My Photo

डॉ. हरेकृष्ण- मेहेरः

http://hkmeher.blogspot.com 


संस्कृति-गीतिका

[ 'ुष्पाञ्जलि-विचित्रा' गीतिकाव्यतः]

 

विजयतेतराम् ॐकार-भारती, संस्कार-भारती
शुचि-वर्णम्, अन्तःकरणम्,
भुवि भव्या प्रतिभा विभास्वती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती
(ध्रुवम्)
*
गुण-समुज्ज्वला सौम्या सुजला भारत-जननी,
वैभव-पूर्णा मधुराभरणा भुवन-पावनी
सुनिर्मला, रम्योर्मि-चला,
इह गङ्गा यमुना सरस्वती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (१)
*
विश्‍व-विश्रुता श्रुतिरनवद्या विद्या सकला,
चर्चित-विबुधा ललिता विविधा प्रिय-चारु-कला

विराजते, निखिल-भारते,
परमार्या परम्परा महती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (२)
*
सङ्गीत-सुधा सङ्गत-रङ्गा जन-मनोहरा,
प्रसरति नित्यं नृत्य-माधुरी रस-राग-भरा
चित्र-कला, सुपवित्र-फला,
प्रति-हृदयं प्रमुदं वितन्वती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (३)
*
शिव-सङ्कलपा शिल्प-चातुरी वाङ्‍मयाङ्किता,
स्थापत्य-दिशा मन्दिर-माला समभिनन्दिता
सुरञ्जिनी, ताप-भञ्जिनी,
चिर-सुभगा शुभ-कीर्त्ति-व्रतती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (४)
*
जीवन-धारा विगत-विकारा वहतु सौख्यदा,
मानवताया ज्योति-र्दिव्यं लसतु सर्वदा
जागरणे, कर्माचरणे,
इह सुजनो महतां तपोव्रती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (५)
*
संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे,
शान्ति-भावना धार्या नियतं पर्यावरणे
मातृ-पदे, मङ्गलास्पदे,
प्रणति-र्नो नितरां भक्तिमती
विजयतेतराम् ॐकार-भारती, संस्कार-भारती ॥ (६)


* *

(कविना स्वोद्‍भावित-मौलिक-छन्दसा प्रणीता इयं गीतिका

कहरवा-ताल-मध्यलयेन इयं परिवेषणीया ।)

* * 

Original Sanskrit in Roman Script :
Sanskriti-Gītikā (Song of Culture)
[ From Sanskrit Gīti-KāvyaPushpāñjali-Vichitrā’ ]

 

= = = = = = = = = = = = = = = = =

Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī.
Śuci-varņam, Antah-karaņam,
Bhuvi bhavyā pratibhā vibhāsvatī /
Vijayatetarām OM-kāra-Bharatī, Samskāra-Bhāratī // (0)
*
Guņa-samujjvalā saumyā sujalā Bhārata-jananī,
Vaibhava-pūrņā madhurābharaņā bhuvana-pāvanī.
Sunirmalā, Ramyormi-calā,
Iha Gańgā Yamunā Sarasvatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (1)
*
Viśva-viśrutā śrutiranavadyā vidyā sakalā,
Carcita-vibudhā lalitā vividhā priya-cāru-kalā.
Virājate, Nikhila-Bhārate,
Paramāryā paramparā mahatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (2)
*
Sańgīta-sudhā sańgata-rańgā jana-manoharā,
Prasarati nityam nritya-mādhurī rasa-rāga-bharā.
Citra-kalā, Supavitra-phalā,
Prati-hridayam pramudam vitanvatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (3)
*
Śiva-sańkalpā śilpa-cāturī vańmayāńkitā,
Sthāpatya-diśā mandira-mālā samabhinanditā.
Surañjinī, Tāpa-bhañjinī,
Cira-subhagā śubha-kīrtti-vratatī/
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (4)
*
Jīvana-dhārā vigata-vikārā vahatu saukhyadā,
Mānavatāyā jyotir divyam lasatu sarvadā.
Jāgaraņe, Karmācaraņe,
Bhavatu jano mahatām tapo-vratī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (5)
*
Samhati-sūtrā Bhārata-putrā maitrī-bharaņe,
Sānti-bhāvanā dhāryā niyatam paryāvaraņe.
Mātri-pade, Mańgalāspade,
Praņatir no nitarām bhaktimatī /
Vijayatetarām OM-kāra-Bhāratī, Samskāra-Bhāratī // (6)


= = = = = = = = = = = = = =

 

 

{डॉ. हरेकृष्ण- मेहेरः कविः हरेकृष्ण-मेहेरः  आधुनिक-संस्कृत-साहित्यस्य अन्यतमः सुपरिचितः सारस्वत-साधकः ।   स संस्कृत-विद्वान्, अध्यापकः, गवेषकः, समालोचकः, गीतिकारः, स्वर-रचनाकारः, सुवक्‍ता  मौलिक-लेखकः सफलानुवादकश्‍च ।  ओड़िशा-राज्यस्य नूआपड़ा-जिल्लान्तर्गते सिनापालि-ग्रामे १९५६-ईसवीय-वर्षे कवि-परम्परा-वाहिनि वंशेलब्ध-जन्मा । तस्य पिता दिवंगतः कविः नारायण-भरसा-मेहेर:, माता श्रीमती सुमती देवीपितामहः दिवंगतः कविः मनोहर-मेहेरः ओड़िआ-साहित्ये पश्‍चिम-ओड़िशायाः 'गणकवि'-रूपेण चर्चितः}