ISSN 0976-8645

Jahnavi.jpg 

Jahnavi Sanskrit E-Journal

[A First International Electronic Peer-reviewed Quarterly Refreed UGC Approved Sanskrit Tri-lingual Journal]

 A portal of Sarasvatniketanam

एकोनत्रिंशदङ्के भवतां सर्वेषां मङ्गलाभिनन्दनम्।

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझामहोदयैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिणां सहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते| तेषु रूपेषु एवायं प्रबन्धो जाह्नवी संस्कृत जर्नल नाम्ना संस्कृतजगति प्रथितः।      

 

www.sarasvatniketanam.org,  www.jahnavisanskritejournal.in

अङ्कस्यास्य कार्यसम्पादकाः

मुख्यसम्पादकः

विद्यावाचस्पति-डा.सदानन्दझा

पुनर्वीक्षकाः

डा. पङ्कज-मिश्र, नई दिल्ली , डा. मखलेशकुमार, पुरी , डा. वी बी ओझा, हिमाचलप्रदेशः,  डा विद्वान्-सुमन-आचार्य, चेन्नै, , डा. गीताशुक्ला, लखीमपुरखीरी,  , डा. अनिलप्रतापगिरि, पाण्डिच्चेरी, डा. जानकीशरण-आचार्य, सोमनाथविश्वविद्यालयः, डा.  ना. वैती सुब्रमणियन्, हिमाचलप्रदेशः, डा. मुकेशकुमारः, देवप्रयागः.

विशिष्टपुनर्वीक्षकाः

Dr. PK wendabona,  Department of Basic Principles, Institute of Indigenous Medicine University of Colombo,  Rajagiriya Sri Lanka,  डा. गिरिधारी-पण्डा, मिदनापुरम्

सम्पादकाः

डा. वी बी ओझा, हिमाचलप्रदेशः, डा. रामसेवकझा, मधुबनी डा. नारायणदत्तः, नई दिल्ली, डा. श्लेषासचिन्द्र, नई दिल्ली, श्री श्रीनाथधरद्विवेदी,  हिमाचलप्रदेशः, डा. बिपिनकुमारझा,  हिमाचलप्रदेशः

प्रकाशकः

डा. बिपिनकुमारझा

प्रकाशन-सम्पादनसहायकाः

डा. हीरालालदासः,  स्वीटीरानी, परिमलमण्डलः, देवव्रतनायकः,

प्रतिनिधयः  (लोकार्पणसन्दर्भे)

डा विद्वान् सुमन-आचार्यः- डा विद्वान् सुनील-आचार्यश्च

तकनीकिप्रवन्धनसहायका

डा. सुमनदीक्षित, कानपुर , डा. सरिताश्रीवास्तव, लखनऊ , श्री सुमित-आनन्द, दरभंगा, रित्ज़ वेब होस्टिंग, बंगलोर

ü DOWNLOAD FONTS

ü सम्यक् पठनार्थं लिपिस्थापनमावश्यकम्।

विषयानुक्रमणिका

I

प्रस्फुटम्

1

सम्पादकीयम्

 विद्यावाचस्पति डा. सदानन्दझा

pdf.png

मुख्यसम्पादकः

2

प्रकाशकीयम्

डा. बिपिनकुमारझा

pdf.png

प्रकाशकः सम्पादकश्च

II.A

साहित्यानुरागः

1

कर्मविमर्शः

डा. केशवकुमाररायः (प्र. प्राचार्यः) 

pdf.png

लक्ष्मीदेवी शर्राफ-आदर्श-संस्कृतमहाविद्यालयः, कालीराखा, देवघर, झारखण्ड।

2

लब्धं नेत्रनिर्वाणम्

डा. पङ्कज मिश्र (एसोसिएट प्रोफेसर)

pdf.png

 सेण्ट स्टीफेंस कालेज, दिल्ली विश्वविद्यालय

3

Influence of Postmodernism in the Rasagangadhara

 

Nibedita Banerjee.  

(Research Scholar)

Dr.AnilPratap Giri

(Assistant Professor)

pdf.png

 Dept. of Sanskrit,  Pondicherry University

4

मनुस्मृति के आलोक में दण्ड-विधान

डा. गीताशुक्ला,  (एसोसिएट प्रोफेसर)

pdf.png

संस्कृतविभाग , भ. दी. आ. क. स्नातकोत्तर महाविद्यालय, लखीमपुरखीरी, उत्तर-प्रदेश

5

पाणिनीयसूत्राणां तात्पर्यसाधने सन्निपातपरिभाषायाः  प्रयोजनानि

 

डा. गिरिधारीपण्डा (सहायकाचार्यः)

 

pdf.png

स्नातकोत्तरसंस्कृतविभागः, मिदनापुरमहाविद्यालयः, मिदनापुरम्, पश्चिमबङ्गः

6

ज्योतिश्शास्त्रोक्तनाभसयोगविमर्शः

डा. मुकेशकुमारः, ([सहायकाचार्यः)

pdf.png

राष्ट्रियसंस्कृतसंस्थानम्, श्रीरघुनाथकीर्तिपरिसरः, देवप्रयागः

 

7

द्वे विद्ये वेदितव्ये

परिमलमण्डलः (शोधच्छात्रः)

pdf.png

संस्कृतविभाग-पाण्डिच्चेरीविश्वविद्यालय

8

उपनिषदों में ओङ्कार की उपासना

श्री विवेकशर्मा (सहायकाचार्य)

pdf.png

            हिमाचलप्रदेश केन्द्रीय विश्वविद्यालय, धर्मशाला

9

व्याकरणाध्ययनस्य प्रयोजनम्

डा रविनाथ शुक्ल

pdf.png

श्रीनिकेतनम्, अयोध्या, उत्तरप्रदेश

10

गौतमबुद्धदृष्ट्या  दुःखनिरोधः

देबब्रतनाएकः  डाँ.अनिलप्रतापगिरिश्च

pdf.png

संस्कृतविभागःपाण्डिच्चेरी-विश्वविद्यालयः

11

वेदेषु सूर्यविज्ञानम्

श्रीब्रजेशकुमारझा,  (शोधच्छात्रः) 

pdf.png

श्री लालबहादुरशास्त्रिराष्ट्रियसंस्कृत-विद्यापीठम्, नवदेहली

12

भारते सुशासनप्रबन्धनपद्धतये संस्कृतभाषायाः योगदानम्

डा. हीरालालदाशः, (सहायकाचार्यः)

pdf.png

श्रीचन्द्रशेखरसंस्कृतविश्वमहाविद्यालयः, एनाथुर, कांचीपुरम्, तमिलनाडुः।

13

अभिज्ञानशाकुन्तलम् में वात्सल्य योजना

स्वीटी रानी, (शोधच्छात्रा)

pdf.png

वेदव्यास परिसर, बलाहर, हि.प्र.

14

ब्रह्मपुराणे भगवान् जगन्नाथः

 

डा. मखलेशकुमारः, (सहाचार्यः)

 

pdf.png

पुराणेतिहासविभागः,  राष्ट्रियसंस्कृतसंस्थानम् (मा.वि), श्रीसदाशिवपुरीपरिसरः, पुरी

15

मनोरमाशेखरदिशाकौमुदी-मङ्गलसमीक्षणम्।

श्री श्रीनाथधरद्विवेदी (प्राध्यापकः)

pdf.png

राष्ट्रियसंस्कृतसंस्थानम्, बलाहरः, हिमाचलप्रदेशः, वेदव्यासपरिसरः

16

Political aspects in  Kalidasa’s Works

Amritava Das

pdf.png

Village & P.O - Atbati, District - East Midnapore, W.B,

 

 

 

मुख्यसम्पादकीयम्

Sn Jha.jpg

  . सदानन्द झा

मुख्यसम्पादकः

शिवशिरसि वसन्ती संविदानन्दनीरा

हृदय कलुषपुञ्जं प्रक्षिपन्ती विदूरे

सघन तमसि दिव्यं ज्योतिरालोकयन्ती

प्रसरतु भुवि भव्या जाह्नवी काऽपिधन्या॥

 

अये आध्यात्मिकगहनचिन्तकाः सुरसरस्वतीसमाराधनतत्परान्तःकरणा विद्वज्जनाः शास्त्रविचार-परिशीलनलब्धादरासहृदया सम्माननीयाः पाठकाः संस्कृतानुरागिणश्च!!

 

विश्वस्य प्रथमान्तर्जालीयान्ताराष्ट्रियसंस्कृतत्रैमासिक जाह्नव्याः पत्रिकायाः प्रकृतमिममेकोनत्रिंशदङ्कं सहृदयपाठकानां पुरतः समुपस्थापयन् मोमुद्यते मे मनः। सुरभारत्याः प्रचारप्रसार हेतवे जनवरी २०१० ख्रीस्ताब्दात् विशिष्टविदुषां करकमलाभ्यां लोकार्पणपरम्पराऽवच्छिन्ना प्रचलिता वर्तते। एतत्परम्परायां चतुर्थाङ्कस्य कार्यक्रमः संयुक्तराज्यामेरिकास्थिते अटलाण्टानगरेऽपि डा. दीनबन्धुचन्दौरामहाशयेन शतशोविदुषामुपस्थितौ सोल्लासं सम्पादितः इति तु जानन्त्येव शास्त्ररसिकाः।

 

एतत्क्रमे अस्मदीयपत्रिकाप्रस्तुताङ्कस्य लोकार्पणकार्यक्रमः तमिलनाडूस्थ कर्णाटकसङ्घप्रेक्षागृहे अस्माकं परमसौभाग्यवशात् विविधशास्त्रमर्मज्ञैः कृतभूरिपरिश्रमैः महामहिमराष्ट्राधीशसम्मानितैः डा. वी प्रभञ्जनाचार्यमहोदयैः विविधकार्यक्रमव्यस्तेनापि पत्रिकालोकार्पणकृते कृपानुमतिः प्रदत्तास्ति एतदर्थं सश्रद्धं कार्तज्ञ्यं विनिवेदयति सकलजाह्नवीपरिवारः।

 

प्रतिस्पर्द्धात्मके युगे साम्प्रतं नैकाः संस्कृतपत्रिकाः विभिन्नराज्येभ्यः देशेभ्यः विदेशेभ्यश्च अन्तर्जालमाध्यमेन सञ्चालितास्सन्ति। यथा प्रख्यातविदुषा डा. बलदेवानन्दसागरमहाभागेन संस्कृतपत्रकारितेतिग्रन्थे सविवरणं समुदीरितमस्ति। किन्तु कृतभूरिपरिश्रमाणां विद्यावृद्धानामनारतशास्त्रचिन्तकानां स्व-स्वविषयमर्मज्ञानां विशिष्टविदुषां साहाय्येन नानाप्रान्तेभ्यः सम्प्रेषितपाण्डित्यपूर्णशोधनिबन्धान् प्राप्य धीरं प्रवहन्ती सहृदयमनांसि सिञ्चन्ती अन्ताराष्ट्रियमानकपत्रिकाप्रतिष्ठां सम्प्राप्ता। विश्वविद्यालयानुदानायोगेनाप्यनुशंसिता च । अस्मदीयेयं पत्रिका नेदानीं यावत् प्रभाविता अपितु शुक्लपक्षीयचन्द्रवत् शनैः शनैः बर्द्धिता स्यादिति मन्ये।

 

प्रकृताङ्के नीरक्षीरविवेकिभिर्विद्वद्वरैरनुशंसितप्राप्ता आलेखाः पक्षपातशून्यमनसा पञ्चादशाधिकाः सङ्गुम्फिता। यत्र ’कर्मविमर्शः, लब्धं नेत्रनिर्वाणम्, मनुस्मृतौ दण्डविधानम्, उत्तर-आधुनिकतावादस्य रसगंगाधरे प्रभावः, भारतशासनपद्धतये संस्कृतभाषायाः योगदानम्, वेदेषु सूर्यविज्ञानम्, व्याकरणाध्ययनस्य प्रयोजनमित्यादयः शोधनिबन्धाः शास्त्ररसिकानां सहृदयपाठकानां विशेषेण मनांसि रमयिष्यन्तीति मे द्रढीयान् विश्वासः। समाहितेनापि पत्रिकायां क्वचिद्दोषो भवेत्तर्हि समाधेयो दोषज्ञैः। मुनयोपि भ्राम्यन्तीति का कथा अस्मादृशानां लोचनगोचराणाम्।

 

अन्ते सारस्वत-यज्ञे कृतभूरिपरिश्रमेभ्यः सकलजाह्नवीपरिवारेभ्यः सविनयं धन्यवादाः समर्प्यन्ते। आशाऽसे जाह्नवीवदेव जाह्नवी सुचिरं सर्वत्र प्रवहन्ती सहृदयजनमानसे शान्तिं सुखं सन्तोषं प्रयच्छतादिति कामयमानः सादरं निवेद्य विरमत्ययं जनः।

श्रुतिध्वनिमनोहरा मधुरसा शुभा पावनी

स्मृताप्यतनुतापहृत् समवगाहसौख्यप्रदा।

निषेव्यपदपङ्कजा सुकृतमूर्तिमान्याऽमला

समस्तजगतीतले प्रवहतादियं जाह्नवी

विद्वच्चरणचञ्चरीकः

झोपाख्यः सदानन्दः

लखनौरम्, विहारः

बुद्धपूर्णिमा

 


 

प्रकाशकीयम्

1-Copyof100_6705.JPG

डा. बिपिनकुमारझा[1]

 

यस्याः प्रभावमतुलं भगवाननन्तो,

ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।

सा चण्डिकाऽखिलजगत्परिपालनाय,

नाशाय चाशुभभयस्य मतिं करोतु॥

 

सर्वोऽपि राष्ट्रसमुदायः इदानीं भारतवर्षस्य अप्रतिहतविकासगतिं विलोक्य आश्चर्यपारावारे निमग्नोऽस्ति। जी-एस-९ वाहकविमानस्य सफलप्रयोगेण को वा न देशः आश्चर्यमनुभवति । इमाः घटना भारतीयानां चेतः प्रसादयन्ति। किन्तु अस्मिन्नेव क्रमे काश्चन घटनाः हृदयं विदारयन्ति। यथा पाकिस्तानप्रेरिताः केचन भारतीयनवयुवानः मातृस्वरूपां भारतभूमिं तर्जयन्ति। भारतीयसैनिकैः साकम् अभद्रव्यवहारं कुर्वन्ति। स्वदारान् पुत्रान् पितॄन्  परित्यज्य  ये सैनिकयतयः केवलं देशसेवार्थं मातृभूमिरक्षणार्थं स्वप्राणान् अपि अविगणय्य भारतपरिधिं रक्षन्ति तान् प्रति एषः दुराग्रहः सर्वथा अनुचितः। सैनिकाः मनसापि आदरणीयाः। एवमेव सर्वकारेणापि सैनिकानां सर्वविधव्यवस्था इतोऽपि परिवर्द्धनीयाः। वस्तुतः ते सीम्नि अहर्निशं जागरणं कुर्वन्ति वयं च स्व-स्वसदने आनन्दपूर्वकं शयामहे। अत एव सैनिकाः यतयो भवन्ति । सा निशा सर्वभूतानां यस्यां जागर्ति संयमी।

 

अस्मिन्नेव क्रमे मुस्लिमसमाजे विद्यमानातीन तलाकनामधेया कुप्रथा मुस्लिमवनिताः पीडयन्ति। जन्मजन्मान्तरसम्बन्धः दम्पत्योः तलाक इति त्रिवारसमुच्चारणेनैव शिथलीभवति सहसा खण्डितो भवति। क्व गता यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता इति भारतीयपरम्परा। यद्यपितीन तलाक इति कुख्यातपरम्परां न सम्मानयन्ति मुस्लिमदेशाः। अनेके देशाः न ददति मान्यताम् अस्यै कुप्रथायै। भारतेऽपि एषा व्यवस्था आनेतव्या। यद्यपि भारतीमुस्लिमवनिताः अपि इमां व्यवस्थां भर्त्सयन्ति तथापि ये भोगवादिनो मुस्लिमपुरुषाः सन्ति ते समर्थयन्ति इमां परम्पराम्। मन्ये  माननीयसर्वोच्चन्यायालयेन काऽपि सद्यः एव उत्तमा-व्यवस्था सम्पादयिष्यते।

 

सम्प्रति UGC द्वारा प्रकाशितप्रामाणिकशोधपत्रिकाया: सूची इत्यत्र 38893 क्रमे जाह्नवीपत्रिकाया: क्रम: वर्तते। एतदर्थं हार्दान् धन्यवादान् प्रकटीकरोमि| इदानीञ्च ये विपश्चिदपश्चिमाः साक्षात् सम्पादने प्रकाशने पुनर्वीक्षणे च स्वपरिश्रममर्पितवन्त एतदर्थमेतेषां कृते भूयोभूयः कार्तज्ञं विभर्ति जाह्नवीपरिवारः। अन्ये ये केचन् उपकारकाः सन्ति तेषां कृते अपि  नमोवाकं प्रशास्ति ।  

 

दुर्जनः सज्जनो भूयात् सज्जनः शान्तिमाप्नुयात्

शान्तो मुच्येत बन्धेभ्यो मुक्तश्चान्यान् विमोचयेत्।

भवदीयः

 

बिपिनकुमारझा

बुद्धपूर्णिमा

बलाहरस्थ-वेदव्यासपरिसरः, हिमाचलप्रदेशः                                        


 

 

 

 

Ssubmit Your Unpublished Research Articles To

 

bipinkumarjhaofficialid@gmail.com

+91  9459456822

 



[1] प्रकाशकः सम्पादकश्च