logo.jpg

राष्ट्रोन्नत्यै संस्कृत्यस्य योगदानम्

Image0021

 

राष्ट्रोन्नत्यै संस्कृत्यस्य योगदानम् विषयेऽस्मिन् अस्त्येषा विवदिषा मदीया यत्- सम्यक् प्रकारेण क्रियते संस्क्रियते येन तत् संस्कृतम् इति व्युत्पत्यनुसारं संस्कृतशब्दादेव अभिव्यज्यते यत् संस्कृतं हि नाम तथाभूतः ज्ञानस्वरूपः उदधिः यस्य जले निमज्य न केवलं भाषा अपितु मानवः परिवारः समाजः एतेषां समष्टिभूतञ्च राष्ट्रं तत्सर्वं संस्कर्तुं परिष्कर्तुं शक्यते। यतोहि विद्यते अस्मिन् उदधौ विपुलं विशालं समृद्धं साहित्यम्, येषु च उपनिबद्धाः मानवजीवनोपयोगिनः राष्ट्रोन्नत्युपयोगिनश्च ते सर्वेऽप्युत्कृष्टपक्षाः यांश्च परिपाल्य राष्ट्रं न केवलं राष्ट्रम् अपितु राजमानं राष्ट्रं सर्वथा महतः राष्ट्रस्य पदमलङ्कर्तुं शक्नोति, तद्यथा- अध्यात्मविद्या वेदोपनिषत्सु, सुहृदाचारव्यवहाराः मनुस्मृतिविदुरनीत्यादिषु राजनीतिः महाभारते, अर्थोपार्जनं कौटिल्यार्थशास्त्रे, जीवनरक्षायै शस्त्रास्त्रविद्या धनुर्वेदे, आरोग्यार्थञ्च वैद्यकविद्याः आयुर्वेदादिग्रन्थेषु प्रभूतरूपेण समुपलभन्ते॥

नैतावदेव कस्यचन राष्ट्रस्य उन्नतेर्मूला तस्य आत्मपर्यायभूता संस्कृतिरेव परिचायिका भवति इति सिद्धान्तानुसारम् अस्माकीना सर्वोत्कृष्टा ऋषिभिर्निनादिता देववृन्दैर्वन्दिता विश्ववारा भारतीयासंस्कृतिः संस्कृताश्रिता एव खलु, यस्यां पदे-२ उपनिबद्धाः ताः राष्टीयभावनाः याः भारतदेशे निवसमानानां मनुजं-मनुजं प्रति कर्तव्यं बोधयन्ती उन्नतराष्ट्रस्य दिग्दर्शनं कारयन्ति। तद्यथा- अस्माकं वीरा उत्तरे भवन्तु, एषां राष्ट्रं सुवीरं वर्धयामि,

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्मयज्ञः पृथिवीं धारयन्ति

तथा च यस्यां भाषायां विद्यन्ते आत्मविश्वासस्य उत्तुंगधाराः यथा

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः

अहं राष्ट्री संगमनी वसूनाम्, वयं राष्ट्रे जागृयाम पुरोहिताः

इत्यादि विपुलासु उच्चभावनासु सत्सु एतत् राष्ट्रं न् कदाचिदपि ह्रासो विलासो अपकीर्तिश्च मध्ये विलसितुं पारयति इत्येतत् सुनिश्चितम्।

ऐतिह्यं साक्षि यत्- आसीत् कदाचित् अस्माकं राष्ट्रे सर्वत्र सौहार्दः सुखशान्तिः राष्ट्रोत्कर्षश्च। विश्वस्मिन् न द्वितीयं न तृतीयम् अपितु एकमेव वृत् एकमेव जगद्गुरुपदमलङ्कृतं समृद्धं सुसंस्कृतमेतत् अस्माकं राष्ट्रं, परं न तथा अद्य सौहार्दं सुखशान्त्यादिकं वरीवर्ति, अपितु सर्वत्र परस्परं कलहः अविश्वासः असन्तोषः भ्रष्टाचारः, आंतकवादः, भ्रूणहत्यासमस्याभिः आच्छन्नमस्माकं राष्ट्रम्। विचारयन्तु तावत् किमत्र कारणम्? सूर्याचन्द्रमसौ द्यावापृथिव्यौ सरित्समुद्रगिरयः तथैव सम्प्रति खलु विद्यन्ते यथा पूर्वमासन् अतः मम मते तु एकमेव कारणं परिलक्ष्यते यत्- संस्कृतपरित्यागः एव अस्त्यत्र मूलकारणम्। यद्यपि इदं सत्यं यत्- पुरातनीनाऽपि नूतना अजिह्माराजपद्धतिरूपा सक्तुमिव तितउना पुनाना सैषा संस्कृतभाषा तथैव राराजते, परं न तथा तस्याध्ययनम् उपयोगश्च क्रियते यथा आवश्यकम्। तथा च सति- राष्ट्रोन्नतेः मूलतत्वे संस्कृते छिन्ने पुष्पपत्राणि तु विनङ्क्षत्येव। यथा चोक्तं चाणक्येन-

छिन्ने मूले नैव शाखा न पत्रम्

अस्माकं शासनतन्त्रे रामराज्यमभीप्सवः प्रजापालकाः राष्ट्रोन्नायका इति नाम बिभ्रियमाणाः नैके राष्ट्रपातकाः, प्रजाभक्षकाः राजनीतिज्ञानेन सर्वथाशून्याः शोभायमानाः दरीदृश्यन्त इति नास्ति तिरोहितं समेषाम्। सामयिकसमाचारपत्रेषु संसदसदस्यानाम् उत्कोचकृत्यम् अधीतवन्तः स्युरेव भवन्तः कियत् लज्जास्पदमेतत्कृत्यम् अस्माकं कृते। यदि ते संस्कृतोदधेः वेदानुमोदितां-

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।

सहस्रगुणमुत्स्रष्ट्रुमादत्ते हि रसं रविः॥

अर्थात् यथा सूर्यः भूमेर्जलं भूमिरुपकारार्थं वृष्ट्यर्थमेव आदत्ते तथैव शासकाः प्रजानां कल्याणायैव करं गृह्णीयुः इति लोकोपकारिकां शिक्षां स्वजीवने आधरिष्यन् राष्ट्रविघातकमेतद् कृत्यं नैवाकरिष्यन्। किञ्च- आतंकवादरूपी विशालग्राहस्य जम्भे ग्रस्तं न केवलं राष्ट्रम् अपितु सम्पूर्णोऽपि विश्वः। सत्यामेतस्यामवस्थायां कथं हि प्राप्नुयान्नो राष्ट्रमुन्नतिशिखरम्? सत्यम् अस्यापि समाधानम्। यदीमे राजनीतिज्ञाः संस्कृतमातुः क्रोडे स्समागच्छेयुः। तथा हि-

नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान्।

क्षिणोमि ब्रह्मणा मित्रान्नुन्नयामि स्वानहम्॥

वृश्चामि शत्त्रूणां बाहूननेन हविषाऽहम्।

चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि श्रृणीमसि

अर्थात्- यः दुर्हार्दः राष्ट्रं प्रति चक्षुषोः चेष्टयाऽपि मन्त्रायते तस्य पृष्टीः श्रृणीमसि चूर्णयामः भञ्जयामः। यद्येषा वैदिकीन्यायव्यवस्था एतैः साकं स्यात् तर्हि कथन्नहि प्रानुयाम वयम् आतंकवादान्मुक्तिः? अतः अयि सुरभारतीसमुपासकाः! संस्कृतरूपीज्ञानोदधेः ज्ञानरूपीजलेन अनुस्यूताः वयं भारतमातुः पुत्राः राष्ट्रोन्नतिबाधकतत्वान् संस्कृतेनैव विध्वंस्य राष्ट्रम् उन्नतिशिखरे विश्वगुरुपदे च दोधूयमानं दरीद्रष्टुं प्रभवाम इति शाश्वतदृढनिश्चयः, अतः-

वृक्षस्य शोभा पत्रेषु यथा लोके विराजते।

तथा राष्ट्रोन्नतिश्चास्ते सार्वभौमिक-संस्कृते॥

 

सन्दर्भ-ग्रन्थ-सूची

1.  चतुर्वेद संहिता्, गोविन्दराम हासानन्द नई सड़क दिल्ली

2.  चाणक्यनीतिः

निधि वेदरत्न (शोधच्छात्रा)

विशिष्टसंस्कृताध्ययनकेन्द्रम्

जवाहरलाल नेहरु विश्वविद्यालयः

नव-देहली, ११००६७