिः -

      पुंखोलोध्रयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाछत्। आयुर्वैज्ञानिकैः मानवीय शरीरस्य वर्तमानक्षमतानुरोधेन मात्रा निर्धारणं रसायनिक वर्गीकरणं कर्तव्यमेव।

      दानपदार्थाः -

      धेनुः कुम्ब्वरूपोवृषणश्च कनकं पीताम्बरं घोटकः -

      श्वेतो गौरसिता महासिरज इत्येता रवेर्दक्षिणा।।

भौमस्य -

      बिल्वचन्दबलारूणपुष्पैर्हिंगुलूकफलिनी बकुलैश्च।

      स्नानमद्भिरिह मांसियुताभिर्भौमदौस्थ्य विनिवारणमाहुः।। इत्याभिषेके प्रयुज्य पदार्थाः।

शनेः -

      असिततिला॰जनलोध्रबलाभिः शतकुसुमाघन लाजपुत्राभिः।

      रवितनये कथितं विषमस्थे दुरित हरा प्लवनं मुनिमुख्यैः।। इत्यप्यभिषेकेप्रयोज्यन्ते।

राहोः केतोश्च -

      लोध्रगर्भतिलपत्रकमुक्ता हस्तिदन्तमृगनाभिपययोभिः।

      स्नानमार्तिमिह कृन्तति राहोः साजमूत्रमिदमेव च केतोः।।

      अर्बुदादि कारकेषु सूर्यकुजशनयः मुख्याः सन्ति। योगनिष्ठः शान्तिकल्पस्य समुपासकः दुर्योगेऽपि देवाराधनया शान्तिं प्राप्नोति। समन्त्र विधानममन्त्रविधानं च द्विविधमुूपलभ्यते। निगमागम सम्मत शमनीकलपस्यानेके ग्रन्थाः स्वातन्×येणापि प्राप्यन्ते।

प्रश्नमार्गः -

      जन्मान्तर कृतं पापं व्याधिरूपेण जायते। जन्मान्तरजन्य दोषैरसाध्य रोगोत्पत्तिरिति।

कश्चित् विशेषः -

      1. ठमदपहद 2. डंसपहदंदज

कैंसर के दो मुख्य भेद - अर्बुदस्य मुख्यत्वेन द्वौ भेदौ भवतस्तत्रोपभेदाः बहुविधाः सन्ति। सर्वा¯े कुत्राप्ययं रोगः दुर्ग्रहयोगै समुत्पद्यन्तेे। अस्य नियमनार्थं - जातकोक्त तत्त्वात्मकवर्गीकरणेन द्रेष्काणयुक्त्या शरीरा¯ विभागयुक्त्या च संघीयान्वेषणेन- यथार्थ निर्धारणं शान्तिकल्पाश्रयेमायुर्विज्ञान योगेन निदानमपि कर्त्तंु शक्यते। प्रबलमारकसत्वे सामान्य रोगेणापि निधनं भवति। प्रबलारिष्टयोगेन जन्मकालात् 24 वर्ष पर्यन्तं निधनं संभवति। अतः प्रथमतः स्पष्टायुर्दायसाधनं कर्त्तव्यं यथा- प्रश्नमार्गः  - 9/3/03 -

विधान पक्षः -

      आयुः पूर्वं परीक्षेत पश्चाल्लक्षणमादिशेत्।

      अनायुषां तु मर्त्यानां लक्षणैः किं प्रयोजनम्।।

      आयुरेव विशेषेण प्रथमं चिन्त्यतेऽधुना।

      स्वास्थ्यमुद्दिश्य वा प्रश्न एवं दातुत्यमियम्।।

मंगलात् विचारणीय विषयाः -

      रोगारिव्यसनक्षतानिवसुधापुत्रादितश्चिन्तयेत्।।  इति कुजस्य कारकत्वम्।

      पापे लग्नगते सपत्नयुते देहव्रणं देहिनाम्- रोगः शत्रुः व्यसनं क्षतप्रभृतयः कुजात् विचार्यये। लग्नम् $ पापग्रहः $ षष्ठेशः = व्रणरोगः। सपत्नयुते - षष्ठेशेन युते।।

गदावली - 3/62 भौमाद्व्रणः - गदावली - पृ0 27 - कुजात् रक्तविकारोऽपि - फलदीपिका - मज्जा - विहतिपरुषतापमिकादेह अंगान् (14-4) - मन्त्रेश्वरः - शनिः गुलिकश्चार्बुदकारकः - रोगविचारः पृ0 39 -       जातकपारिजातः - 2/66 - ग्रन्थिरूग्रव्रणकारकः  कुजः। गदावली - 1/8 -

ग्रन्थ्यस्त्रकोपाक्षिरक्तकुष्ट - तृष्मास्म विषानलव्यथा कारकश्च भौमः।

गदावली - 36

      दुष्टग्रन्थिर्द्विड् व्ययस्थे स भौमे।

      पुण्यारदृष्टे भानुजे गण्डमाला।। इति गण्डरोगः।

वीरसिंहावलोकः - पृ0 230

      निधनस्थे दिवानाथे भूसुतेन विलोकिते।

      विसर्प स्फोटका रोगा जायन्ते तस्य जन्मिनः।। इत्यत्रापि अष्टमभावः $ सूर्यः $ कुज दृष्टिः = विसर्परोगः वा स्फोटकरोगः। टि0- ग्रन्थेऽस्मिन् निदानार्थमायुर्विज्ञानेनसाकं शान्तिकल्पोऽपि प्रयुक्तः दृश्यते। धर्मशास्त्रीयं कारणं मन्त्रयन्त्रतन्त्रौषध्यादीनां निवेशेन सर्वतो भावेनारोग्यसाधक विधानं प्राप्तये पर समवेतत्वेन निवेशस्य सा धारासुप्ता प्रतिभाति।

जातकतत्त्वम् - 6/22

      लग्नपारौ त्रिके ग्रन्थिशस्त्रजव्रणपीड़ा।। 6, 8, 12 भावाः $ लग्नेशः $ मंगलः = ग्रन्थिरोगः, शस्त्रजरोगः, व्रणरोगश्च।

गदावली - 3/62

      लग्ने कुजः सप्तमे शुक्रः वा भवेच्च गुरूर्यदि।

      शीर्षस्थाने च गुल्मः स्यादिति गदावलेर्मतम्।। इति गुल्मः।

      ज्ञारीशौ रन्ध्रेऽ¯े वा हृदयव्रणः जातकतत्वम् -6-31, लग्नम् वा 8 $ बुधः $ मंगलः = हृदयव्रणः।

      रन्ध्रेपापे गुह्यरोगः जा00 - 6/61- अष्टमभावः $ पापग्रहः = गुह्यरोगः।

      गदावली 63 -

      दुष्टग्रन्थिर्द्विड्व्ययस्थे सभौमे। व्ययभावः $ मं. $ बु. = दुष्टग्रन्थिः।

      पापारदृष्टे ग्लावाग्रन्थिशस्त्रव्रणः।।

गदावली - 64 -

      दुष्टेऽ¯ेशे सोष्णगो तापगण्डी।

      कोत्था ग्लावा भानुजे गण्डमाला।। इति तापगण्डः लग्नेशस्य दुष्टस्थानास्थितत्वेन लग्नस्थ सूर्येण संभवति। शनियोगेन गण्डमाला रोगः।

फलदीपिका - 14/10

      सोग्रे प॰चमेशे भवेदुदररुग्रन्थारिनाथान्विते।  प॰चमेशः $ पापग्रहः = उदररोगः।

      तद्वत्सप्तमनैधने सगुदरुक्छुक्रे च गुह्यामयः।। प॰चमेशः $ पापग्रहः $ षष्ठेशः = उदरेग्रन्थिरोगः एवं सप्तमेऽष्टमे च गुह्यरोगः। शुक्रोऽपि रोगमुत्पादयति कामजन्यः।

जा0पारि0 आयुर्दाय - श्लो0 86

      रन्ध्रस्थानगते सूर्ये भौमे वा बलवर्जिते।

      वित्ते पापग्रहैर्युक्ते पित्तरोगान्मृतिं वदेत्।। अष्टमभावः $ सूर्यः बलहीन मंगलः $ द्वितीयभावे पापग्रहः = वक्षव्रणः। वा पित्तदोषन्मरणम्।

षष्ठे कर्कः सपापः वक्षे व्रणः - जा0पा0 3/69

षष्ठेशः सूर्येण युक्तः कुजः त्रिक्स्थः गुह्यरोगः - दैवज्ञाभरण 14/15

सूर्यः षष्ठेशः $ मंगलः $ 6वा 8वा 12त्रिकस्थः = गुह्यरोगः।

असाध्यरोगः - बृ0पा0 81

      वित्तदोषोद्भवकीटैः निधनम् - बृहज्जातकम् 25/6

      ग्रन्थिरोगः    -     जातकतत्त्वम्             -     6/38

      ग्रन्थिरोगः    -     जातकतत्त्वम्             -     6/39

      ग्रन्थिरोगः    -     दैवज्ञाभरण         -     14/20

      ग्रन्थिरोगः    -     दैवज्ञाभरण         -     14/20

      स्फोटः             -     वीरसिंहवालोकः      -     पृ0 230

      स्फोटः       -     सर्वार्थचिन्तामणिः    -     3/146

      स्फोटः       -     दैवज्ञाभरण         -     16/56

      स्फोटः       -     दैवज्ञाभरण         -     16/11

एवं विभिन्नरोगाः प्रवर्त्तन्ते। यदि लग्नेशः स्वोच्चस्थः शुभग्रहैर्युक्तः दृष्टः केन्द्रस्थः त्रिकोणस्थश्च दुर्योगेऽपि रक्षको भवति। अतएव तारतम्ये न निर्धारणं कर्त्तव्यम्। संस्कृत वा¯मये योगः $ ज्योतिषम् $ तन्त्रागमः $ आयुर्विज्ञानम् $ औषधिविज्ञानम् $ वैदिकशान्ति कल्पः = वास्तविक निदानं तापत्रय शमनं चेति। अस्य द्वितीयभावः ज्ञापकविधानमनुसृत्यविद्यते। इत्यलमविस्तरेण

                                         

 

 

------------------------------------------------------------------------------------------------
|Feed Back | Home | Notice and links | Photo Gallery | Old issues |