यदि इन्धनं नास्ति तर्हि वायुना यास्यति मम यानम्

 

नहि कदापि भेतव्यं प्रत्यूहाद् विकटादपि !

बुद्धिर्यावन्नृणां स्वस्था प्रत्यवायोविद्यते!!

 

"महता वेगेन शतश: योजनानि प्रवसामि, प्रवसोऽपि च मम आनन्ददायकभवतु" इति विचिन्त्य मानवेन कारयानानि निर्मितानिवातानुकूलिते नितरांसुखदायके याने उपविश्य इदनीं विश्वे सर्व-मानवा: यत्रां कुर्वन्ति इति वयं जानीम एव। शतश: निगमा: विविध-अपेक्षातोषयितुं सहस्रधा कारयानानि निर्मान्ति

 

एतावता एव इन्धनस्य न्यूनता, प्रदूषणात् च वैश्विक-तापमानस्य वर्धनम् इत्यादय: समस्या: उद्भूता:। प्रकृत्या आह्वानं कृतम्- "रे मानव! आसां समस्यानां समाधानं चेत् कर्तुं शक्नोषि तदा कामं एतै: सुखदायकै: यानै: प्रवासं कुरु, नो चेत् पुन: अश्वारूढो रथारूढो वा भव" इति

 

मनवो॓ऽपि वदति, "समस्याभ्य: न भीतोऽहं यावद् एषा मम बुद्धि: मयि अनुग्रहवती अस्ति" इतिमानवेन इदनीं इन्धन-निरपेक्षानि वायु-सञ्चालितानि यानानि निर्मितानि सन्ति!!

 

पूर्वतन-फ़ार्म्यूला-वन-अभियन्त्रा गाय-नेग्रे-महोदयेन एतादृशं यानं प्रकल्पितम् अस्तिटाटा-मोटर्स-द्वारा मिनि-केट्-नामकम् एतादृशं यानं शीघ्रमेव भरते विक्रयणार्थम् उत्पादयिष्यते इति श्रूयतेकेवलं सार्ध-त्रिलक्ष-रुप्यकै: प्राप्स्यमाणम् एतद् यानं ५०रुप्यकात्मकेन संकोचित-वायुना पूरित: सन् १००कि.मि चलिष्यतिचलनसमये यानेन निष्कास्यमान: शुद्ध: वयु: इयान् शीतलभविष्यति, यत् तस्य उपयोगशीतक: इव कर्तुं शक्ष्यते

 

पुनरपि मानव: प्रकृतिम् उवाच- "अयि प्रकृते! एषा समस्या तु सुष्ठु समाहिता.... इतोऽपि समस्या: प्रेष्यताम्ताभि: मम विकास: एव भवति!!"

 

 इति शिवम्

 

Dipesh Katira

CISTS, HSS, IIT Bombay